OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 25, 2016

सियाल् -विजयाणां गिरिशृङ्गे ।
 कोच्चि > भारतराष्ट्रे सामूहिसहयोगेन निर्मित: प्रथमः व्योमयाननिलयः अनुस्यूतविजयाणां गिरिशृङ्गे।  गते आर्थिकनिर्णयवर्षे संस्थायाः आदायः ५२४.५४ कोटि रूप्यकाणि भवन्ति। अनेन १७५.२२ कोटि रूप्यकाणां लाभः अपि लब्धः। ह्यः संवृत्ते सियाल् निर्देशकसमितेः योगे लाभसंख्याया: २५% निक्षेपकेभ्यः दातुं निर्णयः जातः। केरलस्य मुख्यसचिवः पिणराय विजय: एव सियाल् संस्थायाः अधुनातन मुख्यनिर्देशक: ।

शास्त्रम् अग्रे गच्छत् एव....।
स्टोक्होम् > मलिनीकरणनियन्त्रणेन परिस्थितिसंरक्षणं लक्ष्यीकृत्य स्वीटनमध्ये विश्वस्य प्रथमः विद्युन्मार्गः सज्जः। पूर्णतया विद्युदुपयुज्य क्रमीकृतेन मार्गेण गमनं विजयम् अभवत् । परीक्षणाधारेण निर्मितेन २ कि.मी परिमितेन मार्गेणैव गमनम् अकरोत् एतदर्थं वाहनानि अयोदण्डेषु बन्धयित्‍वा चालनमकरोत्। अन्यानि वाहनानि इव वेगेन गमनम् अनेन अपि शक्तमिति विदग्धा: अभिप्रेतवन्तः।

रेकोर्ड्ड् प्राप्त्या सह धोणिः।
नवदहली > नायकत्वेन अधिकाधिकाः क्रीडाः चालिताः इति रेकोर्ड धोणिना  अपि प्राप्तम्। गतदिने सिम्बाब्वेन सह तृतीये ट्वन्टि ट्वन्टि क्रिकट्क्रीडानन्तरमेव नूतना प्राप्तिः तस्य सञ्जाता। ३२४ क्रीडाः इति आस्ट्रेलिया क्रीडकस्य रिकी पोण्टिङ् महोदयस्य रेकोर्ड सहैव धोणेःविजयप्राप्तिः।  अन्तिमक्रीडायां भारतेन ३ धावनाङ्‌कैः विजय: प्राप्तः आसीत्।

उभयकक्षीबान्धवं मुख्यम् - चैना।
बीजिङ् > आणवसामग्रीवितरणसङ्घे भारतस्य प्रवेशनसम्बन्धे विषये स्वनिर्णयः कठिनः चेदपि भारतेन सह बन्धुता मुख्या एव इति चैनाया: राष्ट्रपतिः षी जिन् पिङ्‌ । ह्यः उस्बकिस्थान् मध्ये ताष्केन्टे सम्पूर्णयोगानन्तरं भाषयन् आसीत् स: । तत्र भारतप्रधानमन्त्रिणा मोदिना सह तस्य चर्चा संवृत्ता च। एन् एस् जि प्रवेशनविषये भारतं विरुद्ध्य निर्णयः स्वीक्रियते चेदपि भारतेन सह उभयकक्षीबान्धवम् अनुवर्तयिष्यतीति तेन सूचितम्।

कोपा अमेरिका पादकन्दुकक्रीडा याम् अनुवर्तनम्‌ 
 परमक्रीडायाम् अर्जन्टीना-चिली च
  षिकागो > ह्यस्तनक्रीडायां चिली २-० इति अंशे कोलम्बियां पराजयित्वा अन्तिमक्रीडायै योग्यतां प्रापयत्। अर्जन्टीना पूर्वमेव अमेरिकां ४-० इति अंशे पराजयित्वा योग्यतां प्रापयति स्म। कोपा अमेरिकायाः गतानुक्रमे अपि एतयोरेव अन्तिमक्रीडा आसीत्। तदानीं चिली अर्जन्टीनां पराजयित्वा किरीटधारणम् अकरोत्। इदानीन्तु मधुरप्रतिकाराय अवसर एव लयणल् मेस्स्याः संघाय लब्धःवर्तते। किन्तु पूर्वतनकिरीटधारणस्य अनुवर्तनायैव अलक्सिस् साञ्चसस्य संघस्य च सज्जीकरणम्। तथा च सोमवारे प्रभाते ५.३० वादने आरभ्यमाणा अन्तिमक्रीडा आवेशभरिता भविष्यतीति सुनिश्चित एव।

अनिल् कुम्ब्ले मुख्यपरिशीलकः।
 मुंबई > भारतीयक्रिकेट्सङ्घस्य मुख्यपरिशीलकत्‍वेन अनिल् कुम्ब्ले चितः। ह्यः मुंबई मध्ये संवृत्ते योगे एव निर्णयः जातः। योगानन्तरम् आहूते वार्तासम्मेलने बि सि सि ऐ अध्यक्ष: अनुराग् ठाकुरः एतत् स्थिरीकृतवान्। ऐतिहासिकक्रिकट्क्रीडक: सचिन् टेण्डुल्कर् , सौरव् गांगुली, वि.वि.एस्. लक्ष्मणः इत्यादयः अन्तर्भूतः समितिरेव कुम्ब्ले महोदयस्य चयनमकरोत्।बौलिङ्,बाट्टिङ् इत्याद्यंशयोः कृते अन्यौ द्वौ परिशीलकौ परं चयनीयौ भवतः। वेस्ट् इन्डीस् पर्यटनमेव नूतन परिशीलकस्य प्रथमं लक्ष्यम् । परिशीलकचयनाय दीर्घा चर्चा एव सम्भूता आसीत्।