OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 13, 2021

इराक् राष्ट्रस्थे आतुरालये अग्निबाधया पञ्चाशदधिकजनाः हताः।

 बाग्दाद्> इराक् राष्ट्रस्थे आतुरालये कोविड्रोगिणां एकान्तवासकक्ष्यासु जातासु अग्निबाधासु  रोगिणः दग्धाः मारिताः च। दक्षिणनगरस्थे नासिरियादेशे अल्हुसैन् आतुरालये एव अग्निबाधा जाता। पञ्चाशदधिकजनाः मारिताः  इति आवेदनम् अस्ति। बहवः जनाः व्रणिताश्च। सोमवासरे रात्रौ एव अग्निः नियन्त्रणविधेयः अभवत् इति अधिकृतैः आवेदितम्। केचन रोगिणः अधुना अपि कक्षायां निबद्धाः अस्ति इति आवेदनमस्ति। अतिधूमः रक्षाप्रवर्तनाय विघातः अभवत्।

अग्निबाधायाः कारणम् अज्ञातमस्ति। प्राणवायुसंभरण्याः स्फोटनमिति प्राथमिकनिगमनम् अस्ति। घटनायाः पश्चात् इराक्कस्य प्रधानमन्त्रिणा मुस्तफा अल्कादिं महोदयेन उन्नतमन्त्रिभिः साकं चर्चा कृता।