OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 5, 2021

 कालिफोर्णियादेशे दावाग्निः व्याप्यते। ४०००० एक्कर् अधिकभूमिः अग्निसादभवत्।

  लोस् आञ्जलोस् > कालिफोर्णियादेशे दावाग्निः अतिरूक्षतया व्याप्यते। एतदभ्यन्तरे दक्षिणकालिफोर्णियेषु ४०००० एक्कर् अधिकभूमौ दावाग्निः व्याप्तः इति आवेदनम् अस्ति। मुख्यतया त्रिविधाः दावग्नयः एव व्याप्यन्ते इति आवेदनानि सूचयन्ति।

सिस्कियु कौण्डी प्रदेशे जून् मासस्य २४ दिने समारब्धे आग्नेयोद्धारे ( Lava fire)२४,४६० एक्कर् अधिकभूमिः अग्निसादभवत् इति सिन्हुवा वार्तासंस्थया आवेदितम्।  अग्निव्यापनहेतुना अधिकारिभिः सहस्राधिकजनाः अन्यत्र नीताः।