'नीट्' प्रश्नपत्रप्रस्रवणम्।
प्रधानमन्त्री पर्यवेक्षणं करिष्यतीति सर्वकारः।
नवदिल्ली> नीट् परीक्षायाः प्रश्नपत्रप्रस्रवणविषये युवजनेभ्यः उद्भूताः आशङ्काः केन्द्रसर्वकारेण सगौरवं वीक्ष्यन्ते, प्रकरणे प्रधानमन्त्री नरेन्द्र मोदी साक्षात् पर्यवेक्षणं वहतीति च सोलिसिटर् जनरल् पदीयः तुषारमेत्ता वर्यः सर्वोच्चन्यायालयं निगदितवान्। प्रकरणे परिहारः भवितव्य इति न्यायाधिपौ पि एस् नरसिंहः, अलोक् आराधे इत्येतयोः पीठेन निर्दिष्टम्।
२०२७ तमादारभ्य नीट् परीक्षा सङ्गणकाधिष्ठिता [CBT] भविष्यतीति परीक्षाचालकसंस्थया [NTA] सत्यवाचनपत्रं समर्पितम्। जूण् २१ तमे दिनाङ्के सम्पत्स्यमानायै परीक्षायै प्रश्नपत्रवितरणाय व्योमसेनायाः साहाय्यम् अपेक्षितः इति विद्याभ्यमन्त्रिणा धर्मेन्द्र प्रधानेन निगदितम्।