OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 15, 2021

 एष्यायां भारतम् अतिक्रम्य कोविडस्य तापबिन्दुः भूत्वा इन्डोनेष्या।

प्रतिदिनं ४०,००० अधिकजनाः रोग बाधिताः।

  जक्कार्ता> इन्डोनेष्याराष्ट्रे कोविड् रोगिणां प्रतिदिनसंख्या वर्धते। इतःपर्यन्तं ४०,००० उपरि एव प्रति दिनरोगिणां संख्या। नूतनतया दृढीकृतेषु बहुषु अतिव्यापनक्षमः डेल्टा विभेदः एव अधिकतया दृश्यते। इत्थं इन्डोनेष्या प्रतिदिनरोगिणां वर्धितसंख्यया भारतम् अतिक्रम्य एष्याभूखण्डे कोविडस्य तापबिन्दुः (hot spot) अभवत्। गतसप्ताहादारभ्य भारते प्रतिदिन-कोविड्रोगिणां संख्या ४०,०००तः न्यूना एव। द्वितीयतरङ्गे अतिरूक्षे अनुवर्तिते प्रतिदिनं  चर्तुलक्षाधिकरोगिणः भारते आसन्। जून् मासस्य अन्तिमचरणे रोगिणां संख्या न्यूना अभवत्। इन्डोनेष्यायां रोगव्यापनमानं वर्धमाने सन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र नियन्त्रणानि अतिशक्तानि अकुर्वन्।