OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 10, 2021

वैद्यकुलपतिः डो. पि के. वार्यर् महाभागः दिवङ्गतः।

   कोट्टक्कल्>  आयुर्वेदशास्त्रस्य वैद्यकुलपतिः तथा कोट्टक्कल् आर्यवैद्यशालायाः प्रबन्धन्यासधारी अङ्गः डो. पि के वार्यर् महाभागः (१००) दिवङ्गतः। शनिवासरे मध्याह्ने स्वभवने कैलासमन्दिरे एव अन्त्यः अभवत्। जूण् मासस्य अष्टमे दिने तस्य शततमजन्मदिनमासीत्।

१९९९ तमे वर्षे पद्मश्री पुरस्कारेण तथा २००१ तमे वर्षे पद्मभूषणपुरस्कारेण च एषः समादृतः आसीत्। आयुर्वेदः न केवलं रोगचिकित्सारीतिः किन्तु तस्मिन् जीवनस्य प्रकाशः अप्यस्ति इत्यासीत् कर्मयोगिनः अस्य विश्वासः। विश्वमानवोऽयम् आयुर्वेदशास्त्रे मानविकतायाः रूपं परिकल्पयन् आविश्वं शास्त्रमिदं प्रचारयामास। 

मलप्पुरं जिल्लायां कोट्टक्कल् ग्रामे मध्यवर्तीकुटुम्बे १९२१ तमे वर्षे जूण् मासस्य पञ्चमे दिने एव पन्यंपिल्लि कृष्णन्कुट्टिवार्यरः जनिमलभत। तस्य पिता श्रीधरन् नम्पूतिरिः, माता कुञ्ञिवारस्यारः च आस्ताम्। कोट्टक्कल् राजास् उच्चविद्यालये एव सः अध्ययनं कृतवान्। वैद्यरत्नं पि एस् वार्यर्  आयुर्वेदकलालयात् वैद्यवेदम् अधीतवान्। एषः कलालयः एव आर्यवैद्यपाठशाला इति नाम्ना विख्यातः अभवत्। १९४२ तमे वर्षे एषः महाभागः स्वातन्त्र्यसंग्रामेषु आकृष्टः सन् तस्य भागमभवत्। तस्य स्मृतिपर्वं नाम आत्मकथायै केरलसाहित्य-अक्कादमीपुरस्कारः च लब्धः। तस्य प्रवर्तनानि पुरस्कृत्य  वैद्यरत्नम् इति पदवीं अपि दत्वा सः समादृतः।