OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 24, 2016

स्मार्टसिट्टी पद्धतिः -वर्षत्रयाभ्यन्तरे पूर्तीकरिष्यति - केरळस्य मुख्यसचिवः।
  तिरुवनन्तपुरम् > केरलराज्यस्य स्वप्नपद्धतिः इति व्यवह्रियमाणा कोच्चि स्मार्टसिट्टी पद्धतिः वर्षत्रयाभ्यन्तरे एव पूर्तीकर्तुं सर्वकारः प्रयत्नं करिष्यतीति मुख्यसचिवः पिणरायि विजयः अवदत्। अनया पद्धत्या ३ लक्षं जनेभ्यः उद्योगाय अवसर: दीयते इति पद्धतेः मुख्यसहकारी टीकों संस्थायाः अधिकृतैः उक्तम् इत्यपि मुख्यसचिवेन सूचितम्‌। पिणरायि विजयः तिरुवनन्तपुरे टीकों प्रतिनिधिभिःसह चर्चां कृत्वा  माध्यमप्रवर्तकान् एतत् स्थिरीकृतवान्।

स्त्रीसुरक्षायै अग्रिममासादारभ्य करकविमुक्ता दूरवाणीसंख्या  एका एव।
  तिरुवनन्तपुरम् > स्त्रीसुरक्षायै केरलराज्ये करकविमुक्ता दूरवाणीसंख्या  एका एव। केरलराज्यस्य आरक्षकसहितानां विविधानां विभागानाम् एकोपनेन १८१ इति संख्या अग्रिममासादारभ्य प्रवर्तनसज्जा भविष्यति।भारतराष्ट्रे स्त्रीसुरक्षायै करकविमुक्तदूरवाणीसंख्यायाः एकोपनमिति केन्द्रसर्वकारस्य पद्धतिमनुसृत्यैव इदं परिष्करणम्।

व्ययनियन्त्रणनिर्णयेन सह   पिणरायि सर्वकारः I
तिरुवनन्तपुरम् > केरलराज्ये व्ययनियन्त्रणं लक्ष्यीकृत्य सचिवानां सुरक्षाक्रमीकरणेषु नियन्त्रणम्I राज्यस्तरीयायाः सुरक्षावलोकनसमितेः एव अयं निर्णयः। एतदनुसृत्य सचिवेभ्यः दीयमानेषु मार्गदर्शकवाहनेषु तथा अङ्‌गरक्षकगणेषु च नियन्त्रणं कर्तुं समित्या निर्णयः स्वीकृतः। एतदनुसृत्य भूतपूर्वमुख्यसचिवस्य उम्मन्चाण्टि महोदयस्य सेड् प्लस् सुरक्षा एवं एस्‌ एन् डि पी अध्यक्षस्य वेल्लाप्पल्लि नटेशस्य सुरक्षा च प्रतिनिवर्तयिष्यति ।

परीक्षणकुतुकिनां छात्राणां श्रद्धायै .....
काञ्जिरप्पल्ली > काञ्जिरप्पल्ली समीपे कूवप्पल्यां मार्गात् लब्धं ह्रस्वकालविद्युच्छेखरणोपकरणसदृशं वस्तु उपयुज्य विद्यालये परीक्षणं कृतवन्तः छात्राः स्फोटनेन व्रणिता:। काञ्जिरप्पल्ली साङकेतिकविद्यालयस्थाः चत्वारः छात्राः एव अपघातेन व्रणिताः। मार्गात् लब्धस्य वस्तुनः विद्युन्निर्माणपेटकेन सह बन्धनेनैव स्फोटनं सञ्जातम्।

मेरी कोम् विना रियो ओलिम्पिक्स् मध्ये भारतम्
  नवदहली > भारतस्य ऐतिहासिकक्रीडका मेरी कों रियो ओलिम्पिक्स् मध्ये भागं कर्तुं अयोग्या। मेरी कों लण्टन् ओलिम्पिक्स् मध्ये भारतस्य कृते मुष्टियुद्धे तृतीयस्थानं प्राप्तवती स्म। रियो ओलिम्पिक्स् मध्ये अस्याः कृते वैल्ट्र कार्ड् एन्ट्री द्वारा भागं कर्तुं भारतीयमुष्टियुद्धसंस्थया समर्पितं निवेदनम् अन्तःराष्ट्र ओलिम्पिक्स् समित्या गतदिने तिरस्कृतम्। तथा च प्रतीक्षितमेका कीर्तिमुद्रा नष्टा जाता।