तमिलनाटे प्रशासनरूपीकरणप्रक्रिया आरब्धा।
टि वी के दलस्य नेतत्वे सख्यपक्षसर्वकारः!
विजयस्य शपथवाचनं श्वः भवेत्।
चेन्नै> विरुद्धपक्षान्तर्भूतानां लघुदनानां सहयोगेन मन्त्रिमण्डलरूपीकरणाय 'तमिल् वेट्रि कष़कं' - टि वी के - दलेन प्रयत्नः आरब्धः। परिश्रमे सफले प्राप्ते ७० संवत्सराणाम् अनन्तरं सख्यपक्षसर्वकारः तमिलनाटे अधिकारं प्राप्स्यति।
टिवीके दलेन अभ्यर्थिताः दलाः तेषां स्थानानि एवं - कोण्ग्रस् - ५, सि पि एम् - २, सि पि ऐ - २, वि सि के - २, मुस्लीं लीग्- २, डि एम् डि के- १, पि एम् के - ४।
तमिलनाटे आहत्य विधानसभास्थानानि २३४ भवन्ति। सर्वकाररूपीकरणाय आवश्यकानि न्यूनातिन्यूनस्थानानि ११८। टिवेके दलाय १०८ स्थानानि लब्धानि। किन्तु मण्डलद्वये विजितेन विजयेन एकस्मिन् स्थाने परित्यक्ते अंगसंख्या १०७ भविष्यति।
