ऐ पि एल् किरीटं बङ्गलुरुणा प्राप्तम्।
किरीटप्राप्ति वेलायां RBC दलस्य आह्लादः।
अहम्मदाबादः> 'Indian Premier League'- ऐ पि एल् - इति क्रिकट् स्पर्धापरम्परायाः अन्तिमस्पर्धायां 'रोयल् चलञ्चेर्स् बङ्गलुरु' संज्ञया RBC , गुजरात् टैटन्स् संघं पञ्च द्वारकैः पराजित्य किरीटं सम्प्राप। अनुस्यूततया द्वितीयवारमेव ऐ पि एल् किरीटं RBC दलेन सम्प्राप्तम्। अनेन चेन्नै सूपर् किङ्स्, मुम्बई इन्डियन्स् इत्येतयोः द्विवारं किरीटोपलब्धिः इति सविशेषस्थानमपि लब्धम्।
उत्क्षेपनिर्णयं [Toss] उपलभ्य क्षेत्रपालनं [Fielding] चितवान् बङ्गुलुरु संघः प्रतिद्वन्दिनं गुजरातं २० क्षेपणचक्रेषु १५५ धावनाङ्कान् प्रति सङ्कोचयति स्म। प्रत्युत्तरक्रीडायां १८ क्षेपणचक्रेषु १६१ धावनाङ्कान् सम्पाद्य ऐ पि एल् चषकमपि सम्पादयामास। विराट कोह्ली विजयशिल्पी अभवत् [४५ कन्दुकैः ७५*]। प्राप्ताङ्कसूचिका - गुजरातः २० क्षेपणचक्रेषु १५५/८।बङ्गुलुरु १८ क्षेपणचक्रेषु १६१/५।