OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, January 15, 2016

विद्यालयेषु रन्ध्रिकासम्प्रदायः (पञ्चिङ्) सम्पद्यते।
तोटुपुष़ा >  केरलराज्ये सर्वकारीय - आर्थिकोत्तेजितविद्यालयेषु रन्ध्रिकासम्प्रदायम् आविष्कर्तुं चिन्ता प्रवर्तते। अद्ध्यापकाः छात्राश्च अङ्गुलीमुद्रामुपयुज्य (अङ्गुलीवलय:) उपस्थितिं विलिख्यमाना रीतिः भवत्येषा। प्रथमतया इटुक्की जिल्लायां दश विद्यालयेषु परीक्षणरूपेण आविष्कर्तुमुद्दिश्यते।मासद्वयाभ्यन्तरे प्रवर्तनमारभ्यते। आगामिनि अध्ययनसंवत्सरे पूर्णतया प्रवर्तिष्यते।
रन्ध्रिकासमये एव अनन्तपुरिस्थिते सर्वशिक्षा अभियान् कार्यालये ज्ञातुं शक्यते।

Thursday, January 14, 2016

अपत्यपालन विरामस्य निषेधः न स्यात् ।

नवदेहली  - केन्द्रसर्वकारस्य महिलाकर्मकर्यः न्यूनात् न्यूनं  पञ्च दिवसेभ्यः अपत्यपालन विरामाय निवेदनं दत्तं चेत् तस्य निषेधः न स्यात् इति केन्द्र पष्‌सणल् (नैज मन्त्रालयः ) मन्त्रालयेन उद्घुष्टम् ।
कर्म शिष्टमस्ति इति हेतोः निषेधः न स्यात् । किमपि विशिष्टं कार्यमस्ति चेदेव विरामनिषेधः स्यात् ......।

भारतं धार्मिकसौहार्दस्य केदारः - उपराष्ट्रपतिः।

मलप्पुरम् (केरलम्)>वसुधायाः सकलधर्माणां कुटुम्बकं भवति भारतमिति उपराष्ट्रपतिना हमीद् अन्सारि महोदयेन उद्घुष्टम्। पाणक्काट् स्ट्रेयिट् पात् अन्तर्देशीयविद्यालयस्य आभिमुख्ये आयोजितं मतमैत्रीसम्मेलनम् उद्घाटयन् भाषमाणः आसीदुपराष्ट्रपतिः।अस्माकं राष्ट्रं न केवलं विविधान् धर्मान् स्वीकरोति किन्तु ते धर्माः परस्परपूरकत्वेन प्रवर्तन्ते च। यदा सेन्ट् तोमसः मालिक् दिनारः च केरलं प्राप्तवन्तौ तदा सुमनसा स्वीकृत्य ताभ्याम् आराधनालयान् निर्मीय दत्तवन्तः।कोच्चीमध्ये मलबार् प्रान्ते च विद्यमानाःजूताः भारतस्य पौराणिकाः सन्ति।ते परस्परं व्यवहारं कृत्वा सांस्कृतिकवैविध्यैः सम्पुष्टाः अभवन्।उपराष्ट्रपतिना उक्तम्।

मसूदः गृहीतः।

इस्लामबाद् > पठान्कोट्ट् भीकराक्रमणस्य सूत्रधारः इति विचार्यमाणः जेय्षे मुहम्मद् संस्थायाः नेता मौलाना मसुद् असर् नामकः पाकिस्तानरक्षिपुरुषैः गृहीत इति सूचना।अस्मिन् विषये आधिकारिकस्थिरीकरणं न कृतम्। किन्तु जय्षे मुहम्मदस्य कार्यालयाः बन्धिताः बहवः प्रवर्तकाः गृहीताश्चेति पाक्प्रधानमन्त्रिणः नवास् षरीफस्य कार्यालयेन स्पष्टीकृतम्।

जे एफ् आर् जेक्कब् निर्यातः।

नवदिल्ली >  बङ्लादेश् राष्ट्रस्य जननकारणभूतस्य भारत-पाक्युद्धस्य भारतसेनानायकः लफ्टनन्ट् जनरल् जे एफ् आर् जेक्कबवर्यः -९२ - दिवंगतः।सैन्यात् विरमितः सः पञ्चाब् गोवा राज्ययोः राज्यपालकश्चासीत्।
बंगलादेशविमोचनयुद्धकाले भारतसैन्यस्य पूर्वकमाण्डन्ट्  विभागस्य नेता आसीत् जेक्कब्वर्यः। धाक्का प्रविश्यायां पाक्सैन्यस्य पराजय अस्य बुद्धिपूर्वकक्रियाविधेः फलमासीत्।

Wednesday, January 13, 2016

तिरुच्चेन्तूरे तिमिंगलाः मृताः।

तूत्तुक्कुटी > तमिळनाटुराज्ये तिरुच्चेन्तूर् समुद्रतीरे ४५ बलीन् वंशीयाः तिमिंगलाः मृत्युमुपगताः।२६० परिमिताः समुद्रान्तर्भागं गन्तुमशक्ताः तीरे एव वर्तमानाः जाताः। सोमवासरे मध्याह्नादारभ्य मत्स्याः तीरमुपागन्तुमारब्धाः इति धीवरैः उक्तम्।

Tuesday, January 12, 2016

भारतेन लोकाय आत्मीयता एव दत्ता न तु वर्गीयता _ मोदी

मुम्बय् > लोकाय भारतस्य योगदानं तु आत्मीयता एव न हि वर्गीयता इति प्रधानमन्त्री नरेन्द्रमोदी I सर्वासां समस्यानां परिहारः आत्मीयतया साध्यमिति तेन उक्तम् । भारतीय जनताम् अवगन्तुं लोक: पराजितः इत्यपि तेन उक्तम् I
भारते असहिष्णुता वर्धते इति वादे प्रवर्धमाने एव प्रधानमन्त्रिणः वाचः । जयिन् आचार्य रत्न सुन्दर्सुरीश्वर्महाराजेन रचितस्य  मै इण्ड्या नोबिल् इनण्ड्या इति पुस्तकम् वीडियो कोण्फरन्स्  द्वारा प्रकाशयन् आसीत् स: I आङ्गलेय , हिन्दी , गुजराती , मराठी , भाषासु  प्रकाशितम् पुस्तकमिदम् ..।

नेताजीवर्यस्य मरणं विमानदुर्घटनायामिति ब्रिट्टनस्य वेब्सैट्।

लण्टन् - भारतस्य स्वातन्त्र्यान्दोलननायकः ऐ एन् ए स्थापकः नेताजी सुभाष् चन्द्रबोसवर्यः विमानदुर्घटनायामेव मृतः इत्युद्घोषयन् www.bosefiles.info इति कश्चन ब्रिटीष् अन्तर्जालः रहस्यान्वेषणपत्रैः सह रंगप्रविष्टः।
  १९४५ आगस्ट् मासस्य १८ तमदिनाङ्के तय्वान् मध्ये दुरापन्ने विमानदुरन्ते नेताजिवर्यः दिवंगत इति तेषां  विज्ञप्तिपत्रे सूचितम्।दृढीकरणाय बहूनां साक्षिणां विवरणान्यपि विज्ञप्तिपत्रे आयोजितानि।
   वियट्नां राष्ट्रस्य टूरन् नामकात् विमानपत्तनात् जप्पानस्य राजधानी टोक्कियोनगरं लक्षीकृत्य विमानम् उड्डयितम्। परन्तु यान्त्रिकदोषकारणेन विमानं यातत्रामध्ये भग्नमभवत्। नेताजिवर्यं विना १३यात्रिकाः वैमानिकश्च आसन्। जप्पानस्य सैन्याधिपः लफ्.जनरल् सुना मास सिदय् आसीत् तेषु प्रमुखः।
किन्तु ईदृशविज्ञप्तिपत्रस्य आधिकारिकतामधिकृत्य ब्रिट्टीष् सर्वकारस्य प्रतिकरणम् इतःपर्यन्तं नाभूत्।

शबरिगिरिः - नैतिकसंविधानमनुसृत्य महिलाः निरोद्धुं न शक्यत इति सर्वोच्चन्यायालयः।

नवदिल्ली -- शबरिगिरौ श्रीधर्मशास्तृमन्दिरदर्शनात् महिलाः निरोद्धुं विरुद्ध्य सर्वोच्चन्यायालयस्य निरीक्षणम्।भारतीयनीतिशास्त्रसंविधानमनुसृत्य शबरिगिरौ स्त्रीणां सन्दर्शननिरोधः अप्रायोगिकः इति न्याय. दीपक् मिश्रेण अाध्यक्ष्यं वहन् नीतिपीठः व्यक्तीकृतवान्।

Monday, January 11, 2016

 आत्मानं सृजाम्यहम्

अद्य जनुवरि  12 युवदिनम्।
सनातनधर्मस्य संरक्षणाय काले काले अत्र भारते पुण्यजन्मनि बहूनि अभवन्। तेषु अन्यतमं भवति विवेकानन्दस्वामिनः जन्म। सः 1863 जनुवरि मासस्य 12 दिने कोलकत्तायां जनिम् अलभत। तस्य पिता विश्वनाथदत्तः माता भुवनेश्वरी देवी च आस्ताम् । नरेन्द्रस्य व्यक्तित्व विकासे तस्य पितरौ अतीव स्वाधीनम् अकुरुताम्। बाल्यकाले एव ईश्वरचिन्तायां तथा आत्मीय चिन्तायां प्रवृत्तः नरेन्द्रः पश्चात् भारतीयतत्वशास्त्रचिन्तकेषु प्रमुखं स्थानं प्राप्य लोकराष्ट्रेषु प्रसिद्धः अविस्मरणीयश्च बभूव।

स्वामिविवेकानन्दस्य शैक्षिक प्रणाली भारतस्य दार्शनिक आध्यात्मिक परमपरायाः अनुरूपा आसीत्। विद्याध्ययनेनैव सर्वेषाम् अभ्युदयः इति सः प्रत्यपादयत्। परिपूर्णतायाः व्यक्तता एव ज्ञानोपार्जनेन संभवति। अध्ययनं नाम केवलं विषयसंग्रहः अपि तु तेन देशस्य कृते किं लभ्येत तदेव प्रामुख्यम् । तस्य मते अध्ययनं नाम अर्न्तनिहित पूर्णतायाः अभिव्यक्तिरेव ।

मातृभाषया साकं संस्कृतभाषयाः शिक्षणमपि आवश्यकमिति विवेकानन्दस्य मतम्। अस्माकं धर्मग्रन्थस्थानि आध्यात्मिक -रहस्य-रत्नानि अन्विष्य संस्कृतभाषया तत् ज्ञानस्य बहिरानयनं करणीयम्। स्त्रीणां कृते विद्यादानम् अवश्यं करणीयम् इति च तस्य मतम्। एवं विद्या सर्वजनस्पर्शिनी स्यात् इति विवेकानन्दः वदति। स्वामि विवेकानन्दः 1897 तमे वर्षे रामकृष्णमिशन् इति एकं सेवास्थानं स्थापितवान्। भारतेस्य विविधेषु प्रदेशेषु एवं विदेशेषु च अस्य संस्थानस्य शाखाः उद्धाटिताः आसन् सम्प्रति च वर्तन्ते।

महापुरुषाः अल्पमेव कालं जीवन्ति इत्यस्ति अनुभवः । तस्यापि सैव। भारतसर्वकारः तस्य जन्मदिनं युवदिनत्वेन आचरन् वर्तते। कस्यापि महतः स्मरणं तस्यजन्मदिनाचरणसीमितं न भवेत्। तेन ज्वलितानाम् आदर्शानां परिपूरणम् अस्माकं दायित्वमेव। संस्कृत-संवर्धनमेव अस्माकं धर्मः। तदर्थं दिनस्यैतस्य प्रेरणां प्राप्नुयाम।
उत्तिष्टत! जाग्रत ! 
डा. के. श्यामळा  
रसना कोषीक्कोड्
आभ्यन्तरसुरक्षायै नूतना पद्धतिः।

नवदिल्ली >भारतस्य आभ्यन्तरसुरक्षार्थं सविशेषविभागं मन्त्रालयं वा रूपवत्कर्तुं प्रधानमन्त्री  स्वेच्छां प्राकटयत्। पठान्कोट्ट्  भीकराक्रमणस्य अनुभवात् एव नरेन्द्रमोदिनः ईदृशः निर्देशः।
अमेरिक्कादेशस्य हों लान्ट् सेक्यूरिटी इति मन्त्रालयसंस्था एव अस्याः पद्धत्याः आदर्शत्वेन स्वीकृता।

Sunday, January 10, 2016

सिरियाराष्ट्रस्य जना: नरके पतिताः। क्षुधा मार्जार- शुनकादयः भोज्या:

डमास्कस् > आभ्थन्तरयुद्धेन  पीडिताः जना:। केचन राष्ट्रान्तरं पलायिता:। अवशिष्टा: क्षुधा पीडिताः सन् बिडाल शुनकादीनपि हत्वा भक्षयन्ति।
सर्वकारस्य अनुकूलिनः विपक्षिदलाः च पञ्चवर्षाणि यावत् युद्धं कुर्वन्नस्ति। अत एव ऐ. एस् आदीनां राष्ट्रान्तर-भीकराणाम् आवासत्वेन राष्ट्रं दुष्टम् अभवत् । अनेन कारणेन विदेशराष्ट्रैः व्योमाक्रमणमपि आरब्धम्I शान्ति किमिति तै: न ज्ञायते। अस्याम् अवस्थायाम् सस्य लतादीन् अपि जन्तुवत् भोक्तुम् आरब्धा: अत्रत्याः हत भाग्या: I तेषां बाह्यबन्धस्य बाधा अस्ति इत्यस्मात् इमां दुरितावस्थां एतावत् कालं न ज्ञायते।
अनशनतया, रोगेण, युद्धमुखे पतित्वा च मारिताः बहव:। मारितानां संख्या कियन्मात्रमिति वक्तुं न शक्यते ।

निर्वाचनदायित्वम्- अध्यापकान् निराकर्तुं चिन्तयति।

अहम्मदाबाद् > सार्वजनीननिर्वाचनं ,जनसंख्यागणना इत्यादिभ्यः उत्तरदायित्वेभ्यः सर्वकारीयविद्यालय़ानाम् अध्यापकान् निराकर्तुं केन्द्रसर्वकारः  चिन्तयतीति मानवशेषिविभागसहमन्त्री रामशङ्करकतेरिया उक्तवान्।
अहम्मदाबादे निर्मसर्वकलाशालायां अन्ताराष्ट्रसम्मेलने भाषमाणः आसीत् सः।अध्यापकानाम् एतादृशानि उत्तरदायित्वानि अध्यापने विघाताय भवतीति विविधाभिः संस्थाभिः परामर्शाः उद्भूताः ।सर्वोच्चन्यायालयेनापि एतद्विषये सर्वकारं प्रति निर्देशः कृतः।
भीकराः मया एव प्रेषिताः- मसूदः।

नवदिल्ली > पठान् कोट्ट् व्योमकेन्द्राक्रमणाय भीकरान् स्वयमेव प्रेषितवानिति जय्षे मुहम्मद् इति भीकरवादिसंघस्य नेता मौलाना मसूद् असर् प्रस्तुतवान्। अन्तर्जालेन बहिरागते मुद्रितशब्दे तस्य ईदृशं जल्पनम् ।

Saturday, January 9, 2016

इतिहासे ऐदम्प्रथमतया गणतन्त्रदिनस्य
पथसञ्चलने फ्रञ्च् सैन्यमपि ।

french armyनवदेहली > जनवरी २६ दिनाङ्के नवदेहल्यां भविष्यमाणे   गणतन्त्रदिनपथसञ्चलने फ्रञ्च् सैन्यमपि भागभाक् भविष्यति। इतिहासे ऐदम्प्रथमतया एव भारतीय सेनया सह कस्यचन विदेशराष्ट्रस्य सैनिकाः गणतन्त्रदिने राजपथे सङ्गच्छन्ति। फ्रञ्च् राष्ट्रपतिः फ्रान्स्व ओलोन्द् एव गणतन्त्रदिने मुख्यातिथिः। मुख्यातिथित्वेन पञ्चमवारमेव फ्रञ्च् भरणाधिकारी आयाति। तथा च अद्य अरब्‍धे संयुक्त परिशीलने भागं वोढुं ५६ अङ्ग फ्रञ्च सैन्यं राजस्थानं प्राप्तवत् । केचन सैनिकाः अपि आगमिष्यन्ति इति सूचना। आतङ्क वादं विरुध्य युद्धे सहकाराय एव शक्ति २०१६ इति नाम्ना संयुक्त सैनिक परिशीलनम् ।


मुफ्ति मुहम्मद् सयिद् दिवङ्गतः।

नवदिल्ली > जम्मु-काश्मीरस्य मुख्यमन्त्री पि. डि. पि दलस्य स्थापकनेता च मुफ्ति मुहम्मद सयिदः दिल्ल्यां AIMS आतुरालये दिवंगतः।श्वासकोशे अणुबाधया चिकित्सितः आसीत्।
तस्य पुत्री मेहबूबा मुफ्ती मुख्यमन्त्री भविष्यति। 

CBSE विद्यालयेषु कृत्रिम-सङ्करभोजनानां निरोधः।

चेन्नै>केन्द्रसर्वकारपाठ्यक्रमविद्यालयानाम् (CBSE)  अल्पाहारगृहेषु कृत्रिम-सङ्करभोजनानां (जङ्क्फुड्)निरोधः आविष्कृतः। राष्ट्रे सर्वत्र सिबिएस् सि विद्यालयानां एष नियमः प्रबलः अस्ति।

लवणमधुरमेदाधिकानां  भोज्यवस्तूनां विक्रयः अल्पाहारगृहे समीपापणेषु च निरुद्धः।अतः भर्जः चाकलेहः पिसा बर्गरः इत्यादीनां विक्रयणे नियन्त्रणं भविष्यति।एतादृशानां भोज्यानामुपयोगेन छात्रेषु रोगाः वर्धन्त इत्यवसिथां परिगण्य एव सि बि एस् सि संस्थया अयं निर्णयः कृतः।

Friday, January 8, 2016

 राज्यस्तरीयकलोत्सवे स्वागतगानरचयिता संस्कृताध्यापिका।

कोच्ची > अनन्तपुरिनगरे जनवरी १९ दिनाङ्कादारभ्य प्रचाल्यमानस्य ५६तम केरलराज्यस्तरीयविद्यालयकलोत्सवस्य स्वागतगानरचनायाः नियोगः संस्कृताध्यपिकायै। कोट्टयं जिल्लायां पाला पूवरणीग्रामस्थे सर्वकारीय प्राथमिकविद्यालये संस्कृताध्यपिका सुप्रसिद्धा युवसाहित्यकारी केन्द्रसाहित्य अक्कादम्याः पुरस्कारजेत्री च  पि.आर्याम्बिका एव कलोत्सवगानरचनायै नियुक्ता।केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः कोट्टयं जिल्लाध्यक्षा भवत्येषा।
अस्य गानस्य संगीत साक्षात्कारं करोति प्रशस्तः हिन्दुस्तानी संगीतज्ञः रमेष् नारायणः।



 अणुपरीक्षणम्-उत्तरकोरियां विरुध्य ओबाम। 

वाषिङ्टण् >   अणुपरीक्षणं कृतम् इति उक्तवताम् उत्तरकोरियां विरुध्य सुशक्तम् प्रतिरोधं भविष्यति इति अमेरिकाराष्ट्रस्य राष्ट्रपतिः बारक् ओबामा अवदत्। तदर्थं  दक्षिणकोरिया जपान् राष्ट्रयोः सहकारितां  संस्थापितवान् च।
उत्तरकोरियाया: प्रवर्तनानि कदापि न अङ्गीकृतानि इति जप्पानस्य प्रधानमन्त्री षिन्से आबे अवदत्। अणुविस्फोटकात् शक्तम् हैड्रजन्  विस्फोटकमेव कोरियाराष्ट्रेण परीक्षितम्।


भरतस्य तेजः विपणीम् अतिक्रम्यते
aeroindia

नवदिल्ली > भारतस्य युद्धविमानं (तेजस् ) बह्रिन् राष्ट्रस्य प्रदर्शनमेलायां प्रति गच्छति। जानुवरी मासस्य 21 दिनाङ्कत: 23 पर्यन्तं सक्कीर् एयर् बेस् मध्ये प्रदर्शनम् आयोजितम्। लोक विपणीम् उद्दिश्य एव अस्य प्रदर्शनम्। 

Thursday, January 7, 2016

भवत: बलदेवानन्दसागरः।

बलदेवानन्दसागरः पत्रं प्रेषितवान्

https://i.ytimg.com/vi/sZcCGAnM-cE/maxresdefault.jpg
नवदिल्ली > संस्कृतवार्ता प्रवाचकः डा. बलदेवानन्दसागरः संस्कृताभिमानिनां प्रति पत्रं प्रेषितवान् ।
संस्कृतस्य अधिकाधिकः व्यावहारिकोपयोगः स्याद् इत्येतदर्थं केचन परामर्शाः तेन महात्मना कृताः । संस्कृतस्य सम्यक् व्यापनमेव तस्य उद्देश:। सर्वषां कृते पत्रमेतत् समर्प्यते । 


नमो नमः !
भवन्तस्तु जानन्त्येव यत् "यस्तु क्रियावान् पुरुषः स विद्वान् |" अतः वयम् आशास्महे यत्  एते अधिगताः अधिगम्यमानाः च परामर्शाः परमार्थेन कार्यान्विताः भवितारः | एतदर्थं प्रशासनेन संस्कृताभिमानिभिः च सम्भूय प्रयतनीयम् | एते परामर्शाः सन्ति- 

[१] यथाशक्यं विद्यालयेषु ,महाविद्यालयेषु ,विश्वविद्यालयेषु, पारम्परिक-पाठशालाषु च संस्कृताध्यापन-माध्यमम् अनिवार्यत्वेन संस्कृतमेव स्यात् |

[२] भाषा-विषयिण्यां शासनिक-नीतौ व्यावहारिकं प्रासङ्गिकं कालोचितं च परिवर्तनं कृत्वा सर्वाधिकं महत्वं संस्कृताय प्रदेयम् |

[३] सामाजिक-सञ्चार-माध्यमेषु संस्कृतोपयोगार्थं प्रोत्साहनं प्रोत्तेजनीयम् |

[४] यथा हिन्द्यां वा क्षेत्रीय-भाषासु वा आङ्ग्ल-भाषायां,  दैन्दिनोपयोगि साहित्यं सर्वत्र सुलभं भवति, तद्वद्  संस्कृत-भाषायामपि भवेत् | यथा भोजनावासालयेषु प्रत्येकमपि कक्षे संस्कृत-ग्रन्थ-स्थापनम्, सर्वाणि सूचनापत्राणि संस्कृत-भाषायामपि अनूदितानि स्युः |

[५] न्यूनान्न्यूनम्, एकं संस्कृत-टीवी-चेनल्, तथा च. संस्कृत-एफ़्.एम्.रेडियो वा संस्कृत-कम्युनिटी-रेडियो स्यात् | राष्ट्रिय-संस्कृत-संस्थानम्, अथ च, कश्चन अपि संस्कृत-विश्वविद्यालयः एतत् सारल्येन कर्तुं पारयति | 

[६] प्रशासन-पक्षतः स्वतन्त्रं संस्कृत-वार्त्ताभिकरणं [न्यूज़-एजेन्सी] स्थापनीयम्, यत्  हि संस्कृत-पत्र-पत्रिकाभ्यः उपादान-सामग्री-प्रेषकं सिद्ध्येत् |
इति 
भवतः बलदेवानन्दसागरः ।

गुरुदस्पुरे सैनिक वेषं धृत्वा द्वै पुरुषौ -जाग्रता निर्देशः उद्घोषितःI

 

गुरुदासपुरम् > पठान् कोट्ट् व्योमसेना निलयस्य समीपदेशे दुरूहे सन्दर्भे द्वौ पुरुषौ दृष्टौ   तौ सैनिकानां वेषं  द्रुत्वा गच्छन् आस्ताम् गुरुदासपुरे भीकाराः अधिकाः भवितुमर्हति इति गुप्तचरै: सूच्यते अनेन कारणेन तस्मिन् क्षेत्रे अतीव जाग्रता निर्देशः उद्घोषितः।

 पाठान् कोट्ट् आक्रणेषु पाकिस्तानसैन्यस्य स्वाधीनता व्यक्तंअभवत् ।
नवदिल्ली >  भीकराः पाकिस्तानस्य सैनिक निलये प्राक्  परिशीलनम् धृत्वा आगताः इति सूचना । उच्चस्तरीय अन्वेषणाय राष्ट्रीय-अन्वेषण-समित्याः निदेशकः आगतः च I 

Wednesday, January 6, 2016

भीकराक्रमणं - सुरक्षाभ्रंश अभवत्- रक्षामन्त्री।

पठान्कोट्ट् - व्योमनिलये संवृत्तं भीकराक्रमणं सुरक्षाराहित्यहेतुतः जातमिति केन्द्र रक्षामन्त्री मनोहरपरीक्करः अवदत्। तीव्रवादिनः अन्तःप्रवेशः आशङ्कां जनयति इत्युक्त्वा परं विशदीकरणाय विमुखःअभवत्।व्योमकेन्द्रसन्दर्शनानन्तरं वार्ताहरान् प्रति भाषमाणः आसीत् मन्त्रिवर्यः।

Tuesday, January 5, 2016

सौरोर्ज-विज्ञाने UAE प्रथमस्थाने।

दुबाय् > सौरोर्ज विज्ञानेषु उन्नतिं संप्राप्य UAE राष्ट्रं  राष्ट्रान्तरान् प्रति प्रस्थानम् आरब्धम्‌ । अस्मिन् अन्येषां सहकारिताम् अन्विष्य एव इयं यात्रा ।  ओक्तोबर् चतुर्थ दिनादारभ्य षष्टदिनपर्यन्तं दुबाय्  इन्टर् नाशणल् कण्वन्षन् आन्ट् एक्सिबिशन् सेन्टर् मध्ये आयोज्यमाने वेट्टक्स् प्रदर्शनमेलने  सौरोर्ज विज्ञानस्य विनिमयः भविष्यति । 
भारतस्य विविधराज्येषु सैरोर्ज योजना: सञ्चालयतुं प्रथानमन्त्रिणा मोदिर्वर्येण UAE सन्दर्शनसन्दर्भे चर्चा कृता आसीत् ।

भूमिकम्पः, १४ मृताः २१० आहताः

Deadly earthquake strikes Indiaइम्भाल् > भारतस्य पूर्वोत्तर भागेषु जायमानायां भूकम्पदुर्घटनायां १४ जना: मृताः २१० जनाः व्रणिताः। तेषु ९ जना: भारतीयाः पञ्च जना: बङ्गलादेशीया: च। रक्षा प्रवर्तनेषु इदानीमपि सैनिकाः निरताः। रिक्टर् मापिन्यां ६.८ अङ्ग: कम्पन तीव्रता मापिता । मणिपुरम्, असम् राज्ययो: तीव्रता अधिकतया अनुभूता। ब्राह्म यामे ४.३५ वादने आसीत् कम्पः। आहतेषु  भारतात् ११० बङ्गलादेशात् १०० जना: च अभवन्। म्यान्मर् तिबत् सीमा च कम्पिता ।

मुफ्ति मुहम्मद् सयीद् गुरुतरावस्थायाम्।

दिल्ली - जम्मू काश्मीरस्य मुख्यमन्त्री मुफ्ती मुहम्मद सयिदः अत्यन्तगुरुतरावस्थायां दिल्ल्याम् एयिंस् आतुरालयं प्रविष्टः। न्यूनरक्तसम्मर्दः न्युमोणियाबाधा रक्तदोषश्च तस्मिन् दृश्यते इति आतुरालयाधिकृतैः उक्तम्।


यू ए ई राष्ट्रे प्रवेशनानुमतिनियमाः परिवर्तयन्ति।

दुबाय् - राष्ट्रप्रवेशनानुमतिनियमेषु यूएई राष्ट्रं सारवत्परिवर्तनं करोति। सन्दर्शकानां कर्मेप्सुनां कृते अत्यन्तं साहाय्यकरं भवति नूतन परिष्करणम्।
विसापत्रं परिष्कर्तुं राष्ट्रात् प्रत्यागमनं न कार्यम्। सन्दर्शकविसापत्रानुसारम् आगतानां नूतनविसापत्रं सम्पाद्य वृत्तिः शक्यते।सन्दर्शकविसापत्रस्य  नवीकरणं सुसाध्यम्। एतादृशं परिष्करणं विदेशीयानाम् उपकारकम् भवति।
पठान् कोट् आक्रमणेषु जैषे-मुहम्मदस्य संबन्धः।
नवदिल्ली > पठान् कोट् व्योमनिलये जातम् आक्रमणं जैषे मुहम्मद् नाम आतङ्कवादिदलेन कृतम् इति ऊह्यते। पाकिस्थानम् आस्थानं कृत्वा  ततः एव आक्रमणाय निदेशः क्रियते। पठान्‌ कोट् संघट्टने मृतानां भीकराणां जैषे मुहम्मद् दलेन साकं संबन्धः अस्ति इत्यस्मिन् तु प्रमाणं लब्धम् ।
              प्रमाणानि गुप्तान्वेषणफलानि च पाकिस्थानाय दत्वा दलान् विरुध्य दण्डं स्वीकर्तुं भारतस्य  प्रेरणा भविष्यति। एतस्मिन् विषये पाकिस्थानस्य प्रवर्तनानि अनुसृत्य एव भारत पकिस्थानयोः सचिवयो: चर्चायाः गति: l

Monday, January 4, 2016

Image result for yogaविश्वविद्यालयेषु योग शास्त्रं-
यु.जि.सी व्यवस्थाम् आरब्धवन्तः
नवदेहली > राष्ट्रे विश्वविद्यालयेषु योग शास्त्रं पाठ्‌ये क्रमीकर्तुं यु.जि.सी व्यवस्थाम् आरब्धवन्तः । योगे विश्वस्मिन् सर्वत्र व्यापमाने सति प्रधानमन्त्रिणः नरेन्द्रमोदिवर्यस्य निर्देशेन एव अयं परिष्कार: ।  योगशास्त्रे  बि .ए ,एम्. ए  वर्गान्  आरब्धुमेव पद्धतिः ।


सि पि एम् नेतृत्वे धर्मातीत-योगप्रदर्शनम्।
कण्णूर् > सिपिएम् दलनेतृत्वे मन्त्र-प्रार्थनादिधार्मिकाचारान् विना सविशेषपाठ्यक्रममनुसृत्य सज्जानि योगासनानि प्रदर्शितानि। सूर्यनमस्कारसहितानि ३५ आसनानि मन्त्राणि ओङ्कारध्वनिं वा विना केवलं संगीतस्य अनुगमनेन अवतारितानि।

पठान्कोट्ट्व्योमनिलये पुनरपि संघट्टनम्
सैनिकाः वीरमृत्युं प्राप्तः।
नवदिल्ली > पठान्कोट्टव्योमनिलये इतःपरं भीकराः निलीयमानाः सन्तीति प्रत्यभिज्ञाय एन् एस् जि सैनिकैः कृते आक्रमणे पञ्च भीकराः हताः। प्रत्याक्रमणे सप्त सैनिका अपि वीरमृत्युं प्राप्ताः। तेष्वेकः केरलदेशीयः लफ्टनन्ट केणल् निरञ्जन् कुमारः (32)अस्ति।
कोमण्वेल्त् सुवर्णपतकजेता पत्ते सिंहः ,गुरुसेवकसिंहः, हवील्दार् कुल्वन्त् सिंह, जगदीशसिंहः  , सञजीव् कुमारः इत्येते मृत्युमुपगताः अन्ये सैनिकाः।

Sunday, January 3, 2016

पतान्‌ कोट् आक्रमणम् - सुषमया उन्नतस्तरीययोगः आयोजितः
नव दिल्ली > पतान् कोट् व्योम निलयाक्रमणस्य अनुभवेन सचिवानां योग: विदेश विभाग मन्त्रिणी सुषमा स्वराजेन आहूत:। दौ विदेश विभाग सचिवाै भारतस्य चत्वारि हैक्कग्मीषन जनाः च मिलिताः । भविष्यमाणं भारत पाकिस्थानयोः चर्चां अधिकृत्य च चिन्तितवन्तः।
संस्कृत-प्रभावः
 

संस्कृतेन प्रभावितः मुख्यमन्त्री।

विदर्भा >महाराष्ट्रराज्ये संस्कृत -अकादमी 'गठिता'(प्रारभेत) भवति इति मुख्यमन्त्रिणा देवेन्द्र फडणवीस महोदयेन उद्घोषितम्। ह्य:संस्कृतभारत्या: विदर्भप्रान्तीयसम्मेलने मुख्यातिथिरूपेण उपस्थित: आसीत् मुख्यमन्त्री। शालेयसंस्कृतशिक्षणक्षेत्रे अपि परिवर्तनम् करिष्यति इत्यपि तेन प्रतिपादितम्।

१०३तमस्य भारतीयविज्ञानसम्मेलनस्य कर्णाटकराज्ये मैसूरुनगरे श्रीगणेशः श्रीमोदिनः पाणिपद्माभ्याम्। व्यासनद्यां हैदराबादस्य २४बी.टैक-छात्राणां प्रवाहदुर्घटनाम् आलक्ष्य तेषां परिवारेभ्यः प्रत्येकस्मै विंशतिलक्ष्यरूप्यकात्मकः क्षतिपूर्तिराशिः।

Saturday, January 2, 2016

पञ्चाबे व्योमसेनायाः निलये भीकराणाम् आक्रमणम् ।
terrorअमृतसर: > सैनिकानां वेषं धृत्वा आगताः भीकराः सेनानिलयम् झटिति प्राप्ता:। रात्रौ त्रिवादने आरब्धम् आक्रमणं अधुनापि प्रचलति। भीकरेषु द्वौ मारितौ: । प्रदेशवासी टाक्सी चालकः अपि मारितः। अतीवसुरक्षासंरक्षिते पतान् कोट् व्योम सेनानिलये एव आसीत् भीकरचतुष्टयानाम् आक्रमणम्।
भीकराणां आक्रमणाय साध्यता अस्ति इति रहस्यान्वेषणविभागैः सूचना दत्ता आसीत्। तथापि असंभाव्यं  यत् तत्‌  जातम् इत्यस्मात् सुरक्षायाः क्षमता न्यूनतमा इति परिगण्यते ।

Friday, January 1, 2016

निर्वाचने - दत्तवचनानि पालयितुं स्मारयित्वा मोदिं प्रति हसारे..



नव दिल्ली > निर्वाचनकाले जनेभ्यः दत्तवचनानि पालयितुम् स्मारयित्वा अण्णा हसारे महाभागेन प्रधानमन्त्रिणे मोदिवर्याय प्रत्रं प्रेषितम्। गुप्तं धनं प्रत्यानयनाय अलीकरहित भारतनिर्माणाय लोकसभायाः निर्वाचनसन्दर्भे जनेभ्यः वाग्दत्तवान् मोदिवर्यः

कोण्ग्रस् सर्वकारस्य शासनकाले सर्वत्र अलीकानि आसीत् हस्ते धनं न ददाति चेत् कार्यालयेभ्यः सेवनानि लब्धुमर्हता नासीत्। जनाः भवतः वाचं निशम्य भवन्तं निर्वाचितः । किन्तु अधुनापि अवस्थान्तरं नास्ति। UPA -मोदि सर्वकारयोः मिथः भेद: नास्ति इति च हसरेमहाशयेन पत्रे लिखितःअस्ति।

अन्तरीक्षमलिनीकरणात्‌  दिल्ली रक्षितः

दिल्ली > ए.ए.पि सर्वकारस्य अन्तरीक्षमालिन्यमोचन याेजनायां केन्द्रसर्वकारः अपि भागभाजः अभवत् ।
प्रथम - दित्व सङ्ख्यक वाहनानि दिनद्वयेषु  एकस्मिन्  दिने वीथिषु चालनीयानि इति  आशये  प्रभावितः केन्द्र सर्वकारेण अपि तदनुसृत्य निदेश: प्रख्यापितः ।  १५ दिनानि यावत् निरीक्षणं कृत्वा भविष्यत्काले अवलोकयतुं निश्चितम्। 


त्रिपुराराज्येषु विद्यालयेषु योग शास्त्राध्यनम्

अगर्तल > पाठ्यपद्धत्यां योगासनमपि सन्निवेश्य त्रिपुरा राज्यस्य सर्वकारः आदर्शराज्यः अभवत्। अत्र सि पि एम् सर्वकारः शासनं कुर्वन्नस्ति। प्रथमकक्ष्यातः अष्टमकक्ष्या पर्यन्तं अद्य आरभ्य योगापरिशीलनस्य शुभारम्भ: |
एतत् अनुशासनमधिकृत्य शिक्षामन्त्रिणा तपन् वर्येण उक्तः I
प्रथमश्रेण्यां शतं विद्यालयेषु आरम्भं कृत्वा पुनः नगरेषु ग्रामेषु आदिवासि जनविभागानां प्रदेशेषु च प्रसारयितुमुद्दिश्यते इत्यपि तेनोक्तम्।
छात्राणां शरीरस्य मनसः च स्वास्थ्य वर्धनमेव अनेन उद्धिश्यते । शैशवे एव योगाध्ययनेन धर्मनिष्ठानां नवयुवकानां निर्माणमेव संभवति।

राज्यस्य संपूर्णेषु विद्यालयेषु योगाध्यापकानां नियुक्तिः विलम्बं विना भविष्यति। मुख्यमन्त्री माणिक् सर्कारस्य नेतृत्वेन विराजमानेन मन्त्रिसभायोगेन निश्चयमिदं स्वीकृतम्।

Thursday, December 31, 2015

प्रधान वार्ता: 31-12-2015

प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य दिल्लीमेरठ-एक्सप्रेसवे इति मार्गपरियोजनायाः शिलान्यासो विधास्यते।

म्याँमारदेशे त्रिदेशीयराजमार्गमालक्ष्य एकोनसप्ततिः सेतूनां निर्माणाय केन्द्रीयमन्त्रिमण्डलेन स्वीकृतिर्दत्ता।

मोदिनो लाहौरयात्रया समुत्साहितो नवाज़शरीफ़ो ब्रवीति यद् भारतपाकिस्तानाभ्यां वैरत्यागस्य कालः खलु समागतः।

मावोवादिनः स्वाधीनतायां आगता:

राय्पूर् > छत्तीस्गड् राज्ये मावो वादिनः सर्वकारस्य पुरतः अधीनाः। सर्वकारेण आयोजिता स्वाधीनता योजनायां एव २३ संख्याका: भीकरवादिनः तेषां आशयान्‌ विहाय राष्ट्रस्य भागभाजः अभवन् । तेषु षट् जनाः कुटुं कोन्द्र स्वदेशीयाः। बियास् पुरतः एकादशसंख्यकाः चन्द्रगिरीतः पञ्चजनाः च स्वाधीनतायाम् आगता : I बस्तर् देशे आयोजिते राली मेलने लब्धः आशयः मनसः परिवर्तनाय कारणभूतः अभवत् इति ते वदन्ति। गत सप्ताहे ७० जनाः सुख्मदेशे स्व - आशयान् त्यक्त्वा आगतवन्तः आसन्।

Wednesday, December 30, 2015

जल-शुद्धीकरणाय नूतनसंयुक्तः - न्युनव्ययेन ।
 
 न्यूयोर्क् > जलमालिन्यानि निमिषाभ्यन्तरेण शुद्धीकर्तुम् शक्त: राससंयुक्तः अमेरिकाराष्ट्रस्य गवेषकैः निर्मिताः। अल्पेन व्ययेन जलं मालिन्यात् मुक्तं कर्तुं शक्याते इति  कूपी जलवाणिज्ये गृहेषुजलशुद्धीकरणाय व्ययः न्यूनीकतुं सहायक एव।
कोर्णल् विश्वविद्यालयस्य गवेषकैः पर्यवेषिता इयं विद्या । सितायाः बृहदाकारा तन्मात्रा(सैक्लोडेक्स्ट्रिन्) भवति अयं संयुक्तेषु एक:I आक्टिवेटड् कारबण् सङ्केत:भवति इदानीं उपयुज्यमाना विद्या। एतस्याः काचन अंशेन सितांश: च निवेश्य निर्मीतः अयं संयुक्तः निमिषान्तरेण जलं शुद्धीकरोति इति गवेषकानां नेता प्रोफ. विल् डिच्चल् महोदय: अवदत् । जलप्रवाहः नालिकायाः प्रवाह: अपि अनेन शुद्धीकर्तुं शक्यते अविकसितेषु राज्येषु पानीयजलसमस्यायाः परिहारवत्  विराजते अयम् । लोकेषु आश्वासदायका इयं वार्ता :।


पाकिस्तानाय चारवृत्तिः
व्योमसेनायाः उद्योगस्थ: गृहीतः। 
नवदेहली - ऐ .एस् . ऐ इति पाक् रहस्यान्वेषण संस्थायै चारवृत्तिः कृता  इति कारणेन व्योमसेना उद्योगस्थः गृहीतः। रञ्जित् इति व्योमसेना उद्योगस्थः देहली आरक्षकदलेन पञ्जाबतः गृहीतः । सोमवासरे गृहीतः अयं देहल्यां पड्याल न्यायालये उपस्थापितः।
पञ्जाबे भट्टिन्डायामेव अयं नियुक्तः आसीत् । भारतीय प्रतिरोध रहस्यानि ई-पत्र द्वारा लघुसन्देशद्वारा च अनेन पाकिस्तानाय दत्तानि। एतदधिकृत्य ज्ञाते सति अयं कार्यात् बहिष्कृतः  आसीत्। सामूहिकमाध्यमद्वारा परिचिता काचित् युवतिरेव एतं चारवृत्तिं प्रति आकर्षितवती।

Tuesday, December 29, 2015

काश्मीरे केन्द्रसर्वकारः सफलतां याति।
  
नवदेहली > केन्द्रसर्वकारस्य विकसन योजना: भीकरान् विरुध्य सुरक्षासेनया कृतानि कार्याणि च कश्मीरे फलप्रदानि भवन्ति इति वृत्तम् । तत्र भीकरप्रवर्तनस्य प्ररिमाणे न्यूनता अस्ति इति सुरक्षा विभागेन सूचितम् । 
कश्मीरे केन्द्रसर्वकारेण कृताः विकसनपद्धतयः अस्मिन् मुख्यं स्थानम् आवहति |

चीनायां सुरक्षादलेभ्यः अधिकारविस्तृतिः ।

बैजिङ्> सुरक्षादलेभ्य: विस्तृतान् अधिकारान् दत्वा भीकरान् विरुद्ध्य नूतन नियमाय चीनायाम् अङ्गीकारः। एतादृश भीकर-विरुद्ध नियमः चीनया ऐदंप्राथम्येन निर्मितः। कम्यूजणिस्ट् दलेन प्रथमम् अङ्गीकृत्य NPC स्टान्टिङ् कम्मट्याः पुरतः समर्पितः अयं नियम: समित्याः १५९ अङ्गानां अनुज्ञया अङ्गीकृतःI अनेन नियमेन राष्ट्रस्य बहिः अपि भीकरान्‌ विरुद्ध्य आक्रमणाय सैन्येभ्यः सायुध -आरक्षकदलेभ्यश्च अधिकारः अस्तिI तिबत् विभागे अपि नियमस्य प्राबल्यम् अस्तिI नूतन नियम: अमेरिकराष्ट्रेण निरसितः I स्वाभिमत प्रकाशनाय बाधा भवति अनेन नियमेन इति अमेरिका राष्ट्रेण निरीक्ष्यते। अनेन नियमेन स्वतन्त्रतायाः ध्वंसनमेव भविष्यति इति अमेरिकायाः मतम्।

दशलक्षाधिकानाम् आयवताम्  आर्थिकसहायं न लभते।

नवदिल्ली > येषां वार्षिकायः दशलक्षरूप्यकाणामधिकं जायते तेषां  अनलकोषार्थसाहाय्यं निरोद्धुं केन्द्रसर्वकारेण निश्चितम्। आगामी जनवरिमासादारभ्य पचनवातकाय अर्थसाहाय्यम् अभिलषन्तः उपभोक्तारः आयः दशलक्षात् न्यूनमिति सत्यवाङ्मूलं समर्पयेयुः।अर्थसाहाय्यम् अर्हतावतां परिमितं कर्तुमेव एतादृशं नियन्त्रणम्।