OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 3, 2021

 कानडादेशे उष्णतरङ्गेण जातेन अतितापेन चतुस्त्रिंशदधिकशतं जनाः मृताः। दावाग्निः अपि राष्ट्रे नाशं वितनोति।

Please use web version+Desktop view.

ओट्टाव> कानडादेशे उष्णतरङ्गहेतुना जातेन अतितापेन साकं दुरितं वितीर्य दावाग्निः अपि व्याप्यते। गतदिने ब्रिट्टीष् कोलम्बियाप्रविश्यायां ६२ स्थानेषु दावाग्निः आवेदितः। अग्निव्यापनं परिगणय्य पश्चिमकानडाप्रदेशे सहस्राधिकजनाः अन्यत्र नीताः। वान्कोवर्प्रदेशस्य पूर्वोत्तरभागे २५० किलोमीट्टर् दूरस्थः एकः ग्रामः वर्तते तत्र प्रतिशतं ९० मितं समीपप्रदेशाः च दावाग्निना पूर्णतया दग्धाः अभवन् लिट्टन् प्रान्तेषु दावाग्निव्यापनम् अतिरूक्षतया वर्तते। आगामि दिनद्वयोः अपि राष्ट्रे पूर्वाधिकतापः अनुवर्तिष्यते इति कानडदेशस्य परिस्थितिविभागेन पूर्वसूचना दत्ता।