दिल्ल्यां वाससमुच्चये अग्निबाधा। 
अग्निबाधायाः दृश्यानि।
२१ जनाः मृताः।
मृतेषु ११ विदेशीयाः।
नवदिल्ली> राष्ट्रराजधानीं प्रकम्पितायाम् महत्याम् अग्निबाधायां ह्यः २१ जनाः दग्धाः। बुधवासरे प्रभाते दक्षिणदिल्ल्यां मालव्यानगरस्थे 'फ्लरिस् स्टे बी आन्ड् बी' - Flourish Stay B&B- नामके वाससमुच्चये आसीत् महदग्निबाधा। उपपञ्चाशत् जनाः आहताः सन्तः विभिन्नेषु आतुरालयेषु परिचर्यायां वर्तन्ते।
मृतेषु ११ विदेशीयाः अपि सन्ति। नैजीरिया, मोसांबिक्, लैबीरिया, बङ्गलादेशः इत्येतेभ्यः राष्ट्रेभ्यः प्राप्ताः इति सूच्यते।