OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, May 7, 2026

 पञ्चाबे सैनिकाकार्यालयसमीपं स्फोटनम्। 

चण्डीगड्> राष्ट्रे 'ओपरेषन् सिन्दूरस्य' वार्षिके सम्पद्यमाने जलन्धरे बी एस् एफ् आस्थानस्य समीपे अमृतसरस्थे खासा सैनिककार्यालयस्य समीपे च कुजवासरस्य रात्रौ स्फोटनं सञ्जातम्। एकः व्रणितः। राष्ट्रिय अन्वेषण संस्थया [एन् ऐ ए] अन्वेषणमारब्धम्। 

  स्फोटनद्वये अपि ऐ ई डी नामकं वस्तु उपयुक्तमिति निर्णीतम्। द्वौ अन्वेषणसंघस्य बन्धने वर्तेते इति सूच्यते। खलिस्थान लिबरेषन् आर्मी नामिकया भीकरसंस्थया स्फोटनस्य उत्तरदायित्वं स्वीकृतमिति कथ्यते।