OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 1, 2026

 अपराजितत्वं प्रमाणीकृत्य फ्रान्सः पूर्वचतुर्धांशचक्रे।

स्वीडनं विरुध्य लक्ष्यद्वयं सम्पादितवान् किलियन् एम्बापे। 

न्यूयोर्क्> न्यू जेर्सी क्रीडाङ्कणे गतरात्रौ सम्पन्ने प्रतिद्वन्द्वे फ्रान्सदलः स्वीडनं ३-० इति लक्ष्यकन्दुकक्रमेण पराजित्य विश्वचषकपादकन्दुकस्पर्धायाः पूर्वचतुर्धांशचक्रं प्रविशत्। गणीयस्पर्धासु त्रीनपि प्रतिद्वन्दिनः प्रभञ्ज्य स्वीकीयम् अपराजितत्वं पुनरपि प्रमाणीकृत्य अस्ति एतस्य 'षोडशगण'प्रवेशः [Round of 16]। पूर्वचतुर्धांशचक्रे पराग्वे अस्ति फ्रान्सस्य प्रतियोगी।

  फ्रान्सस्य नायकः किलियन् एम्बापे लक्ष्यकन्दुकसंग्रहणे लयोणल् मेसीं प्रति प्रतिद्वन्द्वते। ह्यः लक्ष्यद्वयसम्पादनेन अस्मिन् विश्वचषके ६ लक्ष्याणि संगृह्य मेस्सिना सह प्राप्तवान्। विश्वचषके आहत्य १८ लक्ष्यकन्दुकानि सम्प्राप्य मेस्सेः पृष्ठतः तिष्ठति। 

  क्रीडायाः ४५, ७४ तमनिमिषयोः आसीत् स्वीडनं विरुध्य एम्बापेः लक्ष्यप्राप्तिः। ५३ तमे निमिषे बी बार्कोला नामकः स्वीडनाय लक्ष्यकन्दुकं प्राप्तवान्।