ज्ञानमाधुर्येण सह प्रवेशनोत्सवः; उन्मेषभरिताः राज्यस्य विद्यालयाः; प्रथमकक्ष्यां प्रति लक्षशः शिशवः।
तिरुवनन्तपुरम्:> ग्रीष्मावकाशस्य दीर्घविरामात् परं राज्यस्य विद्यालयेषु अद्य नूतनाध्ययनवर्षस्य उत्साहपूर्णः प्रारम्भः अभवत्। वर्षाबिन्दुभिः वर्णाभछत्रैः सह लक्षशः छात्राः अद्य विद्यालयान् प्रविष्टवन्तः। अक्षराङ्गणं प्रति प्रथमवारं पदन्यासं कृतवन्तः शिशवः मधुरपक्वान्नैः वातगोलकैः (baloon) च अध्यापकैः ज्येष्ठछात्रैः च सादरं स्वागतीकृताः।
तिरुवनन्तपुरस्थ-शासकीय-आदर्श-उच्चतर-विद्यालये आयोजितं राज्यस्तरीय-प्रवेशनोत्सवं मुख्यमन्त्री वि. डि. सतीशन् महोदयः उद्घाटितवान्। सार्वजनिक-शिक्षाविभगस्य मन्त्री एन्. षंसुद्दीन् महोदयः कार्यक्रमे अध्यक्षपदम् अलङ्कृतवान्। अन्ये मन्त्रिणः जनप्रतिनिधयश्च विभिन्नजनपदेषु प्रवृत्तानां प्रवेशनोत्सवानां नेतृत्वम् ऊढवन्तः।