OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 1, 2026

 पाकिस्थानसम्बन्धिनः अष्ट भीकराः दिल्ल्यां निगृहीताः। 

बृहद्भीकराक्रमणाभियोजना भग्ना।

नवदिल्ली> पाकिस्थानस्य गूढान्वेषणसंस्था ऐ एस् ऐ [Inter Service Intelligence] इत्यनया सह संबन्धमानाः अष्ट भीकराः दिल्ली आरक्षकसेनायाः सविशेषसंघेन निगृहीताः। आयुधानि स्फोटकवस्तूनि च एभ्यः संगृहीतानि। 

 ऐ एस् ऐ इत्यस्य साहाय्येन मुम्बैस्थया अधोलोकऋङ्खलया सह संयोज्य दिल्ल्यां तन्त्रप्रमुखक्षेत्राणि सुरक्षा अधिकारिणः च आक्रमितुम् अनेन संघेन परियोजना आसूत्रिता इति आरक्षणाधिकारिभिः प्रोक्तम्। 

 उत्तरप्रदेशः, झार्खण्डः, पञ्चाबः, महाराष्ट्रम् इत्येतानि राज्यनिवासिनः सप्त, एकः नेपालदेशीयः च निगृहीताः भीकराः। राष्ट्र गुप्तान्वेषणसंघस्य सूचनया अनुस्यूतनिरीक्षणस्य अन्वेषणस्य च अन्ते आसीत् एतेषां निग्रहणम्।