मोस्को> रष्यायाः यात्राविमानम् उपरि उड्डीयमानानन्तरम् अप्रत्यक्षमभवत्। सैबीरियायाः प्रान्तप्रदेशे टोम्स्किल् देशे एव विमानम् अप्रत्यक्षमभवत्। अष्टाविंशति जनेभ्यः कृते यात्रासौकर्ययुक्ते विमाने वैमानिकं आहत्य त्रयोदश जनाः आसन् इत्येव सूचना। अप्रत्यक्षं विमानं विचेतुं परिश्रमः आरब्धः। विमाने सप्तदश जनाः आसन् इत्येव प्रादेशिकमाध्यमैः प्रथमम् आवेदितम्। दशदिनेभ्यः पूर्वं रष्यायां अष्टाविंशतिजनैः सहितं यात्राम् आरब्धं विमानं समुद्रे पतित्वा भग्नम् आसीत्। भूमौ अवरोहणात् दशकिलोमीट्टर् दूरे एव अन्टोनोव् ए एन् -२६ नाम विमानेन सह आशयविनिमयः विनष्टः अभवत्। अनन्तरं विमानं भग्नमभवत् इति विदितमभवत्।
OUR YouTube Channel 1. SampratiVartah |
marquee
Saturday, July 17, 2021
अन्ताराष्ट्रिय संस्कृतदिनाचरणम् | संस्कृताभियानम् २०२१।
छात्राणां विभिन्नप्रस्तुतयः
Download Notification Registration
Notification No: INSD17/07/2021
अन्ताराष्ट्रिय संस्कृत-दिन-महोत्सवानुबन्धितया सम्प्रतिवार्तया संचाल्यमानं "संस्कृताभियानं २०२१" इति नाम्ना एकम् अन्तर्जालप्रसारणम् (www.samprativartah.in मध्ये web casting) आयोक्ष्यते। तस्मिन् विद्यालयछात्रान् संस्कृताभिमुखान् कर्तुं छात्राणां विभिन्नप्रस्तुतयः श्रव्य-दृश्य-सुभगाः कार्यक्रमाः आयोक्ष्यन्ते।तदर्थं छात्रैः वा विद्यालयैः वा तेषां वीडियोखण्ड: Email अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्। पञ्जीकरण-संख्या शिक्षकस्य वाट्साप् मध्ये लप्स्यते। प्रसारणाय कार्यक्रमः स्वीक्रियते चेत् ऑण्लैन् प्रमाणपत्रम् दीयते च।
संस्कृत-कार्यक्रमाणां विवरणम्- निर्देशाः च।
१. भागयोग्याः संस्कृतकार्यक्रमाः
1. कवितोच्चारणं, 2. गानालपनं, 3. लघुभाषणं, 4. एकाभिनयः, 5. अभिनयगानालापनं (१२ वयस्कपर्यन्तेभ्यः), 6. कथाकथनम्, 7. शब्दानुकरणं, 8. हास्यकणिकावतरणं, 9. नृत्तादिप्रदर्शनं इत्येते श्रव्य-दृश्य-सुभगाः कार्यक्रमाः।(समयः 60-90 Sec.)
२. पञ्जीकरणम्
1. पञ्जीकरणाय अन्तिमतिथिः 2021 July 23 .
निःशुल्क-पञ्जीकरणसूत्रम् ( Link https://forms.gle/7p47RvPwJbVDgNUP9)
2. छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्
(पञ्जीकरण-संख्या २४ होराभ्यन्तरे शिक्षकस्य वाट्साप् मध्ये लप्स्यते।
Each School Can Submit only Three Entries
Each Sanskrit student can participate in one event only.
३. वीडियोखण्डस्य छायाग्रहणम्
1. एकैकः कार्यक्रमः ६० क्षणतः ९० क्षणं यावत् परिमितं भवतु।
2. चलदूरवाणीद्वारा संगृहीतं वीडियोखण्डम् तद्वदेव प्रेषणीयम्। (वीडियो Editing मास्तु )
3. वीडियोखण्डः गुणेन प्रसारणाय योग्यः भवेत्। ( High Quality )
4. वीडियोखण्डः तिरश्चीनतया (horizontal) संगृहीतः भवेत्
४. वीडियोघण्डस्य प्रेषणम्
1. विडियो प्रेषणाय अन्तिमतिथिः 2021 July 29
2. छात्रैः वा विद्यालयैः वा तेषां वीडियोखण्ड: E-mail अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।
(E-mail samprativartah@gmail.com Or
Telegram App No: +919400417084)
3. वीडियोखण्डेन सह 1. Registration No:, 2 Name of student, 3 Age, 4 Name of School, 5 State, 6 Country च लेखनीयम्।
___________________________________
Friday, July 16, 2021
दक्षिणाफ्रिक्काराष्ट्रे भारतीयान् प्रति आक्रमणम्। भारतेन आशङ्का आवेदिता।
जोहानस्बर्ग> दक्षिणाफ्रिक्कादेशे भारतीयान् तथा भारतीयवंशजान् प्रति जायमानेषु आक्रमणेषु भारतसर्वकारेण आशङ्का आवेदिता। दक्षिणाफ्रिक्कायाः विदेशकार्य-मन्त्रिणा नलेदि पान्डोरेण सह भारतीयविदेशकार्यमन्त्री डो. जयशङकरः आशयविनिमयः कृतः।
दक्षिणाफ्रिक्कायाः पूर्वराष्ट्रपतिः जेक्कब् सुमा कारागृहे बन्धितः अभवत्। अस्मिन् सन्दर्भे एव तस्य अनुयायिनः आक्रमणम् आरभत। सर्वकारेण शान्तिं पुनस्थापयितुं परिश्रमः आरब्धः इति दक्षिणाफ्रिक्काराष्ट्रस्य विदेशकार्यमन्त्रिणा उक्तम् इति जयशङ्करः अवदत्। न्यायालयालक्ष्यम् इति दोषं कृतवान् इत्यतः एव तस्मै पञ्चदशमासपर्यन्तं कारागारे बन्धनम् अलभत।
Thursday, July 15, 2021
एष्यायां भारतम् अतिक्रम्य कोविडस्य तापबिन्दुः भूत्वा इन्डोनेष्या।
प्रतिदिनं ४०,००० अधिकजनाः रोग बाधिताः।
जक्कार्ता> इन्डोनेष्याराष्ट्रे कोविड् रोगिणां प्रतिदिनसंख्या वर्धते। इतःपर्यन्तं ४०,००० उपरि एव प्रति दिनरोगिणां संख्या। नूतनतया दृढीकृतेषु बहुषु अतिव्यापनक्षमः डेल्टा विभेदः एव अधिकतया दृश्यते। इत्थं इन्डोनेष्या प्रतिदिनरोगिणां वर्धितसंख्यया भारतम् अतिक्रम्य एष्याभूखण्डे कोविडस्य तापबिन्दुः (hot spot) अभवत्। गतसप्ताहादारभ्य भारते प्रतिदिन-कोविड्रोगिणां संख्या ४०,०००तः न्यूना एव। द्वितीयतरङ्गे अतिरूक्षे अनुवर्तिते प्रतिदिनं चर्तुलक्षाधिकरोगिणः भारते आसन्। जून् मासस्य अन्तिमचरणे रोगिणां संख्या न्यूना अभवत्। इन्डोनेष्यायां रोगव्यापनमानं वर्धमाने सन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र नियन्त्रणानि अतिशक्तानि अकुर्वन्।
केरलेषु कोयिलाण्टिदेशे रेल्यानस्योपरि केरवृक्षः पतितः। गमनागमनं भागिकतया स्थगितम्।
कोष़िक्कोट्> कोयिलाण्टिदेशसमीपं रेल्यानस्योपरि केरवृक्षः पतितः। सायंकाले पादोनषट्वादने एव घटना एषा संवृत्ता। कोयिलाण्टि-तिक्कोटिदेशयो: मध्ये एव अपघातः जातः। अनन्तपुर्याः मंगलापुरं प्रति गच्छतः नेत्रावती एक्स्प्रस् नाम रेल्यानस्योपरि एव केरवृक्षः पतितः। जनानाम् अपघातो वा जीवापायो वा न अभवत्। रेल्यानगमनागमनं भागिकतया स्थगितम्। यानयन्त्रस्य हानिः अभवत् इत्यतः कोषिक्कोट् नगरारात् नूतनं यन्त्रम् आनाय्य पुनः सन्निवेश्यानन्तरमेव यात्रां पुनरारब्धुं शक्यते इति रेल्-अधिकारिणा आवेदितम्। वैद्युतिबन्धं विच्छिद्य केरवृक्षं कर्तयितुं परिश्रमः अनुवर्तते।
Wednesday, July 14, 2021
श्रीराम नाम्नि व्योमनिलय:, आध्यात्मिकवनं, क्रूस् सेवा, इत्यादिभिः सह अयोध्याविकासयोजना।
नवदिल्ली> विश्वस्य प्रथमवेदनगरी इति स्वप्नेन सह अयोध्याविकासयोजना प्रधानमन्त्रिणः नरेन्द्रमोदिनः समक्षं समर्पिता। विश्वोत्तरविमान-निलयं, रेल्याननिस्थानकं, श्रीरामस्य वनवासकालचित्रितं रामायण- आध्यात्मिकवनम् इत्यादिभिः सम्पन्ना अतिविशाला भवति एषा योजना। विमानपत्तनं मर्यादापुरुषोत्तम श्रीरामविमाननिलयं इति नाम्ना भविष्यति। अयोध्यां प्रति यानमार्गाः चतुश्रेणीरूपेण षट्श्रेणीरूपेण च राष्ट्रिय- राजमार्गत्वेन परिवर्तयिष्यति। अयोध्यानगरं परितः पञ्चषष्ठिकिलोमीट्टर् दैर्ध्ययुक्तस्य अयोध्यावलययानमार्गस्य (Ayodhya Ring road) निर्माणदायित्वं भारत-राष्ट्रिय -राजमार्ग-प्राधिकरणेषु (national highway authority of India) निक्षिप्तं भवति। अतिश्रद्धेयं तथा अतिविशिष्टम् इति मात्रं वक्तुं शक्यते सरयूतीरस्थं रामायणआध्यात्मिकवनम्। रामस्मृतिवनम् इति योजनाया नाम दत्तम्। अत्र रामस्य सीतायाः लक्ष्मणस्य च चतुर्दशसंवत्सरवनवासस्य सचित्राविष्कारः प्रदर्शशशदष्यति। १२०० एक्कर् विस्तृता वेदनगरीयोजना च अस्मिन् अन्तर्भविष्यति। तत्र आश्रमाः पञ्चनक्षत्रभोजनालयाः च अन्तर्भविष्यन्ति। एवं भारतीयेतिहासविशेषं रामायणं वनरूपेण नूतनपरम्परायाः समक्षं साक्षात्कारमेष्यति ।
Tuesday, July 13, 2021
इराक् राष्ट्रस्थे आतुरालये अग्निबाधया पञ्चाशदधिकजनाः हताः।
बाग्दाद्> इराक् राष्ट्रस्थे आतुरालये कोविड्रोगिणां एकान्तवासकक्ष्यासु जातासु अग्निबाधासु रोगिणः दग्धाः मारिताः च। दक्षिणनगरस्थे नासिरियादेशे अल्हुसैन् आतुरालये एव अग्निबाधा जाता। पञ्चाशदधिकजनाः मारिताः इति आवेदनम् अस्ति। बहवः जनाः व्रणिताश्च। सोमवासरे रात्रौ एव अग्निः नियन्त्रणविधेयः अभवत् इति अधिकृतैः आवेदितम्। केचन रोगिणः अधुना अपि कक्षायां निबद्धाः अस्ति इति आवेदनमस्ति। अतिधूमः रक्षाप्रवर्तनाय विघातः अभवत्।
अग्निबाधायाः कारणम् अज्ञातमस्ति। प्राणवायुसंभरण्याः स्फोटनमिति प्राथमिकनिगमनम् अस्ति। घटनायाः पश्चात् इराक्कस्य प्रधानमन्त्रिणा मुस्तफा अल्कादिं महोदयेन उन्नतमन्त्रिभिः साकं चर्चा कृता।
Monday, July 12, 2021
तृतीयतरङ्गः झटित्येव भविष्यति। नियन्त्रणेषु अवधानता भवतु। विनोदयात्रागमनं तीर्थाटनं च इदानीं मास्तु -भारतीयभैषज्यदलस्य पूर्वसूचना।
नवदिल्ली> राष्ट्रम् कोविडस्य तृतीयतरङ्गम् अभिमुखीकर्तुं सज्जमाने अस्मिन् सन्दर्भे केन्द्र-राज्यसर्वकाराः कोविडस्य प्रतिरोधप्रवर्तनेषु अनवधानता न करणीया इति भारतीयभैषज्यदलेन (IMA) निर्दैशो दत्तः। रोगव्यापनस्य निर्णायकसन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र अधिकारिणः नागरिकाः च कोविडस्य प्रतिरोधनियमपालनविषये प्रदर्शितेषु अनवधानतासु भारतीयभैषज्यदलेन आशङ्का प्रकाशिता। आगोलतलेषु लभ्यमानानि प्रमाणानि तथा पूर्वकालचरितं च आलोकयति चेत् यस्याः कस्याः अपि वा भवतु महामार्याः तृतीयतरङ्गः सुनिश्चितः भवति। राष्ट्रस्य विविधभागेषु सर्वकाराः नागरिकाः च कोविडस्य प्रतिरोधनियमान् लङ्घयित्वा परस्परमेलनं कुर्वन्ति। तत् आपत्करं भवति इति भारतीयभैषज्यदलेन पूर्वसूचना दत्ता।
Sunday, July 11, 2021
अफ्गान् देशे तालिबानस्य अधिनिवेशः। भारतेन ५० नयतन्त्रकार्यकर्तारः प्रत्यानीताः।
नवदिल्ली> अफ्गानिस्थाने काण्डहारे दूतावासतः ५० भारतीय-नयतन्त्रज्ञाः सुरक्षाकार्यकर्तारः च प्रत्यानीताः। व्योमसेनायाः विमानेषु एव ते प्रत्यानीताः॥ काण्डहारदेशं परितो विद्यमानाः प्रदेशाः च तालिबानेन स्वायत्तीकृतस्य पश्चात् एव भारतस्य प्रक्रमः। काबूलदेशस्थं नयतन्त्रकार्यालयं तथा काण्डहारं, सोल् ई षेरीफ् इत्यादि देशस्थान् दूतावासान् च पिधातुम् उद्देशः नास्ति इति चतुर्भ्यः दिनेभ्यः पूर्वं भारतेन निगदितम् आसीत्। ततः पश्चात् शनिवासरे एव नयतन्त्रज्ञान् प्रत्यानीतवन्तः। अफ्गानिस्थाने सर्वत्र प्रसरितेन आतङ्कप्रवर्तनेन सञ्जाताम् अरक्षितावस्थां भारतं ससूक्ष्मं निरीक्ष्यमाणम् अस्ति। तत्रस्थानां भारतीयकर्मकराणां तथा भारतीयनागरिकाणां च संरक्षणार्थं प्रक्रमाः स्वीकृताः इति अधिकारिणः वदन्ति। नयतन्त्रज्ञान् तथा अन्यकर्मकरान् सुरक्षाकार्यकर्तॄन् च नवदिल्लीं प्रत्यानीते दूतावासाः अनिश्चित-कालपर्यन्तं पिहिताः।
कोप्पा चषकः अर्जन्टीनायै।
मारक्काना (ब्रसील्)> कोप्पा अमेरिक्का पादकन्दुक-क्रीडापरम्परायाः स्वप्नसमानान्त्य-क्रीडायां चरित्र-परिसमाप्तिः। ब्रसीलदलम् अप्रतिरुद्धेनैकेन लक्ष्यकन्दुकेन पराजित्य लयणल् मेसि नामकस्य नायकस्य नेतृत्वे विद्यमानः अर्जन्टीनादलः विजयीभूतः। एय्जल् डि मरिया नामकः लक्ष्यकन्दुकं प्राप्तवान्। 28 संवत्सराणामन्तरालानन्तरमेव अर्जन्टीनादलस्य कश्चन किरीटप्राप्तिः इत्येतत् कोप्पा अमेरिक्का पादकन्दुकक्रीडापरम्परायाः चरित्रपरिसमाप्तिः।
Saturday, July 10, 2021
वैद्यकुलपतिः डो. पि के. वार्यर् महाभागः दिवङ्गतः।
कोट्टक्कल्> आयुर्वेदशास्त्रस्य वैद्यकुलपतिः तथा कोट्टक्कल् आर्यवैद्यशालायाः प्रबन्धन्यासधारी अङ्गः डो. पि के वार्यर् महाभागः (१००) दिवङ्गतः। शनिवासरे मध्याह्ने स्वभवने कैलासमन्दिरे एव अन्त्यः अभवत्। जूण् मासस्य अष्टमे दिने तस्य शततमजन्मदिनमासीत्।१९९९ तमे वर्षे पद्मश्री पुरस्कारेण तथा २००१ तमे वर्षे पद्मभूषणपुरस्कारेण च एषः समादृतः आसीत्। आयुर्वेदः न केवलं रोगचिकित्सारीतिः किन्तु तस्मिन् जीवनस्य प्रकाशः अप्यस्ति इत्यासीत् कर्मयोगिनः अस्य विश्वासः। विश्वमानवोऽयम् आयुर्वेदशास्त्रे मानविकतायाः रूपं परिकल्पयन् आविश्वं शास्त्रमिदं प्रचारयामास।
मलप्पुरं जिल्लायां कोट्टक्कल् ग्रामे मध्यवर्तीकुटुम्बे १९२१ तमे वर्षे जूण् मासस्य पञ्चमे दिने एव पन्यंपिल्लि कृष्णन्कुट्टिवार्यरः जनिमलभत। तस्य पिता श्रीधरन् नम्पूतिरिः, माता कुञ्ञिवारस्यारः च आस्ताम्। कोट्टक्कल् राजास् उच्चविद्यालये एव सः अध्ययनं कृतवान्। वैद्यरत्नं पि एस् वार्यर् आयुर्वेदकलालयात् वैद्यवेदम् अधीतवान्। एषः कलालयः एव आर्यवैद्यपाठशाला इति नाम्ना विख्यातः अभवत्। १९४२ तमे वर्षे एषः महाभागः स्वातन्त्र्यसंग्रामेषु आकृष्टः सन् तस्य भागमभवत्। तस्य स्मृतिपर्वं नाम आत्मकथायै केरलसाहित्य-अक्कादमीपुरस्कारः च लब्धः। तस्य प्रवर्तनानि पुरस्कृत्य वैद्यरत्नम् इति पदवीं अपि दत्वा सः समादृतः।
राष्ट्रे प्राणवायोः दौर्लभ्यपरिहाराय १५०० नूतन -प्राणवायुरुत्पादक-केन्द्राणि स्थाप्यन्ते - प्रधानमन्त्री नरेन्द्रमोदी।
नवदेहली> राष्ट्रे कोविडस्य स्थितिम् अवलोकयितुं प्रधानमन्त्रिणः नेतृत्वे उन्नतस्तरयोग: समभवत्। तृतीयतरङ्गसाध्यतां परिगणय्य कोविडस्य इदानीन्तनीया अवस्था, तथा औषधीयप्राणवायो: लभ्यता च योगे चर्चिता। प्रधानमन्त्रिणः रक्षाधनसाहाय्येन राष्ट्रे सर्वत्र १५०० पि एस् ए प्राणवायुरुत्पादककेन्द्राणि सज्जीकरिष्यमाणा सन्ति इति योगे कार्यकर्तारः प्रधानमन्त्रिणं प्रति आवेदितवन्तः। एतस्मात् उत्पादककेन्द्रात् ४००००० प्राणवायुतल्पस्य कृते आवश्यकः प्राणवायुं वितरितुं शक्यते। शीघ्रातिशीघ्रं पि एस् ए प्राणवायुरत्पादककेन्द्राणि प्रवर्तनयोग्यानि करणीयानि इति प्रधानमन्त्रिणा कार्यकर्तारं प्रति निर्देशो दत्तः।
Friday, July 9, 2021
अगाधप्लवनवापी दुबाय् देशे उद्घाटिता।
दुबाय् > विगाहनार्थं विश्वे डीप् डैव् नामिका (अगाधनिमज्जनं) प्रथमा अगाधप्लवनवापी दुबाय् देशे उद्घाटिता। दुबाय् अधिकारी शैख् हंदान् बिन् मुहम्मद् बिन् राषिद् अल् मक्तुं महोदयेन डीप् डैव् नामकस्य अगाधप्लवनवाप्याः उद्घाटनकर्म निरवहत्। दुबाय् माध्यमसंस्थायाः अध्यक्षः अहम्मद् बिन् मुहम्मद् बिन् राषिद् अल् मक्तुम् अपि कार्यक्रमे उपस्थितः आसीत्। नाद् अल् षेबा परिसरे स्थिता डीप् डैव् वाप्यां ६० मीट्टर् अधिकतया अगाधे अवगाहनं कर्तुं शक्यते। १.४ कोटि लिट्टर् मितं जलं संभृतं वर्तते अस्मिन्। षट् ओलिम्पिक् वाप्याः तुल्यं भवति डीप् डैव्। नूतन साङ्केतिक-विद्यायुक्त-सुविधा अपि वाप्याम् आविष्कृता अस्ति।
Thursday, July 8, 2021
दुबाय् राष्ट्रे जबल् अलि नौकाश्रयः अग्निना बाधितः।
दुबाय्> दुबाय् राष्टे जबल् अलि नौकाश्रये अतिरूक्षा अग्निबाधा सञ्जाता। नौकाश्रये स्थगितायां महानौकायाम् एव अग्निः बादितः। अर्धरात्रौ द्वादशवादने आसीत् एषा घटना। सिविल् डिफेन्स् संघः आगत्य अग्निं निर्वापयत्। कस्यापि जनस्य अपघातः न अभवत् इति दुबाय् माध्यमकार्यालयेन आवेदितम्।
संस्कृतकक्ष्यायाः प्रसारणम् अपि भवतु -छात्रैः प्रार्थना प्रकाशिता।
Wednesday, July 7, 2021
सुरक्षाभीषा- अफ्गानतः भारतस्य सर्वकारीयकर्मकराणं प्रतिनिवृत्तिः भविष्यति।
Tuesday, July 6, 2021
कोविडस्य तृतीयतरङ्गस्य आरम्भः आगस्त् मासस्य मध्ये भविष्यति -एस् बि ऐ
कोविडस्य तृतीयतरङ्गस्य आरम्भः आगस्त् मासस्य मध्ये भविष्यति इति एस् बि ऐ अनुसन्धानेन आवेद्यते। सेप्तम्बर् मासे तृतीयतरङ्गः उच्चावस्थां प्राप्नोति इति सोमवासरे प्रकाशिते आवेदने सूचयति। द्वितीयतरङ्गस्य समापनात् पूर्वं तृतीयतरङ्गः आगस्त् मासे समारभ्यते इत्येव प्रवचनम्। वाक्सिनीकरणमेव रक्षणोपायः इति आवेदनं सूचयति। भारतीयजनसंख्यायाः प्रतिशतं २०.८ जनाः भागिकतया वाक्सिनीकृताः। प्रतिशतं ४.६ जनाः पूर्णतया वक्सिनीकृताः। अन्यराष्ट्रापेक्षया एषा गणना अतीव न्यूना भवति। अमेरिक्कादेशे प्रतिशतं ४७.१ , यु के देशे प्रतिशतं ४८.७, इस्येल् देशे प्रतिशतं ५९.८, स्पेयिन् देशे प्रतिशतं ३८.५, फ्रान्स् देशे प्रतिशतं ३१.२ जनाःच पूर्णतया वाक्सिनीकृताः।
वैदिकः स्टीन् स्वामी आरक्षकाधीने निर्यातः।
मुम्बई> 'भीमा कोरेगाव्' प्रकरणे उपधां प्रतीक्ष्यमाणः वैदिकः स्टान् स्वीमीति प्रसिद्धः मानवाधिकारप्रवर्तकः आरक्षकावेक्षणे मृतः। ८४ वयस्कः आसीत्। तस्य स्वास्थ्यसम्बन्धविषयान् आलक्ष्य समर्पितायाः प्रातिभाव्ययाचिकायाः वादश्रवणवेलायामेव अन्त्यमभवत्। कोविड्बाधितः सः बान्द्रस्थे निजीयातुरालये उपचर्यायामासीत्।
वनवासिनाम् अधिकारसंरक्षणाय समर्पितजीवितः जस्यूट् पुरोहितः सः मावोवादिसंबन्धारोपणेन ओक्टोबर्मासे राञ्चीतः देशीयान्वीक्षणविभागेन [ऐ एन् ए] निगृहीतः आसीत्। यू ए पि ए अपराधमारोप्य तं कारागारं प्राविशत् च।
स्वामिनः आकस्मिकमरणे संक्षोभं शोकं च प्रकटितवान् नीतिपीठः अन्तरपदक्षेपान् स्वीकृत्य मृतदेहं स्वामिनः सहप्रवर्तकेभ्यः प्रदातुं निरदिशत्।
Monday, July 5, 2021
कालिफोर्णियादेशे दावाग्निः व्याप्यते। ४०००० एक्कर् अधिकभूमिः अग्निसादभवत्।
लोस् आञ्जलोस् > कालिफोर्णियादेशे दावाग्निः अतिरूक्षतया व्याप्यते। एतदभ्यन्तरे दक्षिणकालिफोर्णियेषु ४०००० एक्कर् अधिकभूमौ दावाग्निः व्याप्तः इति आवेदनम् अस्ति। मुख्यतया त्रिविधाः दावग्नयः एव व्याप्यन्ते इति आवेदनानि सूचयन्ति।
सिस्कियु कौण्डी प्रदेशे जून् मासस्य २४ दिने समारब्धे आग्नेयोद्धारे ( Lava fire)२४,४६० एक्कर् अधिकभूमिः अग्निसादभवत् इति सिन्हुवा वार्तासंस्थया आवेदितम्। अग्निव्यापनहेतुना अधिकारिभिः सहस्राधिकजनाः अन्यत्र नीताः।
षार्जाराष्ट्रे गर्जूरफलमहोत्सवः
षार्जा> षार्जादेशे गर्जूरफलमहोत्सवस्य समारम्भः। अल्जुबैल् विपण्यां एव बहुविधगर्जूरफलानां प्रदर्शनं तथा विक्रयणं च प्रचलति। गर्जूरफलोत्पादनस्य विक्रयणस्य च प्रोत्साहनाय एव एषःमहोत्सवः समायोजितः। प्रतिसंवत्सरं प्रचलतः गर्जूरफलविक्रयणमेलां द्रष्टुं भागं स्वीकर्तुं च विविधदेशेभ्यः बहवः सन्दर्शकाः आगच्छन्ति। सविशेषगुणयुक्ताः गर्जूरभेदा: मेलायां प्रदर्शयन्ति। खलास्, खनी सि, शिशि, बर्हि, अर्सिसास्, नगाल्, बामिल्, बुमान् सुल्तान् इत्यादयः विभागाः षार्जाराष्ट्रे लप्स्यते ।
रंकेला, अम्रपाली, लांग्र, लख्नौ, सफेद आदयाः एकस्मिन्नेव आम्रवृक्षे १२१ जातिविशेषाणि आम्रफलानि फलन्ति।
उत्तरप्रदेशः> एकस्मिन्नेवआम्रवृक्षे १२१ विशेषभेदयुक्तानि आम्रफलानि फलन्ति। उत्तरप्रदेशे सहारन्पुरे एव बहुविधाम्रफलयुक्तः एषः आम्रवृक्षः वर्तते। नूतनरुचिभेदयुक्तानाम् आम्रफलानाम् उत्पादनार्थं गवेषकैः कृतानां परिश्रमाणां फलमेव पञ्चदशवयोयुक्तः एषः अद्भुतवृक्षः।
आम्रफलानां नाम्नि बहुकालात् पूर्व विख्यातं प्रदेशं भवति सहारन्पुरम्। पञ्चसंवत्सरात् पूर्वमेव नूतनानि आम्रभेदानि उत्पादयितुं परिश्रमाणि समारब्धाणि इति सहान्पूर् होर्टिकल्चर् आन्ट् ट्रेयिनिङ् सेन्टर् संस्थायाः उपनिर्देशकेन भानुप्रकाशरामेण उक्तम्। पञ्चवर्षात् पूर्वं तदानींतन उपनिर्देशकेण राजेश् प्रसादेन एव १२१ विविधभेदयुक्ताः आम्रशाखाः एकस्मिन् आम्रवृक्षे सन्निवेश्य संयोजितः। सामान्यजनानामपि एतादृशरीत्या आम्रवृक्षान् संवर्धयितुं शक्यते इति भानुप्रकाशेन उक्तम्। रांकेल, आम्रपाली, लांग्र ,लख्नौ, सफेद, सहारन्पूर् अरुण्, सहारन्पूर् वरुण्, सहारन्पूर् राजीव्, सहारन्पुर् सौरभ् इत्यादीनि प्रसिद्धानि आम्रफलविशेषाणि आम्रवृक्षे सञ्जायमानानि सन्ति।
शङ्करः गजनियमान् पठितवान्। अद्य गजावासात् बहिर्गमिष्यति।
ऊट्टी/तमिल्नाडु> ऊट्टीदेशे गुडल्लूर् तथा पन्तल्लूर् भागेषु भीतिं जनयन् अटन्तः शङ्करनामकःगजः इदानीं नियमाभ्यासेन सुशीलः जातः। मुतुमलायां अभयारण्ये प्रत्येकं सज्जीकृते गजावासे वसन्तः सः अद्य बहिरागतः। पन्तल्लूर् देशे एकस्मिन् कुटुम्बे मातापितरौ पुत्रं च हत्वा पराक्रमं कृतः शङ्करः बहुदिनस्य प्रयत्नेनैव उन्मादसूचीप्रयोगेण पातयित्वा संगृहीतः। प्रशिक्षितगजानां साहाय्येन गजावासे बन्धितं तं गजसङ्केतस्थाः भिषग्वराः तथा कर्मकराः च सविशेषश्रद्धां दत्वा अपालयत्। मारि नामकस्य गजपालकस्य नेतृत्वे गजनियमाः तम् अपाठयत् च।
Sunday, July 4, 2021
सुतार्यतायाः बृहत्पदक्षेपः। मुखपुस्तिका, गूगिल् इत्यादि सामूहिकमाध्यमान् अभिनन्दयन् केन्द्रमन्त्री।
नवदेहली>सर्वकारस्य नूतन-सूचना -प्रौद्योगिक-विद्या-नियमानां प्रबलानन्तरं गूगिल्, मुखपुस्तिका, इनस्टग्राम् इत्यादिषु सामूहिकमाध्यमेषु निन्दारुपेण प्रसारितानां सन्देशानां निर्मार्जनं सुतार्यतायाः पदक्षेपः इति केन्द्रमन्त्रिणा रविशङ्कर् प्रसादेन निगदितम्। गूगिल्, मुखपुस्तिका, इन्स्टग्राम् इत्यादीनि माध्यमानि स्वपुटात् निन्दारूपेण प्रसारिताः सन्देशाः निर्मार्जिते सन्दर्भे एव प्रसादेन एवम् उक्तम्। तैः प्रकाशितानि प्रकोपनपराणि सन्देशानि नूतन -सूचनाप्रौद्योगिक-विद्यानियममनुसृत्य निर्मार्जनं सुतार्यतायाः पदक्षेपः भवति इति केन्द्रमन्त्रिणा रविशङ्करप्रसादेन ट्वीट् कृतम् ।
कोवाक्सिनं ७७.८% फलप्रदमिति निर्मातारः।
हैदराबादः> कोविडं प्रति कोवाक्सिनं नामकं प्रत्यौषधं ७७.८% फलप्राप्तिं प्रदास्यतीति भारतबयोटेक् नामकनिर्माणसंस्थायाः अधिकारिभिः स्पष्टीकृतम्। इदानीं बहुव्याप्यमानं 'डेल्टा'प्रभेदं विरुध्य कोवाक्सिनं ६५.२% संरक्षणं दास्यति। तीवल्रक्षणयुक्तं कोविडं विरुध्य प्रतिशतं ९३.४ च संरक्षणदायकं वर्तते।
कोवाक्सिनस्य तृतीयस्तरवैद्यकीयपरीक्षणानाम् [Clinical Experiments] आधारेणैव अयमधिकारवादः। किन्तु एतत्परीक्षणफलं समानमण्डलस्थैः इतरगवेषकैः अङंगीकर्तव्यं वर्तते।
राष्ट्रेषु २५ आतुरालयेषु २५,८०० रुग्णेषु नवम्बर् १६ -जनवरि ७ दिनाङ्काभ्यन्तरे आसन् तृतीयस्तरपरीक्षणानि विधत्तानि। कोवाक्सिननिर्माणाधिकारिभिः स्पष्टीकृतं यत् केवलं १२ जनेष्वेव पार्श्वफलानि दृष्टानि।
Saturday, July 3, 2021
पञ्च भीकराः सुरक्षासेनया हताः। एकः सैनिकः वीरमृत्युं प्राप्तवान्।
श्रीनगरम्> जम्मु काश्मीरे पुल्वामा जनपदे शुक्रवासरे सम्पन्ने प्रतिद्वन्द्वे पञ्च लष्कर् ई तोय्बा भीकराः सुरक्षाभटैः हताः। कश्चन भटः वीरस्वर्गं गतवान् च।
जनपदस्थे हन्जिन् नामकग्रामे भीकराणां सान्निध्यमस्तीति सूचनया प्रदेशं प्राप्तं सैनिकयूथं प्रति निलीयमानाः भीकराः भुषुण्डिप्रयोगं कृतवन्तः आसन्। आक्रमणे तीव्रेण व्रणितः सैनिकः आतुरालयं प्रवेशितः अपि प्राणरक्षा न साधिता। अधिकाः भटाः प्रदेशं प्राप्य कृते प्रत्याक्रमणे ५ भीकराः मृताः।
लष्कर् ई तोय्बा संघटनस्य जनपदाधिकारी निषास् लोण् इत्याख्यः मृतेषु अन्तर्भवति। अन्यः कश्चन पाकिस्थानीयः इति सूच्यते।
कानडादेशे उष्णतरङ्गेण जातेन अतितापेन चतुस्त्रिंशदधिकशतं जनाः मृताः। दावाग्निः अपि राष्ट्रे नाशं वितनोति।
ओट्टाव> कानडादेशे उष्णतरङ्गहेतुना जातेन अतितापेन साकं दुरितं वितीर्य दावाग्निः अपि व्याप्यते। गतदिने ब्रिट्टीष् कोलम्बियाप्रविश्यायां ६२ स्थानेषु दावाग्निः आवेदितः। अग्निव्यापनं परिगणय्य पश्चिमकानडाप्रदेशे सहस्राधिकजनाः अन्यत्र नीताः। वान्कोवर्प्रदेशस्य पूर्वोत्तरभागे २५० किलोमीट्टर् दूरस्थः एकः ग्रामः वर्तते तत्र प्रतिशतं ९० मितं समीपप्रदेशाः च दावाग्निना पूर्णतया दग्धाः अभवन् लिट्टन् प्रान्तेषु दावाग्निव्यापनम् अतिरूक्षतया वर्तते। आगामि दिनद्वयोः अपि राष्ट्रे पूर्वाधिकतापः अनुवर्तिष्यते इति कानडदेशस्य परिस्थितिविभागेन पूर्वसूचना दत्ता।
यूरो चषकः - इट्टली- स्पेयिन् पूर्वान्त्यस्पर्धा।
रोम् >गतरात्रौ सेन्ट्पीटेर्स् बर्ग् क्रीडाङ्कणे सम्पन्ने प्रथमचतुर्थांशस्पर्धायां स्पेयिनदलः विजयीभूतः। प्रतियोगिनं स्विट्सर्लान्ट् दलं 'षूटौट्'नामके लक्ष्यकन्दुकक्षेपणे ३ - १ रीत्या पराजित्य एव स्पेयिनः पूर्वान्त्यचक्रं प्राविशत्। क्रीडायाः निश्चितसमये १ - १ इति लक्ष्यकन्दुकस्थितौ समतापरिपालनमेव षूटौट् नीतम्। अद्य प्रत्यूषे सम्पन्ने इट्टली - बल्जियं प्रतिद्वन्द्वे इट्टलीदलः विजयपदं प्राप्तवान्।
Friday, July 2, 2021
आयुर्वेदस्य मूख्यलक्ष्यं स्वस्थस्य स्वास्थ्यसंरक्षणम्- प्रो. मेधावीलालशर्मा
उदयपुरम्> विश्व -संस्कृतप्रतिष्ठान -राजस्थानम् -उदयपुरेण "वर्तमानपरिप्रेक्ष्ये आयुर्वेदस्य भूमिका" इति विषयमाधृत्य संस्कृतविदुषः डा. शक्तिकुमारशर्माणः स्मृतौ व्याख्यानमालारूपेण ओनलाइन-माध्यमेन संगोष्ठी आयोजिता| अस्यां व्याख्यानमालायां डा. राधाकृष्णन राजस्थान - आयुर्वेद-विश्वविद्यालयस्य मौलिकसिद्धान्त - संस्कृतविभागे सहाचार्यपदम् अलंकुर्वती डा. मोनिकावर्मामहोदया मुख्यवक्त्री आसीत्| डा. वर्मा अकथयत् यत् साम्प्रतं विप्लवकालः| नास्ति कश्चन संदेहः यत् विज्ञानस्योन्नत्या सममेव पर्यावरणप्रदूषणम् , आधयः,व्याधयः,सामाजिकापचाराः अपि वर्धिताः| अस्यां शृखलायां महारोगः कोविड -19 अप्यस्ति| यदा रोगस्य चर्चा भवति आयुर्वेदः सद्यः मस्तिष्के समुद्भवति| आयुर्वेदः वस्तुतः न केवलं चिकित्साशास्त्रं अपितु लोकयात्रायाः सुव्यवस्थितनिर्वहणमार्गोऽपि|आयुर्वेदः प्रकृतिगामी कलाविद् वर्तते|मोक्षैकलक्ष्यता एनम् आध्यात्मशास्त्रस्य समानं स्थापयति, पदार्थमीमांसा दार्शनिकस्वरूपं प्रददाति| तथा च सदाचारोन्मुखता नीतिशास्त्ररूपेण प्रतिष्ठापयति|
संक्षेपेण वक्तुं शक्यते यत् आयुर्वेदः समग्रजीवनपद्धतिं व्यनक्ति| सहस्रेभ्यः वर्षेभ्यः भारतीयाः आयुर्वेदमनुसरन्तः जीवेम शरदः शतम् इति चरितार्थं कृतवन्तः आयुर्वेदस्य प्रमुखोद्देश्यं स्वास्थ्यसंरक्षणमस्ति।
कार्यक्रमस्य अध्यक्षवर्येण गुजरातsयुर्वेदविश्वविद्यालयस्य जामनगरस्य पूर्व कुलपतिना प्रो. मेधावीलालशर्मा वर्येण भणितं यत् आयुर्वेदः इति
भारतीय वैद्यशास्त्रम्।
स्वास्थ्यरक्षणे आयुर्वेदस्य प्राधान्यमभिलक्ष्य आयुर्वेदः अथर्ववेदस्य उपवेदत्वेन प्रथमं भजते। मतमिदं चरकसुश्रुतवाग्भटादिभिः प्रमुखायुर्वेदाचार्यैरेव प्रकाशितम्। व्याख्यानकारः चक्रपाणिरपि एवं वदति
'आयुर्वेदस्य आयुर्वेदत्वमुक्तं भवति, अथर्ववेदैकशेष एव आयुर्वेदः’ इति।
'आयुर्वेद’ - शब्दस्य व्युत्पत्तिं साधयद्भिराचार्यैः प्रकटीकृतम् - आयुरस्मिन् विद्यते, अनेन वा आयुर्विन्दति’ इति। 'भावप्रकाश’ - टीकाकारोपि’आयुर्वेद’ शब्दम् एवं विशदीकरोति -
अनेन पुरुषो यस्माद् आयुर्विन्दति वेत्ति च ।
तस्मान्मुनिवरेरेष ’आयुर्वेद’ इति स्मृतः ॥
आयुर्वेदस्य इतिहासः वैदिककालादेव आरभ्यते।
अतः पश्चात्सहस्रवर्षेभ्योऽपि प्राचीनोऽयं इतिहासः। आयुर्वेदस्य उत्कृष्टपरम्पराः न केवलं प्रचारे आसन् अपि तु तत्कालीनेषु प्रख्यातेषु नालन्दा, विक्रमशीला, वलभी इत्यादिषु विश्वविद्यालयेषु प्रमुखविषयत्वेन पाठ्यन्ते स्म। भारतीयेः सह विदेशीयच्छात्रा अपि अस्य प्रयोजनं प्राप्तवन्त आसन्।
चरकाचार्यविरचिता ’चरकसंहिता’, सुश्रुताचार्यप्रणीता ’सुश्रुतसंहिता’, वाग्भटग्रथितम् ’अष्टाङ्गहृदयम्’, माधवकरस्य ’माधवनिदानम्’, शार्ङ्गधरस्य 'शार्ङ्गधरपद्धति:’ इत्यादयः आयुर्वेदस्य प्रमुखग्रन्थाः। चरकसंहितायां ३४१ सस्यजन्यद्रव्याणां, १७७ प्राणिजन्यद्रव्याणां, ६४ खनिजद्रव्याणां च उल्लेखः कृतोऽस्ति। ग्रन्थस्यास्य महत्त्वमभिलक्ष्य अस्य नैकानि व्याख्यानानि रचितानि।चरकसंहितायां 8 स्थानानि सन्ति। मूलत: एषा अग्निवेशेन रचिता संहिता।तत्र चरकमहर्षिणा प्रतिसंस्कार: कृत:। तत: दृढबलनाम्ना अपरेण वैद्येन संपूरणं कृतम्। एवम् अद्य उपलब्धायां चरकसंहितायाम् एषां त्रयाणां कर्तृत्वं विद्यते।
आयुर्वेदानुसारेण आयुः चतुर्विधम् - हितायुः, अहितायुः, सुखायुः, दुःखायुश्चेति।
हिताहितं सुखं दुःखं आयुस्तस्य हिताहितम् ।
मानं च तच्च यत्रोक्तं आयुर्वेदः स उच्यते ॥ च.सू.३.४१॥
मानसिकशारीरकरोगरहितस्य ज्ञानिनः सुदृढवतः मानवस्य आयुः सुखायुः। एतद्विपरीतं दुःखायुः। अरिषड्वर्गविजितस्य सर्वभूतहिते रतस्य आयुः हितायुः। तद्विरोधे अहितायुः भवति।
आयुश्च शरीरेन्द्रियसत्त्वात्मसंयोगः। इत्थं हि शरीरं तु नानाविध-आधि-व्याधिनाम् आगारमेव। अतः व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य स्वास्थ्थरक्षणं च आयुर्वेदस्य द्वे प्रयोजने।
संगोष्ठ्यां नैके संस्कृतसुधयः सम्मान्याः चोपस्थिताः अभवन्| राजस्थान विद्यापीठस्य संस्कृतविभागाध्यक्षः डा. महेश-आमेटमहोदयः कार्यक्रमममुं समचालयत्| अवसरेऽस्मिन् डा. शक्तिकुमारशर्माणः जीवनवृत्तं, कृतित्वं च विश्वसंस्कृतप्रतिष्ठानस्य चित्तौडप्रान्तस्य महिलाप्रमुखा डा.पङ्कजमरमटमहोदया प्राकाशयत्| संगोष्ठयामस्यां प्रदेशोपाध्यक्षः डा. प्रमोदकुमारवैष्णवः, श्रीप्रदीपभट्टः,श्रीमुकेशशर्मा, श्रीनारायणदीक्षितः, वर्षाजोशीमहोदया, डा. रमेशटांकः,डा. भगवतीशङ्करव्यासः, अन्तिमजैनः, अभिषेकदाधीचः इत्यादयः विद्वांसः प्रतिष्ठिताः च उपस्थिताः आसन्। कार्यक्रमे विश्वसंस्कृतप्रतिष्ठानस्य चितौडप्रान्तस्याध्यक्षः डा. भगवतीशङ्करव्यासमहोदयः अतिथीनां प्रतिभागिनां च धन्यवादमज्ञापयत्| डा. व्यासः अवदत् यत् स्व. डा. शक्तिकुमारशर्माणः विचारवीथिमनुसरन् संस्कृतं मातृभाषां कर्तुं प्रयतितव्यम्|
वीथीशुनकेभ्यः अपि भोज्याय अधिकारः अस्ति। तेभ्यः आदरः देयः इति दिल्ली उच्चन्यायालयेन आदिष्टम्।
यूरो चषकः - तुरीयपादस्पर्धाः अद्य आरभन्ते।
> पादकन्दुकक्रीडाराधकाणाम् उत्साहं वितीर्य 'यूरोकप्' नामक पादकन्दुकक्रीडापरम्परायाः Samora चतुर्थांशपादस्पर्धाः अद्य रात्रौ सार्धनववादने [भारतसमयः] आरभन्ते। रूस्थे सेन्ट्पीटेर्स् बर्ग क्रीडाङ्कणे सम्पत्स्यमाना स्पेयिन-स्विट्सर्लान्ट् स्पर्धा एव चतुर्थांशक्रीडासु प्रथमा।
२४ दलैः सम्पन्ना यूरोचषकयुद्धभूमिः अष्टराष्ट्राणां स्पर्धाक्षेत्ररूपेण आकुञ्चितास्ति। स्पेयिन-स्विट्सर्लान्ट् स्पर्धां विना इट्टली-बल्जियम्, चेक् रिप्पब्लिक्-डेन्मार्क्, इङ्लण्ट् - युक्रैन् स्पर्धाश्च शुक्रशनिदिनयोः सम्पत्स्यन्ते। कुजवासरे बुधवासरे च पूर्वान्तिमस्पर्धा, तदनन्तरं रविवासरे अन्तिमस्पर्धा च सम्पत्स्यते।
विश्वस्य न्यूनातिन्यूनवयस्कः चतुरङ्गक्रीडकः-भारतस्य अभिमन्युः नूतनं प्रमाणं व्यरचयत्।
न्यूयोर्क्> विश्वस्य न्यूनातिन्यूनवयस्कः चतुरङ्गक्रीडकः इति पदं भारतस्य बालकः प्राप्तवान्। द्वादशवयस्कः अभिमन्यु मिश्रः भवति एषः बालकः। हङ्गरिराष्ट्रस्य बुडापेस्ट नगरे आयोजिते चतुरङ्ग स्पर्धायामेव अस्य प्रामाणिको विजयः। १५ वयस्कं प्रति द्वन्दिं लियोण् लूक् मेन्डोण्के इत्याख्यं विजित्य भवति अस्य प्रामाणिको विजयः।








