OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 13, 2016

 कलाभवन् मणेः मरणे सि बि ऐ अन्वेषणम्। 

अनन्तपुरी >मासत्रयात्पूर्वं अस्वाभाविकमरणभूतस्य सुप्रसिद्धचलच्चित्रनटस्य कलाभवन्मणेः मरणकारणं सि बि ऐ. संस्थया अन्वेष्टुं  केरलसर्वकारेण निश्चितः। राज्यस्य आरक्षणसेनायाः अधिपः लोकनाथ बह्रा वर्यः प्रस्तुतविषये अनुकूलनिर्देशं  समर्पितवान्।
  मणिवर्यस्य अस्वाभाविकमरणं हत्येति दृढनिश्चये  तस्य अनुजः आर् एल् वि रामकृष्णः सि बी ऐ अन्वेषणाय सर्वकाराय आवेदनं समर्पितवानासीत्।
   बान्धवानाम् आवेदनं मणेः प्रसिद्धिं च परिगण्य केन्द्रतल रहस्यान्वेषणाय सर्वकारेण निश्चितमस्ति।

विजयमल्यायाः १४११ कोटि रूप्यकाणां द्रव्याणि स्वायत्तीक्रियन्ते। 

मुम्बई >ऋणबाध्यताविषये विदेशं पलायितस्य विजयमल्यस्य १४११ कोटि रूप्यकाणां स्थावरजंगमद्रव्य़ाणि एन्फोर्समेन्ट् डयरक्टरेट् संस्थया सर्वकाराय स्वायत्तीकृतानि।
  ३४कोटि रूप्यकाणां बाङ्कनिक्षेपः, बंगलुरु मुम्बई नररस्थयोः एकैकः वास समुच्चयः, चेन्नैसमीपे ४.५ एकर् परिमिता वाणिज्योपयोगयोग्या भूमिः , कुटक् प्रदेशे २८.७५ एकर् परिमितं काफीक्षेत्रम् इत्यादीनां  द्रव्याणां सर्वस्वदण्डनमेव कारितम्।