'वन्दे मातरं' देशीयगानतत्तुल्यं पदं प्राप्नोति।
अवगणनापहासादयः दण्डनीयापराधाः।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सम्पन्नं मन्त्रिमण्डलम्।
नवदिल्ली> भारतस्य राष्ट्रगीतं 'वन्दे मातरं' इत्यस्मै राष्ट्रगानस्य 'जन गण मन ---' इत्यस्य स्थानं प्रदातुं केन्द्रसर्वकारेण निश्चितम्। अनेन प्रक्रमेण राष्ट्रगीताय राष्ट्रगानेन सह ऐकरूप्यं नियमपरिरक्ष-आदरादिकं लप्स्यते।
एतदर्थं राष्ट्रियचिह्नानाम् अवहेलनादिकं प्रतिरुद्ध्यमाने नियमे अपेक्षितानि शुद्धीकरणानि विधातुं केन्द्रमन्त्रिमण्डलेन अङ्गीकारः दत्तः। एतदनुसृत्य वन्देमातरगीतालापं ये अपमानयन्ति, निवारयन्ति ते कारागृह-द्रव्यदण्डादीनाम् अर्हाः भवेयुः। वन्देमातरगानरचनायाः १५० तमवार्षिकवेलायामस्ति अयं निर्णयः।