OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, June 26, 2016

एन्.एस्.जि भारतं बहिः एव
 सोल् > एन् एस् जि मध्ये अङ्गत्वसम्पादनाय भारतेन समर्पितं निवेदनम् अवगणय्य सङ्घस्य २६-तमः योगः समाप्तःI आणवनिर्व्यापनसम्मतपत्रे भारतं मुद्रां न अकरोत् इति कारणेन तादृशराष्ट्रेभ्यः सङ्घाङ्गत्वं न कल्पनीयम् इति निर्णयः योगे स्वीकृतः। चैनाम् अतिरिच्य ब्रसील्, आस्ट्रिया, न्यूसिलाण्ट्, तुर्की, स्विट्सर्लाण्ट् इत्यादीनि राष्ट्राणि भारतं विरुद्ध्य निर्णयम् अकुर्वन्। तथापि भारतस्य प्रवेशनं वर्षेऽस्मिन्नेव सम्भवतीति अमेरिकायाः औद्योगिकवृन्दं सूचयति।योगे अष्टस्त्रिंशत् राष्ट्राणां सहयोगः भारतेन सम्पादितः।

विश्वस्य दशसु सामूहिकसंरम्भकेषु भारतीयवनिता अपि
न्यूयोर्क् > मानविकनीतिसंरक्षणं,परिस्थितिसंरक्षणं, दुर्व्यवहारान् प्रति समरः इत्यादीन् कार्यक्रमान्‌ लक्ष्यीकृत्य प्रवर्तमानेषु दशसु सुस्थिरसामूहिकसंरम्भकेषु "अय्ष्" इति संस्थायाः स्थापकनेत्री भारतीयवनिता सुबैदा बायी अपि स्थानं प्राप्तवती।दारिद्र्यम् अनुभवतां स्त्रीणां सम्पूर्णम् उन्नमनमेव अय्ष् संस्थायाः मुख्यं लक्ष्यम्।ऐक्यराष्ट्रसभायाः पट्टिकायां लब्धं स्थानम् अभिमानप्रदमेवेति सुबैदा बायी महोदयया अभिप्रेतम्।ऐक्यराष्ट्रसभायाः केन्द्रे संवृत्ते आगोलनेतृयोगे परमाध्यक्षेण बान् कि मूण् महोदयेनैव पट्टिका प्रख्यापिता।

ऐ.टि मण्डले अनिश्चितत्वम् - उद्योगस्थाः आशङ्कायाम्‌। 
कोच्चि > ऐ.टि सङ्घैः यूरोप् मध्ये आर्थिकसमस्यायां कष्टमनुभूयमानेऽस्मिन् सन्दर्भे भारते विद्यमाना: ऐ.टि सङ्‌घाः अपि आशङ्कायाम्।ऐ. टि मण्डले भारतीयव्यापारस्य ३०% यूरोप् मध्ये एव। एतेषां व्यापाराणां मुख्यं केन्द्रं तु लण्टन् देशः च। यूरोप्यन् वृन्दात् ब्रिट्टणस्य बहिर्गमनेन आर्थिकमण्डले महती समस्या एव सञ्जाता। अधुना प्रचारमानस्य सोफ्ट्वेयर् व्यापारस्य महान् नष्टः अपि प्रतीक्ष्यते च।

Saturday, June 25, 2016

सियाल् -विजयाणां गिरिशृङ्गे ।
 कोच्चि > भारतराष्ट्रे सामूहिसहयोगेन निर्मित: प्रथमः व्योमयाननिलयः अनुस्यूतविजयाणां गिरिशृङ्गे।  गते आर्थिकनिर्णयवर्षे संस्थायाः आदायः ५२४.५४ कोटि रूप्यकाणि भवन्ति। अनेन १७५.२२ कोटि रूप्यकाणां लाभः अपि लब्धः। ह्यः संवृत्ते सियाल् निर्देशकसमितेः योगे लाभसंख्याया: २५% निक्षेपकेभ्यः दातुं निर्णयः जातः। केरलस्य मुख्यसचिवः पिणराय विजय: एव सियाल् संस्थायाः अधुनातन मुख्यनिर्देशक: ।

शास्त्रम् अग्रे गच्छत् एव....।
स्टोक्होम् > मलिनीकरणनियन्त्रणेन परिस्थितिसंरक्षणं लक्ष्यीकृत्य स्वीटनमध्ये विश्वस्य प्रथमः विद्युन्मार्गः सज्जः। पूर्णतया विद्युदुपयुज्य क्रमीकृतेन मार्गेण गमनं विजयम् अभवत् । परीक्षणाधारेण निर्मितेन २ कि.मी परिमितेन मार्गेणैव गमनम् अकरोत् एतदर्थं वाहनानि अयोदण्डेषु बन्धयित्‍वा चालनमकरोत्। अन्यानि वाहनानि इव वेगेन गमनम् अनेन अपि शक्तमिति विदग्धा: अभिप्रेतवन्तः।

रेकोर्ड्ड् प्राप्त्या सह धोणिः।
नवदहली > नायकत्वेन अधिकाधिकाः क्रीडाः चालिताः इति रेकोर्ड धोणिना  अपि प्राप्तम्। गतदिने सिम्बाब्वेन सह तृतीये ट्वन्टि ट्वन्टि क्रिकट्क्रीडानन्तरमेव नूतना प्राप्तिः तस्य सञ्जाता। ३२४ क्रीडाः इति आस्ट्रेलिया क्रीडकस्य रिकी पोण्टिङ् महोदयस्य रेकोर्ड सहैव धोणेःविजयप्राप्तिः।  अन्तिमक्रीडायां भारतेन ३ धावनाङ्‌कैः विजय: प्राप्तः आसीत्।

उभयकक्षीबान्धवं मुख्यम् - चैना।
बीजिङ् > आणवसामग्रीवितरणसङ्घे भारतस्य प्रवेशनसम्बन्धे विषये स्वनिर्णयः कठिनः चेदपि भारतेन सह बन्धुता मुख्या एव इति चैनाया: राष्ट्रपतिः षी जिन् पिङ्‌ । ह्यः उस्बकिस्थान् मध्ये ताष्केन्टे सम्पूर्णयोगानन्तरं भाषयन् आसीत् स: । तत्र भारतप्रधानमन्त्रिणा मोदिना सह तस्य चर्चा संवृत्ता च। एन् एस् जि प्रवेशनविषये भारतं विरुद्ध्य निर्णयः स्वीक्रियते चेदपि भारतेन सह उभयकक्षीबान्धवम् अनुवर्तयिष्यतीति तेन सूचितम्।

कोपा अमेरिका पादकन्दुकक्रीडा याम् अनुवर्तनम्‌ 
 परमक्रीडायाम् अर्जन्टीना-चिली च
  षिकागो > ह्यस्तनक्रीडायां चिली २-० इति अंशे कोलम्बियां पराजयित्वा अन्तिमक्रीडायै योग्यतां प्रापयत्। अर्जन्टीना पूर्वमेव अमेरिकां ४-० इति अंशे पराजयित्वा योग्यतां प्रापयति स्म। कोपा अमेरिकायाः गतानुक्रमे अपि एतयोरेव अन्तिमक्रीडा आसीत्। तदानीं चिली अर्जन्टीनां पराजयित्वा किरीटधारणम् अकरोत्। इदानीन्तु मधुरप्रतिकाराय अवसर एव लयणल् मेस्स्याः संघाय लब्धःवर्तते। किन्तु पूर्वतनकिरीटधारणस्य अनुवर्तनायैव अलक्सिस् साञ्चसस्य संघस्य च सज्जीकरणम्। तथा च सोमवारे प्रभाते ५.३० वादने आरभ्यमाणा अन्तिमक्रीडा आवेशभरिता भविष्यतीति सुनिश्चित एव।

अनिल् कुम्ब्ले मुख्यपरिशीलकः।
 मुंबई > भारतीयक्रिकेट्सङ्घस्य मुख्यपरिशीलकत्‍वेन अनिल् कुम्ब्ले चितः। ह्यः मुंबई मध्ये संवृत्ते योगे एव निर्णयः जातः। योगानन्तरम् आहूते वार्तासम्मेलने बि सि सि ऐ अध्यक्ष: अनुराग् ठाकुरः एतत् स्थिरीकृतवान्। ऐतिहासिकक्रिकट्क्रीडक: सचिन् टेण्डुल्कर् , सौरव् गांगुली, वि.वि.एस्. लक्ष्मणः इत्यादयः अन्तर्भूतः समितिरेव कुम्ब्ले महोदयस्य चयनमकरोत्।बौलिङ्,बाट्टिङ् इत्याद्यंशयोः कृते अन्यौ द्वौ परिशीलकौ परं चयनीयौ भवतः। वेस्ट् इन्डीस् पर्यटनमेव नूतन परिशीलकस्य प्रथमं लक्ष्यम् । परिशीलकचयनाय दीर्घा चर्चा एव सम्भूता आसीत्।

Friday, June 24, 2016

स्मार्टसिट्टी पद्धतिः -वर्षत्रयाभ्यन्तरे पूर्तीकरिष्यति - केरळस्य मुख्यसचिवः।
  तिरुवनन्तपुरम् > केरलराज्यस्य स्वप्नपद्धतिः इति व्यवह्रियमाणा कोच्चि स्मार्टसिट्टी पद्धतिः वर्षत्रयाभ्यन्तरे एव पूर्तीकर्तुं सर्वकारः प्रयत्नं करिष्यतीति मुख्यसचिवः पिणरायि विजयः अवदत्। अनया पद्धत्या ३ लक्षं जनेभ्यः उद्योगाय अवसर: दीयते इति पद्धतेः मुख्यसहकारी टीकों संस्थायाः अधिकृतैः उक्तम् इत्यपि मुख्यसचिवेन सूचितम्‌। पिणरायि विजयः तिरुवनन्तपुरे टीकों प्रतिनिधिभिःसह चर्चां कृत्वा  माध्यमप्रवर्तकान् एतत् स्थिरीकृतवान्।

स्त्रीसुरक्षायै अग्रिममासादारभ्य करविमुक्ता दूरवाणीसंख्या  एका एव।
  तिरुवनन्तपुरम् > स्त्रीसुरक्षायै केरलराज्ये करविमुक्ता दूरवाणीसंख्या  एका एव। केरलराज्यस्य आरक्षकसहितानां विविधानां विभागानाम् एकोपनेन १८१ इति संख्या अग्रिममासादारभ्य प्रवर्तनसज्जा भविष्यति।भारतराष्ट्रे स्त्रीसुरक्षायै करकविमुक्तदूरवाणीसंख्यायाः एकोपनमिति केन्द्रसर्वकारस्य पद्धतिमनुसृत्यैव इदं परिष्करणम्।

व्ययनियन्त्रणनिर्णयेन सह   पिणरायि सर्वकारः I
तिरुवनन्तपुरम् > केरलराज्ये व्ययनियन्त्रणं लक्ष्यीकृत्य सचिवानां सुरक्षाक्रमीकरणेषु नियन्त्रणम्I राज्यस्तरीयायाः सुरक्षावलोकनसमितेः एव अयं निर्णयः। एतदनुसृत्य सचिवेभ्यः दीयमानेषु मार्गदर्शकवाहनेषु तथा अङ्‌गरक्षकगणेषु च नियन्त्रणं कर्तुं समित्या निर्णयः स्वीकृतः। एतदनुसृत्य भूतपूर्वमुख्यसचिवस्य उम्मन्चाण्टि महोदयस्य सेड् प्लस् सुरक्षा एवं एस्‌ एन् डि पी अध्यक्षस्य वेल्लाप्पल्लि नटेशस्य सुरक्षा च प्रतिनिवर्तयिष्यति ।

परीक्षणकुतुकिनां छात्राणां श्रद्धायै .....
काञ्जिरप्पल्ली > काञ्जिरप्पल्ली समीपे कूवप्पल्यां मार्गात् लब्धं ह्रस्वकालविद्युच्छेखरणोपकरणसदृशं वस्तु उपयुज्य विद्यालये परीक्षणं कृतवन्तः छात्राः स्फोटनेन व्रणिता:। काञ्जिरप्पल्ली साङकेतिकविद्यालयस्थाः चत्वारः छात्राः एव अपघातेन व्रणिताः। मार्गात् लब्धस्य वस्तुनः विद्युन्निर्माणपेटकेन सह बन्धनेनैव स्फोटनं सञ्जातम्।

मेरी कोम् विना रियो ओलिम्पिक्स् मध्ये भारतम्
  नवदहली > भारतस्य ऐतिहासिकक्रीडका मेरी कों रियो ओलिम्पिक्स् मध्ये भागं कर्तुं अयोग्या। मेरी कों लण्टन् ओलिम्पिक्स् मध्ये भारतस्य कृते मुष्टियुद्धे तृतीयस्थानं प्राप्तवती स्म। रियो ओलिम्पिक्स् मध्ये अस्याः कृते वैल्ट्र कार्ड् एन्ट्री द्वारा भागं कर्तुं भारतीयमुष्टियुद्धसंस्थया समर्पितं निवेदनम् अन्तःराष्ट्र ओलिम्पिक्स् समित्या गतदिने तिरस्कृतम्। तथा च प्रतीक्षितमेका कीर्तिमुद्रा नष्टा जाता।
स्मार्टसिट्टी पद्धतिः -वर्षत्रयाभ्यन्तरे पूर्तीकरिष्यति - केरळस्य मुख्यसचिवः।
  तिरुवनन्तपुरम् > केरलराज्यस्य स्वप्नपद्धतिः इति व्यवह्रियमाणा कोच्चि स्मार्टसिट्टी पद्धतिः वर्षत्रयाभ्यन्तरे एव पूर्तीकर्तुं सर्वकारः प्रयत्नं करिष्यतीति मुख्यसचिवः पिणरायि विजयः अवदत्। अनया पद्धत्या ३ लक्षं जनेभ्यः उद्योगाय अवसर: दीयते इति पद्धतेः मुख्यसहकारी टीकों संस्थायाः अधिकृतैः उक्तम् इत्यपि मुख्यसचिवेन सूचितम्‌। पिणरायि विजयः तिरुवनन्तपुरे टीकों प्रतिनिधिभिःसह चर्चां कृत्वा  माध्यमप्रवर्तकान् एतत् स्थिरीकृतवान्।

स्त्रीसुरक्षायै अग्रिममासादारभ्य करकविमुक्ता दूरवाणीसंख्या  एका एव।
  तिरुवनन्तपुरम् > स्त्रीसुरक्षायै केरलराज्ये करकविमुक्ता दूरवाणीसंख्या  एका एव। केरलराज्यस्य आरक्षकसहितानां विविधानां विभागानाम् एकोपनेन १८१ इति संख्या अग्रिममासादारभ्य प्रवर्तनसज्जा भविष्यति।भारतराष्ट्रे स्त्रीसुरक्षायै करकविमुक्तदूरवाणीसंख्यायाः एकोपनमिति केन्द्रसर्वकारस्य पद्धतिमनुसृत्यैव इदं परिष्करणम्।

व्ययनियन्त्रणनिर्णयेन सह   पिणरायि सर्वकारः I
तिरुवनन्तपुरम् > केरलराज्ये व्ययनियन्त्रणं लक्ष्यीकृत्य सचिवानां सुरक्षाक्रमीकरणेषु नियन्त्रणम्I राज्यस्तरीयायाः सुरक्षावलोकनसमितेः एव अयं निर्णयः। एतदनुसृत्य सचिवेभ्यः दीयमानेषु मार्गदर्शकवाहनेषु तथा अङ्‌गरक्षकगणेषु च नियन्त्रणं कर्तुं समित्या निर्णयः स्वीकृतः। एतदनुसृत्य भूतपूर्वमुख्यसचिवस्य उम्मन्चाण्टि महोदयस्य सेड् प्लस् सुरक्षा एवं एस्‌ एन् डि पी अध्यक्षस्य वेल्लाप्पल्लि नटेशस्य सुरक्षा च प्रतिनिवर्तयिष्यति ।

परीक्षणकुतुकिनां छात्राणां श्रद्धायै .....
काञ्जिरप्पल्ली > काञ्जिरप्पल्ली समीपे कूवप्पल्यां मार्गात् लब्धं ह्रस्वकालविद्युच्छेखरणोपकरणसदृशं वस्तु उपयुज्य विद्यालये परीक्षणं कृतवन्तः छात्राः स्फोटनेन व्रणिता:। काञ्जिरप्पल्ली साङकेतिकविद्यालयस्थाः चत्वारः छात्राः एव अपघातेन व्रणिताः। मार्गात् लब्धस्य वस्तुनः विद्युन्निर्माणपेटकेन सह बन्धनेनैव स्फोटनं सञ्जातम्।

मेरी कोम् विना रियो ओलिम्पिक्स् मध्ये भारतम्
  नवदहली > भारतस्य ऐतिहासिकक्रीडका मेरी कों रियो ओलिम्पिक्स् मध्ये भागं कर्तुं अयोग्या। मेरी कों लण्टन् ओलिम्पिक्स् मध्ये भारतस्य कृते मुष्टियुद्धे तृतीयस्थानं प्राप्तवती स्म। रियो ओलिम्पिक्स् मध्ये अस्याः कृते वैल्ट्र कार्ड् एन्ट्री द्वारा भागं कर्तुं भारतीयमुष्टियुद्धसंस्थया समर्पितं निवेदनम् अन्तःराष्ट्र ओलिम्पिक्स् समित्या गतदिने तिरस्कृतम्। तथा च प्रतीक्षितमेका कीर्तिमुद्रा नष्टा जाता।

Thursday, June 23, 2016

आणवसामग्रीवितरणसङ्‌घ: - पाकिस्थान् राष्ट्राय अपि आनुकूल्यम्।
  बीजिङ्‌ > आणवसामग्रीवितरणसङ्‌घे स्थानलब्धये भारतराष्ट्रवत् पाकिस्थान् राष्ट्राय अपि योग्यता अस्ति इति चैना। आणवनिर्व्यापननियमस्य लङ्‌घनं कृतम् इति कारणात् पाकिस्थानाय उपरोधः नावश्यक: ,पाकिस्थानस्य शास्त्रज्ञ: ए.क्यु.खान् एव अपराधि: , तस्मै पाकिस्थानधिकारिभिः दण्डनमपि दत्तम्।अस्याम् अवस्थायां तस्मै राष्ट्राय अपि स्थानाय योग्यता अस्तीति चैनाया: औद्योगिकपत्रिकायां ग्लोबल् टैम्स् मध्ये प्रसिद्धीकृते लेखने सूचितं वर्तते।

विद्यालयीययानेन सह स्वकार्यबस्यानापघातः - अष्टौ छात्रा: मृताः।  
मङ्‌गलापुरम्> कुन्तापुरायां विद्यालयीययानेन सह अपरं स्वकार्यबस्यानस्य अपघातेन डोण्बोस्को विद्यालयस्य अष्टौ छात्राः मृताः।षट्‌ छात्राणाम् अवस्था अतीव कठिना एव। विद्यालयीयवाहने १४ छात्रा: आसन्।

काश्मीरराज्यमपि सौदीवत् किम्...?।  
  श्रीनगर् > सामूहिकपरिसरेषु स्त्रीणामुपरि सम्भाव्यमानानाम् अधिक्षेपाणाम् आक्रमणानां च प्रतिरोधाय सौदी अरेब्याराष्ट्रे सर्वेष्वपि मण्डलेषु प्रत्येकं सुरक्षाक्रमीकरणानि दीयन्ते। याथास्थितिकमूल्यानि अनुवर्त्यमानं राष्ट्रमेव सौदी अरेब्या । तत्र दण्डनव्यवहारः अपि अन्येभ्यः राष्ट्रेभ्यः भिन्न एव। किन्तु भारतस्य जम्मुकाश्मीरराज्ये सौदी राष्ट्रवद् केषुचित् मण्डलेषु प्रत्येकं नियमादिकम् आरब्धं वर्तते। काश्मीरे स्त्रीणां कृते यात्रायै प्रत्येकं बस्यानसेवनमेव सर्वकारेण आरब्धम्। अप्रैल् १९तः इदं सेवनं स्त्रीणां कृते दीयमानमस्ति।

 लोके सर्वत्र योगदिनाघोषः। 
  चण्डिगड् > मानसिक-शारीरिकसान्त्वनं लब्धुं योगः अनिवार्यः इत्युद्घोषयन् द्वितीयम् अन्ताराष्ट्रयोगदिनं लोके सर्वत्र आघुष्टम्। लोकस्य विविधदेशेषु , भारतस्य सर्वेषु राज्येषु , विभिन्नप्रदेशेषु च लक्षशः जनाः योगदिनकार्यक्रमे भागभागित्वं कृतवन्तः।
   भारतस्य देशीययोगदिनाघोषः चण्डीगडे प्रधानमन्त्री नरेन्द्रमोदी उद्घाटनं कृतवान्। योगशास्त्रमित्येतत् यस्यकस्यापि धार्मिकसंघटनस्य अनुष्ठानः आचारो वा नास्तीति प्रधानमन्त्रिणा उक्तम्। ऊर्जस्वलजीवनस्य शास्त्रं भवति योगः। अतः विवादाय न , सामान्यजनानामपि जीवनस्य अंशत्वेन भवितुं परिश्रमः आवश्यक इति तेनोक्तम्।
  तथा प्रमेहरोगस्य औषधरूपेण योगाभ्यासं परिवर्तयितुं योगाप्रवर्तकाः यतेयुः। व्ययं विना स्वास्थ्यनिगममार्गो भवति योगः। सामाजिक- आर्थिक भिन्नवत्करणं विना सर्वैः सम्यक् स्वीकर्तुं योग्यः आरोग्यसंरक्षणरीतिः भवति योगः । यथा जंगमदूरवाणी अस्माकं जीवनस्य अविभाज्यघटकः भूतः तथा योग अपि दैनंदिनचर्यायांम् अन्तर्भवितुं लाघवेन शक्यते। मोदिवर्येण संस्थापितम्।

Wednesday, June 22, 2016

सोपानम्-04 Subhadra K Naboothiri BSUPS Kalady. News Reading 22-06-2016.
विशेषवार्ता
ओट्टिसं नाम रोगेण क्ळेशितः बालः इदानीं संस्कृतभाषाप्रवीणः अभवत् ।
चन्द्रकान्तः नाम बालकः संस्कृतभाषया सह षट्सु भाषासु प्रवीणः अस्ति। द्वितीये वयसि रोगबाधितः सःI तस्य पिता सुनिलः माता षिजी च तं वात्सल्येन अपालयताम् । तयोः वात्सल्यस्य फलमिव पञ्चमे वयसि आङ्गलेय अक्षराणि अनेन अपठत्। एकवर्षाभ्यन्तरेण संस्कृतं हिन्दी च पठितुमारब्धवान् तत् तस्य बुद्धिविकासस्य कारणमभवश्च। इदानीं सः कोट्टयं देशस्य समीपे विद्यमाना कारिक्कोट्‌ के एम् एम् यु पि विद्यालये सप्तम कक्षायां पठन् अस्ति। एषः पितृ वात्सल्यमघिकृत्य मातृभाषायां कवितां रचितवान् । कैरल्याः प्रमुखदिनपत्रिकायां 'मातृभूम्यां ' तेन विरचिता कविता प्रकाशिता अस्ति। अनेन विरचितः कवितासमाहारः केरळस्य शिक्षामन्त्रिणा पूर्वं प्रकाशितः आसीत् ।
भवतु । संस्कृतभाषापठनम् अस्माकं बुद्घिविकासाय भवति ।
परीक्षायां व्याज: - समितेः पूर्वाध्यक्षः बन्धने।
       पाट्ना > बीहारराज्ये कतिपयदिनेभ्यः पूर्वं प्रत्यक्षीकृते परीक्षासम्बन्धविवादे आरोपणविधेयः बीहार् विद्यालयीयपरीक्षासमितेः पूर्वाध्यक्ष: लाल्केश्वर प्रसाद् सिंह:, पत्नी उषा सिन्हा च आरक्षकै: बन्धिते। जूण् १५ तमे दिने द्वयोरुपरि बन्धनकल्पना प्रख्यापिता आसीत्I सोमवारे एव उभावपि प्रत्येकान्वेषणसङ्‌घेन बन्धितौ।

बिरुदप्रवेशाय अखिलभारतीय प्रवेशनपरीक्षा।
  नवदहली > देशीयशैक्षिक-नयरूपीकरण-प्रक्रियायाः सम्बन्धतया समितेः पक्षतः नूतन: निर्देशः आगतः। शैक्षिकमण्डले समग्रं परिवर्तनं लक्ष्यीकृत्यैव परिष्करणसम्प्रदायःI नूतनं निर्देशम् अनुसृत्य दशमीकक्ष्यायाः द्विविधां परीक्षां सञ्चालयितुं निर्देशः। एतदर्थं दशमी कक्ष्यायां उन्नतस्तरीया, अधस्तरीया च इति द्विविधपरीक्षायाः एव निर्देशः। दशमीकक्ष्यानन्तरं उपरिपठनम् इच्छन्तः छात्रा: एव उन्नतस्तरीयां परीक्षां लिखन्तु, अन्यैः अधस्तरीया परीक्षा लेखनीया च। एवं बिरुदप्रवेशनाय अखिलभारतीयप्रवेशनपरीक्षा चालनीया च। टि. एस्.आर् सुब्रह्मण्यस्य आध्यक्षे पठनं कुर्वन्ती समिति: एव निर्देशम् अकरोत् । अपि च सर्वेषु विद्यालयेषु संस्कृतभाषापठनस्य आङ्‌गलं , हिन्दी भाषावदेव प्रामुख्यं कल्पनीयम्। पाठ्यपद्धतौ योगपठनस्य स्थानम् अवश्यं कल्पनीयम्‌ इत्येवम् अनेके श्रद्धेयाः अंशा: समित्या निर्देशिताः।

आणवसामग्रीवितरणसङ्घे भारतस्य प्रवेशः,स्वमते व्यत्यय: नास्तीति चैना।
  बीजिङ्‌ > स्वमते तीव्रतां प्रतिपाद्य पुनरपि चैना। अग्रिमसप्ताहे सोल् देशे प्रचाल्यमाने योगे भारतस्य सङ्घप्रवेश: विषय एव नास्तीति चैनायाः विदेशकार्यवक्ता अवदत्। आणवसामग्रीवितरणसङ्घे अधुना ४८ राष्ट्राणि सन्ति। यानि राष्ट्राणि आणवनिर्व्यापनसम्मतपत्रे मुद्रां न कृतानि तेषां सङ्‌घप्रवेशे सङ्‌घाङ्गानां मध्ये विरुद्धाभिप्रायाश्च सन्तीत्यपि तेन सूचितम्। स्वमतं कमपि राष्ट्रम् उद्दिश्य नास्तीत्यपि भारतं परोक्षरीत्‍या संसूच्य स: उक्तवान् । पूर्वस्मिन् दिने भारतस्य विदेशकार्यसचिवा सुषमा स्वराजः भारतस्य सङ्‌घप्रवेशे चैनायाः सहयोगः अवश्यं लप्स्यते इति असूचयत्। किन्तु नूतनावस्थायां भारतस्य प्रवेशसम्बन्धी आशङ्‌का वर्धयन्ती एव।

दहली- वाराणसी अतिवेगरेलयानम् साक्षात्करिष्यति।
   नवदहली> दहली- वाराणसी अतिवेगरेलयानम् अचिरादेव साक्षात्करिष्यति। अनेन रेलयानेन ७८२ कि.मी. दूरं केवलं १६० निमिषैः प्रापयिष्यतीति विदग्धैः अभिप्रेतम्। अलिगड्, आग्रा ,काण्पूर् , लक्नौ इत्यादिषु तीर्थकेन्द्रेषु नगरेषु अपि रेलमार्गस्य योजना अस्ति इत्येतत् जनानां कृते महदुपकारः भविष्यति। एतत्तु भारतस्य द्वितीयम् अतिवेगरेलसंविधानं भवति।

प्रतिरोधमण्डले १००% विदेशनिक्षेपाय केन्द्रसर्वकारः।
   नवदहली > प्रतिरोध: , व्योमयानः इत्यादिषु मण्डलेषु १००% विदेशनिक्षेपाय केन्द्रसर्वकारस्य निर्णयः । औषधमण्डले ७४% निक्षेपः अपि वैदेशिक: भवतु इत्यपि निर्णयः स्वीकृतः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्षे संवृत्तः योगः एव निर्णयोऽयं अकरोत्। एवं अन्तर्जालव्यापारः अपि शक्तं करिष्यति। अस्य स्वाधीनं सर्वेष्वपि मण्डलेषु व्यापरिष्यति इति केन्द्रसर्वकारस्य अभिमतम्।

केरला ब्लास्टेर्स् कृते नूतनपरिशीलक:
  मुंबई > गतक्रीडाकालस्य पराजयानुभवान् परिहर्तुं नूतनपरिशीलकेन साकं सज्जीकरणम् आरभ्य केरला ब्लास्टेर्स् I भूतपूर्व: इङ्‌ग्लाण्ट् देशीयक्रीडक: तथा माञ्जस्टर् सिट्टी परिशीलक: च स्टीव् कोप्पल् एव ब्लास्टेर्स् परिशीलक: इति सङ्‌घाधीशः सचिन् टेण्डुल्कर: सामूहिकमाध्यमेन ट्विटर् द्वारा  प्रख्यापितवान् ।

रघुराम् राजन् सौदीं गमिष्यति किम्?।
 नवदहली > कालावधिं पूर्तीकृत्य उभयसम्मतपत्रस्य नवीकरणं नेष्यतीति प्रख्यापितः रघुराम् राजः सौदीराष्ट्रस्य आर्थिकोपदेशकस्थानं स्वीकरिष्यतीति सूचना । राजम् आहूय सौदीराज्ञा अभ्यर्थना कृता इति नूतनसूचना:। उत्तमं प्रतिफलं तथा अन्यानि बहूनि आनुकूल्यान्यपि तस्मै प्रख्यापितानि इति अन्तः राष्ट्रमाध्यमप्रवर्तकैः सूच्यते।

भारसेवनकरकः - स्वमतं प्रस्ताव्य पिणरायि विजय:
 नवदहली > केन्द्रसर्वकारेण लोकसभायाम् अनुमतिं स्वीकृत्य राज्यसभायाम् अनुमतये समर्प्यमाणे भारसेवनकरकविषये केरलासर्वकारस्य मतं प्रस्ताव्य मुख्यसचिव: पिणरायि विजय:। उपभोक्तृराज्यमित्यतः प्रस्तुतविषये केरलराज्यस्य आशङ्का कापि नास्ति, अतः भारसेवनकरकविषये केन्द्रसर्वकाराय सहयोगं दास्यतीति तेन उक्तम्। विषयेऽस्मिन् सन्देहः कोऽपि नास्ति, सहयोगः अवश्यं दातव्यः इति पूर्वमेव केरलासर्वकारस्य धनसचिवः डा. तोमस् ऐसक् वदति स्म। तथा च राज्यसभायामपि अनुमतिं प्राप्य नूतनं भारसेवनकरकं राष्ट्रे संस्थापयितुं केन्द्रसर्वकारेण प्रयत्‍नं शक्तं करिष्यति।

Tuesday, June 21, 2016

लोक अद्य योगे व्यापरति। 
 कोच्ची - अद्य योगदिनम्। भारतस्य सांस्कृतिकपैतृकम् उद्घुष्य लोके सर्वत्र अद्य योगदिनत्वेन आचरति। जूण् २१ अन्ताराष्ट्रीय योगदिनत्वेन आचरितुम् ऐक्यराष्ट्रसभायाः निर्णयानन्तरं द्वितीयं योगदिनमेव अद्यतनम्। चण्डीगड् प्रविश्यायां क्यापिटोल् कोम्प्लक्स् मध्ये आयोज्यमाने कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी भागभागित्वं करिष्यति।

केन्द्रीयविश्वविद्यालयेषु योगस्य अध्ययनम् आरभ्यते ।
    नवदहली >राष्ट्रे षट्सु केन्द्रीयविश्वविद्यालयेषु अग्रिममासादारभ्य योगः पाठ्यपद्धत्याम् अन्तर्भावयिष्यतीति Image result for indian yogaकेन्द्रमानवविभवशेषिमन्त्रालयः । शरीरिकं मानसिकं च आरोग्यं लक्ष्यीकृत्यैव केन्द्रसर्वकारस्य नवीना पद्धतिः। विद्यालयेषु तथा विश्वविद्यालयेषु च योगापठनम् अनिवार्यमेव इति मोदीसर्वकारेण उन्नीतमासीत्I विश्वभारती विश्वविद्यालयः , कासरगोडे केन्द्रीयविश्वविद्यालयः , मणिप्पूर् केन्द्रीयविश्वविद्यालयः, उत्तराखण्ड् हेंवती नन्दन् बहुगुणगर्वाल् विश्वविद्यालयः, राजस्थान् विश्वविद्यालयः, इन्दिरागांन्धी नाषणल् ट्रैबल् विश्वविद्यालयः इत्यादिषु केन्द्रीयविश्वविद्यालयेषु अग्रिममासादारभ्य योगपठनम् आरब्धुं कुलपतिभ्यः केन्द्रमानवविभवशेषिमन्त्रालय अध्यक्षया स्मृती इरानी महोदयया निर्देशः दत्तः अस्ति।

यात्रानुवादपत्रम्- केन्द्रसर्वकारस्य नूतननिर्देशः।
           नवदहली > यात्रानुवादपत्रं लब्धुं केन्द्रसर्वकारपक्षतः नूतननिर्देशः आगतः। यात्रानुवादपत्रलघूकरणसम्बन्धविषये एव विदेशकार्यमन्त्रालयेन निर्देश: दत्तः वर्तते। तदनुसृत्य यात्रानुवादपत्रं लब्धुम् आवश्यकानां रेखाणां समर्पणेन आरक्षकप्रमाणीकरणे अपि आनुकूल्यं लभ्यते। नूतननिर्देशानुसारं यात्रानुवादपत्रं लब्धुम् आधार् कार्ड, प्रत्यभिज्ञानपत्रं , पान् कार्ड इत्यादीनां रेखाणां प्रतिकृतयः समर्पयितव्या: इति विदेशकार्यमन्त्रिणी सुषमा स्वराजः ह्यः अवदत्।

कृत्रिमा वृष्टिः-भारतराष्ट्राय चैनाया: साहाय्यवाग्दानम्।
    बैजिङ् : >अनावृष्टिम् अनुभूयमानेषु प्रदेशेषु कृत्रिमरीत्या वृष्टिं वर्षयितुम् आवश्यकं साङ्केतिकसाहाय्यं दातुं सन्नद्धमिति चैना। भारते महाराष्ट्राराज्ये अनावृष्टिम् अनुभूयमानेषु प्रदेशेषु कतिपयदिनेभ्यः पूर्वं चैनायाः शास्त्रज्ञाः सन्दर्शनं कृतवन्तः स्म। तैः कृतस्य पठनस्याधारेण एव २०१७ तमे उष्णकाले कृत्रिमवृष्ट्याः कृते चैनायाः साहाय्यवाग्दानं प्रख्यापितं वर्तते।

आणवसामग्री-वितरणसङ्‌घे अङ्गत्वम् -भारतस्य प्रतीक्षा: वर्धन्ते।
         नवदहली >आणवसामग्रीवितरणसङ्‌घे अङ्‌गत्वसम्पादनाय भारतस्य प्रयत्नादिकं लक्ष्यं प्रापयत् वर्तते। अमेरिका सदृशा: विश्वराष्ट्रा: भारतस्य अङ्गत्वाय अनुमतिं प्रख्यापितेऽस्मिन् समये चैनाया: आनुकूल्यमेव इदानीं मुख्या समस्या वर्तते। एतत् परिहर्तुं चैनया सह अनुरञ्जनचर्चां कर्तुं भारतविदेशकार्यनिर्देशकेन एस्. जयशङ्‌करेण कृतं रहस्यसन्दर्शनं विजयं प्राप्स्यति इति विश्वासः । विदेशकार्यसचिवया सुषमास्वराजमहोदयया अपि एतत् स्थिरीकृतम् ।

 रिसर्वबाँक् अध्यक्षस्थानम् - पट्टिकायां प्रमुखाः।
     नवदहली >आगामिनी सितम्बर् मासे रघुराम् राजस्य स्थानत्यागेन आगम्यमाने अवसरे अध्यक्षस्थानं प्रति परिगण्यमानेषु नामसु आर्थिकविदग्धाः सहिताः प्रमुखाः अन्तर्भूता: । तेषु मुख्यपरिगणना एस् बि ऐ अध्यक्षायै अरुन्धती भट्टाचार्यायै इति सूचना । आर्थिकविदग्धः राकेज् मोहन् , अशोक् लहिरी, विजय् केल्कर् , आर् बि ऐ नियुक्ताधिकारी उर्जित् पट्टेल् , भूतपूर्वनियुक्ताधिकारी सुबीर् गोकरन् , अशोक् चौला इत्यादयः प्रमुखाः पट्टिकायाम् अन्तर्भूताः इति सूचना: आगताः। उभयसम्मतपत्रस्य नवीकरणाय तात्पर्यं नास्तीति रघुराम् राजेन प्रख्यापितमासीत्। अत एव आर् बि ऐ अध्यक्षस्थाने नूतनस्य आरोहणं निश्चितमेवास्ति।

विख्यातः चलनचित्रकारः पोल् कोक्स् दिवङ्गतः
मेल्बण् > विख्यातः आस्ट्रेलिया देशीयः चलनचित्रकारः दिवङ्गतः।आस्ट्रेलियायां स्वतन्त्रसिनेमायाः पिता इत्येव सः व्यवह्रियते। १८ चलनचित्राणि,      ७ आधारसम्बन्धिचलनचित्राणि, ११ह्रस्वचित्राणि च तेन कृतानि वर्तन्ते। अनेके अन्तःराष्ट्रपुरस्कारा: तेन प्राप्ताः। सप्तदशतमं केरला अन्तःराष्ट्रचलनचित्रोत्सवे सः पुरस्कारनिर्णयसमितेः अध्यक्षः आसीत्।

पात्रियार्कीस् बावां प्रति आत्माहुतिसन्नद्धस्य आक्रमणम्।

दमास्कस् >सिरियन् ओर्तडोक्स् सभायाः परमाध्यक्षः परिशुद्धः इग्नात्तियोस् अप्रें बावाद्वितीयः जन्मदेशे आत्माहुतिसन्नद्धस्य आक्रमणात् रक्षितः। उत्तरपूर्वसिरियायां खामिष्लि जनपदे  बावावर्यस्य खातिनामके  जन्मग्रामे रविवासरे आसीत् स्फोटनम्।  स्फोटने त्रयः सुरक्षासैनिकाः हताः।
  खात्यां सेय्फो गणहत्यायां मृतानामनुस्मरणाय आयोजिते प्रार्थनासम्मेलने भागभागित्वं कुर्वन्नवसरे एव आक्रमणम्।

Monday, June 20, 2016

कोषिक्कोट्- आलप्पुषा वैद्यकीयकलाशाले अतिविदग्धचिकित्साकेन्द्रे भवतः ।
         नवदेहली >केन्द्रसर्वकारैः स्वीकृतः निर्णयः एषः । द्वयोः वैद्यकीयकलाशालातुरालययोः कृते प्रत्येकं 125 कोटि रूप्यकाणि केन्द्रेण दीयते । प्रत्येकस्मै 25 कोटिरूप्यकाणि राज्यसर्वकारैरपि समाहरणीयानि  इति केन्द्रारोग्यमन्त्री जे पी नड्डा उद्घोषितवान् ।

 युद्धविमानाय वनिताचालकाः। 

हैदराबाद् > भारतस्य युद्धविमानम् उड्डाययितुं इदंप्रथमतया वनिताचालकाः।  भावनाकान्त्, अवनी चतुर्वेदी , मोहना सिंह इत्येताः भारतस्य प्रथममहिलाचालकरूपेण अंगीकृताः।
  हैदराबादस्थे दुण्टिगल् व्योमसेना अकादम्यां पठनं सम्पूर्णं कृतवत्यः। प्रतिरोधमन्त्री मनोहर्परीक्करः कार्यक्रमे भागभाक्कृतवान्।

Sunday, June 19, 2016

भारतेन सह प्रातिवेशिकराष्ट्राण्यपि अभिवृद्धिमर्हन्ति - मोदी। 

कोळम्बो> भारतस्य अभिवृद्ध्या सह प्रातिवेशिकराष्ट्राणां प्रगतिमपि इच्छतीति प्रधानमन्त्री नरेन्द्रमोदी। श्रीलङ्कायां जाफ्नानगरे  भारतेन सम्यक् कृतस्य क्रीडाङ्कणस्य संयुक्तोद्घाटनं दिल्लीतः वीडियो सम्मेलन द्वारा कुर्वन्नासीत् सः।
  श्रीलङ्का राष्ट्रपतिना मैत्रिपालसिरिसेनावर्येण सहैव आसीत् उद्घाटनम्। भारतस्य साहाय्यं प्रति सिरिसेना कृतज्ञतां प्रकाशितवान्। द्वयोरपि राष्ट्रयोः चरितं, संस्कृतिः, भूप्रकृतिः, कला इत्यादयः अतिमहान्तः तथा परस्परपूरिताश्च भवन्तीति मोदिना उक्तम्।
जिषाघातकः न्यायकाराधीने। 

कोच्ची - गतदिने आरक्षकैः गृहीतः जिषायाः घातकः अमियूर् उल् इस्लामः  न्यायालयम् आनीतः। सः   न्यायाधीशाधीनत्वे १४ वासराणि कारागृहे बद्धः।  
  सुदृढे रक्षावलये एव सः न्यायालयम् आनीतः। तं द्रष्टुं महान् जनसम्मर्दः आसीदपि शिरस्त्राणं धारयित्वा एव  तमपराधिनं न्यायालयं प्रविष्टवन्तः।

Saturday, June 18, 2016

केरळस्य मुख्यमन्त्री केन्द्रमन्त्रिभिः सह अमिलत्।

नवदिल्ली >गतदिने दिल्लीं प्राप्तः केरळस्य मुख्यमन्त्री पिणराय् विजयः केन्द्रमन्त्रिभिः सह मेलनं कृत्वा राज्यसंबन्धान् विषयान् अधिकृत्य चर्चितवान्। 
   केन्द्रगतागत - नौकाश्रयमन्त्रिणा नितिन् गड्करि वर्येण सहाभिमुखे केरळस्य देशीयमार्गविकसनाधिष्ठिताः विषयाः चर्चिताः। ततः स्वास्थ्यमन्त्रिणा जे पि नड्डा वर्येणापि सह मेलनं कृतवान्।

सार्वजनीनविद्यालयसंरक्षणाय कण्णूर् जनपदात् कश्चन नूतनपाठः। 

कण्णूर् >छात्रन्यूनतायाः कारणमुक्त्वा विद्यालयपिधानाय स्पर्धां कुर्वन्तः प्रबन्धकाः विद्यमाने अस्मिन् काले तद्व्यतिरिक्तः कश्चन विद्यालयप्रबन्धकः छात्राणां न्यूनतया अनादायकरं प्राप्तं स्वकीयं विद्यालयं संरक्षितुं जनकीयसंघाय ददाति। 
  कण्णूर् जनपदे तलिप्परम्प् काञ्ञिरक्काट् आर्थिकलब्धविद्यालयस्य प्रबन्धकः पि. कृष्णमारारः छात्रान् आकृष्टुं कर्मपद्धतिम्  आविष्कृताय जनकीयसंघाय आगामी दशसंवत्सरं यावत् विद्यालयस्य विनिमयः  कृतः। विद्यालयं नवजीवं कर्तुं शक्यते इत्येव जनकीयसमित्याः प्रतीक्षा।

Friday, June 17, 2016

बेङ्कानां लयनाय केन्द्रानुमतिः।

नवदिल्ली > स्टेट् बेङ्क् आफ् इन्डिया वित्तकोशेन सह षट् अनुबन्धवित्तकोशानां लयनाय केन्द्रमन्त्रिसभायाः अङ्गीकारः। स्टेट् बान्क् आफ् ट्रावन्कूर् , बिक्कानीर् & जय्पूर् , मैसुर् , हैदराबाद् , पट्याला इत्येते स्टेट् बाङ्काः, भारतीय महिला बान्कश्च एस् बि ऐ बान्केन सह लीयमानाः वित्तकोशाः।किन्तु वित्तकोशसेवकाः तेषां संघटनाः च अस्मिन् विषये अनुकूलतां न भजन्ते। लयनेन पदोन्नतिः वेतनव्यवस्था इत्यादयः प्रतिकूलाय भविष्यन्तीति सन्देहः तेषु वर्तते।

मेघालयायां लोकयानं गर्तं पतित्वा त्रिंशत् मरणानि।

षिल्लोङ् - मेघालयराज्ये बस् यानम् अगाधं गर्तं पतित्वा त्रिंशत् जनाः मृताः ; एकादश यात्रिकाः गुरुतरेण व्रणिताः।
 खासिहिल्स् जिल्लायां सोनापुरसमीपे रात्रौ  एव दुरन्तः अभवत्।

जिषायाः घातकः गृहीतः।

कोच्ची >मासद्वयात्पूर्वं केरळे पेरुम्पावूर् समीपे स्वगृहे अतिनिष्ठुरेण निहतायाः जिषानामिकायाः घातकः  केरलीयारक्षकैः गृहीतः। आसां स्वदेशीयः अमियूर् उल् इस्लाम् भवति घातकः इति प्रत्यभिज्ञातम्। जिषायाः गृहसमीपे परित्यक्तरूपेण दृष्टम् उपानहं केन्द्रीकृत्य कृते कठिनान्वेषणस्य अन्ते अपराधी केरळ-तमिळ् नाट् सीमायाम् आरक्षकदलस्य जाले लग्नः।  घटनास्थानात् लब्धस्य डि एन् ए प्रतिदर्शस्य परीक्षणफलमपि  एतदनुसृत्य स्थिरीकरणं लब्घम्। पूर्वकालीनविरोधः एव हननकारणमिति अपराधिना उक्तम्।

कोपा अमेरिका- अन्त्यचतुष्पादस्पर्धाः अद्य आरभ्य।

कैलिफोर्निया > कोपा अमेरिका पादकन्दुकचषकस्य अन्त्यचतुष्पादस्पर्धाः अद्य आरभ्यते। प्रथममत्सरे आतिथेयराष्ट्रम् अमेरिका इक्वडोर् राष्ट्रं प्रति स्पर्धते। शनिवासरे प्रभाते ५.३० वादने आरभ्यमाणे द्वितीय स्पर्धायां कोलम्बिया-पेरु राज्ययोर्मध्ये स्पर्धा भविष्यति।

Thursday, June 16, 2016

भारतीयविद्याभवने संस्कृतपठनवर्गः आरब्धः। 

 कोच्ची >भारतीयविद्याभवन् संस्थायाः कलाभारति नामके कोच्ची केन्द्रे संस्कृतपठनवर्गः आरब्धः। प्रोफेसर. अच्युतमेनोन् वर्यस्य नेतृत्वे प्रतिसप्ताहं दिनद्वये- सोममङ्गलवासरयोः - सायं पञ्चवादने कक्ष्या आरभ्यते। वयोभेदं विना संस्कृतपिपठिषूणां प्रवेशः अस्ति। सरलयारीत्या भाषां स्वायत्तीकर्तुं शक्यमाना ललिता पाठ्यपद्धतिरेव उपयुज्यते। संबन्धाय दूरवाणी - 0484- 2383451 , 9447179087.

विजयमल्या प्रख्यापितापराधी। 

मुम्बई >आर्थिक ऋणविषये राष्ट्रं त्यक्तः मदिराव्यापारी विजयमल्या सविशेषन्यायालयेन प्रख्यापितापराधिरूपेण प्रख्यापितः। ऐ डि बि ऐ बाङ्कात् स्वीकृतानां नवशतं कोटिरूप्यकाणं प्रत्यर्पणं न कृतमिति विषये एन्फोर्स्मेन्ट् डयरक्टरेट् संस्थायाः अभ्यर्थनाप्रकारेणैव न्यायालयस्य अयं क्रियाविधिः।
  इदानीं लण्टनम् अधिवसन्तं मल्यं गृहीतुं राष्ट्रान्तरान्वेषणसंघस्य इन्टर्पोल् इत्यस्य साहाय्यम् अर्थितं च।

 विद्यालयगणवस्त्रं विभिन्नं न स्यात्। 

अनन्तपुरी > एकस्मिन् विद्यालये विभिन्नदिनेषु विभिन्नं गणवेषं  धर्तुम् आगामीसंवत्सरादारभ्य अनुमतिं न दास्यतीति सार्वजनीनशैक्षिकनिर्देशिकायाः आदेशः। राज्यस्तरीय बालाधिकारसंस्थायाः निर्देशानुसारमेवायमादेशः।
  संवत्सरत्रयाभ्यन्तरे गणवेषस्य परिवर्तनं न साध्यम्।

Wednesday, June 15, 2016

सोपानम्-03 SRK HSS Meenchanda, Kozhikkod, News Reading 15-06-2016

यन्त्रवत्कृतमत्स्यबन्धननिरोधः (Trolling) आरब्धः।

कोल्लम् > केरळे ४७ दिनात्मकमत्स्यबन्धननिरोधः आरब्धः। यन्त्रवत्कृतनौकाः उपयुज्य समुद्रान्तर्भागेषु मत्स्यबन्धनं मत्स्यप्रजननप्रक्रियां प्रतिकूलतया बाधते। अत एव प्रजननकाल इति निर्णीते मण्सूण् काले मत्स्यबन्धने निरोधः आविष्कृतः। 
    किन्तु परम्परागतधीवरैः नियन्त्रणमङ्गीकृत्य मत्स्यबन्धनाय अनुमतिः अस्ति। जूण् १५ दिनाङ्कादारभ्य जूलाय् ३१ पर्यन्तमेव निरोधनम्।

Monday, June 13, 2016

कोप्पा अमेरिक्कातः ब्रसील् बहिर्गतम्। 

मसाच्चुसेट्स् >कोप्पा अमेरिक्का पादकन्दुकक्रीडातः पेरु राष्ट्ं प्रति पराजितः ब्रसीलदेशः अन्तिमचतुर्थांशम् अप्राप्य बहिर्गतः।  पेरु राष्ट्रेणार्जितं कन्दुकलक्ष्यं  विवादात्मकमासीत्। पेरोः क्रीडकस्य रौल् रुड्डियास् नामकस्य हस्तं संस्पृश्य एव कन्दुकः जाले पतितः इति विदग्धैः उच्यते। तत्तु विवाकेन न निर्णीतं च। एतत् ब्रसील् दुरन्ताय अभवत्।

उन्मादक वस्तूनां विनिमयमधिकृत्य ज्ञापितेभ्यः मूल्यस्य प्रतिशतं पञ्च  (५% ) लप्स्यते - ऋषिराजसिंहः

अनन्तपुरी > केरळेषु उन्मादकवस्तूनां विनिमयं प्रतिरोद्धुं एक्सैस् कम्मीषणरः ऋषि राजसिंहः सम्मानं प्रख्यापितवान् । एतदनुसारं गोप्य रूपेण उन्मादवस्तूनां विनिमयमधिकृत्य ज्ञापनीयम् । इदानीं भारतस्य विभिन्नप्रदेशेषु विद्यमानेषु कलाशालायाः तथा विद्यालयस्य च परिसरेषु उन्मादवस्तूनां विक्रयः प्रचलति।

उड्ता पञ्चाबस्य प्रदर्शनानुमतिः। 

मुम्बई > ' उड्ता पञ्चाब् ' इति हिन्दी चलच्चित्राय मुम्बई उच्चन्यायालयः प्रदर्शनाङ्गीकारम् अदात्। अभिषेक् चौबे वर्यस्य निदेशकत्वे सिद्धतामाप्तस्य चलच्चित्रस्य  ८९ दृश्यानि वर्ज्यानि इति कारणेन युक्तियुक्तविवेचननिर्वाहकायोगः (Senser board) प्रदर्शनानुमतिं  निराकृतवानासीत्।
  एतद्विरुध्य निर्मातृभिः समर्पितायां याचिकायामेव उच्चन्यायालयस्य अनुकूलविधिः।
'करमन नदीं' शुद्धं कर्तुं विद्यालयछात्राः

अनन्तपुरी > नदीजल संरक्षणाय कटिबद्धाः विद्यालयछात्राः नदी संरक्षण प्रवर्तनानि आरब्धानि । केरळ राज्ये अनन्तपुर्याः समीपदेशे विद्यमाने कण्डमण् कटव् 'भविष्या' विद्यालयस्य छात्राः एव एते कुशला:। जूण् मासस्य पञ्चम दिने एते छात्राः परिस्थिति संरक्षणशपथं स्वीकृतवन्तः। विद्यालयस्य समीपे प्रवहन्तीं नदीरक्षणाय नद्याः पार्श्वयोः तृण- वेणु सस्यादीनी रोपितुमारब्धाः। एक किलोमीट्टरमितं दूरं उभयतः नद्याः संरक्षणं , जनानां उद्‌बोधनं च छात्राणां योजनायां वर्तते। विख्यातः परिस्थिति प्रवर्तकः राजशेखरयेशुदासः एव छात्राणां मार्गदर्शी । मथुर-वैगा नद्याः पुनरुज्जीवन प्रक्रियायाः नेता भवति एषः महानुभावः । भवतु - प्रकृति संरक्षणाय यावच्छक्यं तावत्‌ करिष्यामः।
 कलाभवन् मणेः मरणे सि बि ऐ अन्वेषणम्। 

अनन्तपुरी >मासत्रयात्पूर्वं अस्वाभाविकमरणभूतस्य सुप्रसिद्धचलच्चित्रनटस्य कलाभवन्मणेः मरणकारणं सि बि ऐ. संस्थया अन्वेष्टुं  केरलसर्वकारेण निश्चितः। राज्यस्य आरक्षणसेनायाः अधिपः लोकनाथ बह्रा वर्यः प्रस्तुतविषये अनुकूलनिर्देशं  समर्पितवान्।
  मणिवर्यस्य अस्वाभाविकमरणं हत्येति दृढनिश्चये  तस्य अनुजः आर् एल् वि रामकृष्णः सि बी ऐ अन्वेषणाय सर्वकाराय आवेदनं समर्पितवानासीत्।
   बान्धवानाम् आवेदनं मणेः प्रसिद्धिं च परिगण्य केन्द्रतल रहस्यान्वेषणाय सर्वकारेण निश्चितमस्ति।

विजयमल्यायाः १४११ कोटि रूप्यकाणां द्रव्याणि स्वायत्तीक्रियन्ते। 

मुम्बई >ऋणबाध्यताविषये विदेशं पलायितस्य विजयमल्यस्य १४११ कोटि रूप्यकाणां स्थावरजंगमद्रव्य़ाणि एन्फोर्समेन्ट् डयरक्टरेट् संस्थया सर्वकाराय स्वायत्तीकृतानि।
  ३४कोटि रूप्यकाणां बाङ्कनिक्षेपः, बंगलुरु मुम्बई नररस्थयोः एकैकः वास समुच्चयः, चेन्नैसमीपे ४.५ एकर् परिमिता वाणिज्योपयोगयोग्या भूमिः , कुटक् प्रदेशे २८.७५ एकर् परिमितं काफीक्षेत्रम् इत्यादीनां  द्रव्याणां सर्वस्वदण्डनमेव कारितम्।

Sunday, June 12, 2016

वर्षाकाले पादत्राणं पादकवचं च मा धृत।

कोच्ची > केरळेषु वर्षाकाले छात्राः गणवेषेन सह  पादत्राणं पादकवचं च धर्तुं बलात् न प्रेरयितव्याः इति केरळानां बालाधिकार संरक्षणसंस्थया निर्दिष्टम्। राज्ये सर्वेषां विद्यालयानाधिकारिणां कृते सूचनां दातुं सार्वजनिक शिक्षानिर्देशकः सचिवः सि बि एस् सि अधिकारिणः इत्यादीन् प्रति संस्थाध्यक्षा शोभा कोशी निरदिशत्।

डीसल् वाहननियन्त्रणम् - उच्चन्यायालयः निराकुरुत।

कोच्चि >डीसल् तैलवाहनानां देशीयहरितन्यायाधिकरणेन कृतं नियन्त्रणं केरळ उच्चन्यायालयेन निराकृतम्। दशसंवत्सराधिकपुरातनानां डीसल् वाहनानां केरलेषु मुख्यषण्णगरेषु कारितं नियन्त्रणमेव उच्चन्यायालयेन निराकृतम्।

अफ्गानिस्ताने भारतीया अपहृता।

काबूल् >अफ्गानिस्तानस्य राजधान्यां काबूल् नगरे सामाजिकप्रवर्तनं कुर्वन्ती भारतीया अज्ञातैः अपहृता।
सर्वकारेतरसंघटस्य आगाखान् डवलप्मेन्ट् नेट्वर्क् नामकस्य कार्यकर्त्री जूडित् डिसूसा एव अपहृता। तया सह तस्याः सुरक्षाभटः यानचालकश्च अपहृतौ। कोल्कत्ता स्वदेशिनी भवति जूडित् डिसूसा।
  तस्याः मोचनाय प्रयत्नं कुर्वन्नस्तीति भारतीयनयतन्त्रकार्यायनेन प्रस्तावितम्।

Saturday, June 11, 2016

 भारतात् चोरितानि वस्तूनि अमेरिक्कया प्रतिदत्तानि। 

वाषिङ्टण् >भारतात् चोरणं कृत्वा अमेरिक्कां प्राप्ताः   द्विसहस्रं संवत्सराणां पुरातनत्वमर्हन्तः विग्रहाः प्रतिमाश्च सहिताः द्विशतं करकौशलसामग्र्यः भारताय प्रतिदत्ताः। सहस्रलक्षं डोलर् मूल्ययुक्तानि एतानि वस्तूनि अमेरिक्कायां सन्दर्शनं कुर्वन् भारतप्रधानमन्त्री नरेन्द्रमोदी राष्ट्राय स्वीकृतवान्।
   कांस्य- टेराक्कोट्टा इत्यादिभिः निर्मितानि एतानि भारतस्य आराधनालयेभ्यः चोरितानि भवन्ति। चेन्नै नगरस्थात् महेश्वरमन्दिरात् मुष्णीता योगिनः कवेश्च माणिक्कवाचकरस्य (ए डि ८५० - १२५०) प्रतिमा भवति मूल्यतमा। अस्याः मूल्यं १० कोटि रूप्यकाणि  इति गण्यते।
   अमेरिक्कायाः महामनस्कतायै मोदिवर्यः धन्यवादं प्रस्तौति स्म।

Friday, June 10, 2016

 भारतराष्ट्राय मेक्सिकोराष्ट्रस्य सहयोगः 

मेक्सिकोसिट्टि> विश्वस्य आणववितरणसंघे अङ्गत्वसम्पादनाय भारतराष्ट्रं प्रति मेक्सिकोराष्ट्रस्यापि सहयोगः।   भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः मेक्सिकोराष्ट्रस्य सन्दर्शनवेलायाम् मेक्सिको राष्ट्रपतिना एतत् प्रस्तावितम्‌। सन्दर्शनानुबन्धिकतया नरेन्द्रमोदिनः कृते मेक्सिकोदेशीये व्योमयानसङ्‌केते राजकीयस्वीकरणमेव सज्जीकृतमासीत् । व्योमयानसङ्‌केते मोदीं स्वीकर्तुं विदेशकार्यसचिवः क्लौडियो रूयिस् सन्निहितः आसीत् । बुधवासरे अमेरिकायाः राष्ट्रप्रतिनिधिसभायां प्रभाषणानन्तरमेव मोदिना मेक्सिको सन्दर्शितम्। आणववितरणसंघे अंगत्वसम्पादनाय अमेरिका सहितानि बहूनि राष्ट्राणि भारतं प्रति सहयोगं न्यवेदयन् वर्तते।


क्षेपणायुध-विक्रयं लक्ष्यीकृत्य भारतम्

         नवदहली> वियट्नां सहितेभ्यः राष्ट्रेभ्यः नूतनं क्रूस् क्षेपणायुधसंविधानं विक्रेतुं भारतसर्वकारस्य पर्यालोचना। भारत-रष्या  संयुक्तसंविधानेन निर्मितं 'ब्रह्मोस्' क्षेपणायुधं पञ्चदशपरिमितेभ्यः राष्ट्रेभ्यः विक्रेतुं सर्वकारेण निर्णयः स्वीकृतः। अन्येभ्यः राष्ट्रेभ्यः अत्यधिकम् आयुधं स्वीक्रियमाणेन भारतराष्ट्रेण अनेन आयुधविक्रयणेन मण्डलेऽस्मिन् महान् लाभः एव प्रतीक्ष्यते। एतदनुसृत्य वियट्नां, इन्डोनेष्या, चिली , ब्रसील्, दक्षिणाफ्रिक्का इत्यादिभ्यः पञ्च राष्ट्रेभ्यः क्षेपणायुधविक्रयणाय ब्रह्मोस् एय्रो स्पेस् संघं प्रति प्रधानमन्त्रिणा निर्देशः दत्तः वर्तते।

 शासनसंविधानं भारतसर्वकारस्य विशुद्धग्रन्थः - नरेन्द्रमोदी।

न्यूयोर्क्> भारतस्य शासनसंहिता सर्वकारस्य विशुद्धग्रन्थ इति परिगण्यते इति प्रधानमन्त्री नरेन्द्रमोदी। अमेरिक्कायां विधानसभायाः संयुक्तसम्मेलम् अभिसंबुद्ध्य भाषमाणः आसीत् मोदिवर्यः।
 अमेरिक्कायाः जनाधिपत्यसविशेषताः बहुनां राष्ट्राणां प्रचोदनाय अभवन्निति तेनोक्तम्। तथा महात्मागान्धिनः अहिंसासिद्धान्ते मार्टिन् लूथर् किङ् वर्यः अपि आकृष्टः अभवदिति मोदिवर्यः प्रस्तौति स्म।

'विराम: अधुना नास्ति'-धोनी
नवदहली> क्रिकट्क्रीडा मण्डलात् स्वविरामम् अधिकृत्य मनः उद्घाट्य भारतस्य एकदिनक्रिकट्संघनेता महेन्द्रसिंहधोनी। क्रीडायां धावनादिषु अंशेषु क्लेशमनुभूयमाने अवसरे विराममधिकृत्य चिन्त्यते इति त्रिपञ्चाशत् वयस्क: सः अवदत्। स्वनेतृस्थानविषये बि सी सी ऐ अधिकारिभिः एव अन्तिमनिर्णय: स्वीक्रियते इत्यपि सूचितम्।

Thursday, June 9, 2016

मण्सूण् वर्षाकालः सम्प्राप्तः। 

कोच्ची > प्रतीक्ष्यमाणः मण्सूण् वर्षाकालः केरळं प्राप्तः। ह्यः राज्ये सर्वत्र महती वृष्टिः लब्धा। बहुत्र व्यापकनाशनष्टाः अभवन्।
  कोट्टयं जिल्लायां विद्यालय भवनं भग्नमभवत्। छात्राः सुरक्षिताः। एरणाकुलं नगरे सर्वे निम्नप्रदेशाः वारिपूरिताः जाताः। गतागतावरोध अपि सञ्जातः।

Wednesday, June 8, 2016

सोपानम्-02


सम्प्रतिवार्तांतां अधिकृत्‍य  कालटी श्री शङ्कराचार्य  विश्वविद्यालयस्य उप कुलपतिः डॉ. एं सि दिलीपकुमारमहोदयः।

सोपानम्-02 


वार्तावतारका- नम्यालक्ष्मी आर् , महाकवि जी.स्मारकविद्यालयः नायत्तोट् 

 मुम्बई भीकराक्रमणे पाकिस्तानस्य भागभागित्वं चैना अंगीकरोति। 

होङ्कोङ् > अष्टोत्तरद्विसहस्रतमे संवत्सरे दुरापन्ने मुम्बई भीकराक्रमणे पाकिस्तानस्य भागभागित्वं इदंप्रथमतया चीनाराष्ट्रेण अङ्गीकृतम्। 
  चीनायाः सि सि टि वि - ९ नामके  सर्वकारीयदूरदर्शने समीपकाले सम्प्रेषिते प्रलेखने एव २००८ नवंबर् मासस्य षड्विंशति तथा नवविंशति दिनाङ्कयोः मुम्बय्यां दुरापन्ने भीकराक्रमणे लष्कर् ई तोय्बायाः पाकिस्ताने तस्याः सहकारिणां च भागभागित्वं व्यक्तीकृतम् अस्ति।