OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 5, 2026

 विधानसभानिर्वाचनम्।

त्रिषु राज्येषु प्रशासनपरिवर्तनं; इतरयोः शासनसंस्थापनम्।

तमिलनाट् असामान्यविजयेन स्वशक्तिं प्रकटितवतः टि वि के दलस्य नेता विजयः। 

केरले दशवर्षाणां विरामकालानन्तरं यू डि एफ् सख्यस्य अत्युज्वलविजयः। स्थानत्रयेण भाजपादलस्य पुनःप्रवेशः। 

तमिलनाटे स्टालिनस्य डि एं के सर्वकारस्य च पराजयः। विजयस्य टि वि के दलः बृहत्तमपक्षः। 

वंगे ममतायाः तृणमूलस्य च उन्मूलनम्। भा ज पा प्रशासनपदमारोहति। 

असमे पुतुच्चेर्यां च भाजपासख्यस्य अधिकारसंस्थापनम्।

नवदिल्ली> पञ्चसु राज्येषु विधत्तानां विधानसभानिर्वाचनानां मतगणनायां त्रिषु राज्येषु वर्तमानीनप्रशासनानि प्रतिलोम्य विपक्षदलानि अधिकारं प्रापुः। 

  केरले दशवर्षाणि यावत् विपक्षस्थाने उपतस्थिवत् कोण्ग्रसदलनेतृत्वीयं यू डि एफ् सख्यं १४० विधानसभास्थानेषु १०२ स्थानानि विजित्य विस्मयमकरोत्। त्रयाणां स्थानाशिनां विजयेन  भाजपा दलः तस्य विधानसभापुनःप्रवेशं गम्भीरमकरोत्। शासनपक्षः एल् डि एफ् सख्यं ३५ स्थानेषु आकुञ्चितमभवत्। 

   तमिलनाटे शासनपक्षं डि एं के सख्यं विशीर्णमभवत्। चलच्चित्रनटेन विजयेन नेतृत्वमावहन्, केवलं वर्षैकस्मात् पूर्वं रूपीकृतः टि वी के [तमिलक वेट्रि कष़कम्] दलः डि एं के प्रशासनम् उन्मूल्य १०७ स्थानैः बृहत्तमः पक्षः जातः। मुख्यमन्त्री एं के स्टालिनः टि वि के स्थानाशिनं प्रति पराभूतः। 

 पश्चिमवंगे तु भा ज पा तरंगस्य प्रहरेण १५ वर्षाणि दीर्घितं ममता बानर्जि वर्यायाः तृणमूल् कोण्ग्रस् प्रशासनं निपतितम्। २९४ स्थानेषु २०६ स्थानैः भा ज पादलं शासनपदं प्राप। भवानिपुरमण्डले मुख्यमन्त्रिणी ममता वर्या पराजिता च। 

  असमराज्ये अनुस्यूततया तृतीयवारमपि भाजपानेतृत्वे एन् डि ए सख्यं प्रशासनपदम् आरोहत्। १२६ अंगोपेतायां विधानसभायां १०२ सदस्याः एन् डि ए सख्यस्य भवन्ति। पुतुच्चेरी केन्द्रप्रशासनप्रदेशे भाजपान्तर्भूतः  प्रशासनपक्षः एन् आर् कोण्ग्रस् अधिकारं संस्थापयामास।