OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 12, 2016

वर्षाकाले पादत्राणं पादकवचं च मा धृत।

कोच्ची > केरळेषु वर्षाकाले छात्राः गणवेषेन सह  पादत्राणं पादकवचं च धर्तुं बलात् न प्रेरयितव्याः इति केरळानां बालाधिकार संरक्षणसंस्थया निर्दिष्टम्। राज्ये सर्वेषां विद्यालयानाधिकारिणां कृते सूचनां दातुं सार्वजनिक शिक्षानिर्देशकः सचिवः सि बि एस् सि अधिकारिणः इत्यादीन् प्रति संस्थाध्यक्षा शोभा कोशी निरदिशत्।

डीसल् वाहननियन्त्रणम् - उच्चन्यायालयः निराकुरुत।

कोच्चि >डीसल् तैलवाहनानां देशीयहरितन्यायाधिकरणेन कृतं नियन्त्रणं केरळ उच्चन्यायालयेन निराकृतम्। दशसंवत्सराधिकपुरातनानां डीसल् वाहनानां केरलेषु मुख्यषण्णगरेषु कारितं नियन्त्रणमेव उच्चन्यायालयेन निराकृतम्।

अफ्गानिस्ताने भारतीया अपहृता।

काबूल् >अफ्गानिस्तानस्य राजधान्यां काबूल् नगरे सामाजिकप्रवर्तनं कुर्वन्ती भारतीया अज्ञातैः अपहृता।
सर्वकारेतरसंघटस्य आगाखान् डवलप्मेन्ट् नेट्वर्क् नामकस्य कार्यकर्त्री जूडित् डिसूसा एव अपहृता। तया सह तस्याः सुरक्षाभटः यानचालकश्च अपहृतौ। कोल्कत्ता स्वदेशिनी भवति जूडित् डिसूसा।
  तस्याः मोचनाय प्रयत्नं कुर्वन्नस्तीति भारतीयनयतन्त्रकार्यायनेन प्रस्तावितम्।