सि बी एस् ई कृत्यविलोपे परिहारप्रक्रमः।
अध्यक्षः कार्यदर्शी च निष्कासितौ। शिक्षामन्त्री सुरक्षितः।
नवदिल्ली> सि बी एस् ई संस्थायाः द्वादशकक्ष्यापरीक्षायाः 'डिजिटल्' मूल्यनिर्णये जातं कृत्यविलोपमधिकृत्य आक्षेपविमर्शनेषु केन्द्रसर्वकारेण मुखसंरक्षणप्रक्रमाः आरब्धाः। सि बी एस् ई संस्थायाः अध्यक्षः राहुल सिंहः, कार्यदर्शी हिमांशु गुप्तः च तत्तत्स्थानाभ्यां निष्कासितौ। किन्तु मुख्योत्तरदायित्वे वर्तमानः विद्याभ्यासमन्त्री धर्मेन्द्र प्रधानः अस्पृश्यः वर्तते।
तथा च अस्मिन् वर्षे द्वादशकक्ष्याछात्राणां मूल्यनिर्णयाय Onscreen marking नामकं संविधानं निर्वोढुं ये सन्धिं प्राप्तवन्तः तेषामुपरि अन्वेषणाय समितिः रूपीकृता। परीक्षाकृत्यविलोपे विद्याभ्यासमन्त्रिणः स्थानत्यागमालक्ष्य विपक्षीयदलानां प्रतिषेधः अपि प्रचलति।