OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, June 2, 2026

 धावनाङ्कप्राप्तिवैभवे

वैभव सूर्यवंशिनः अङ्गीकारः - ऐ पी एल् ओरञ्चशिरोवेष्टनम्।

ओरञ्ज् शिरोवेष्टनं लब्धवान् वैभव सर्यवंशी इतरैः पुरस्कारैः सह। 

अहम्मदाबादः> ऐ पी एल् क्रिकट् महोत्सवे बहुषु महारथेषु सत्स्वपि धावनाङ्काSSखेटनस्य कृते दीयमानं ओरञ्चशिरोवेष्टनम् [Orange Cap] इत्यङ्गीकाराय कौमारक्रीडकः वैभव सूर्यवंशी अर्हः अभवत्। राजस्थान् रोयल्स् दलस्य नूतनः अयं 'महाप्रभः तारकः' [Super Star] १६ क्रीडाभ्यः ७७६ धावनाङ्कान् सम्पाद्य धावनाङ्कप्राप्तौ प्रथमस्थानम् अलभत। ओरञ्चशिरोवेष्टनाय स्पर्धितवन्तौ गुजरात टैटन्स् दलीयौ शुभमान गिलः (७३२), साय् सुदर्शनः (७२२) इत्येतौ अन्तिम स्पर्धायां न प्रशोभितवन्तौ। 

  सूर्यवंशी ऐ पी एल् क्रीडासु एकं शतकं, पञ्च अर्धशतकानि च प्राप्तवान्। अर्धशतकेषु त्रिषु सः नवत्यधिकानि धावनाङ्कानि सम्प्राप्तवान्। आहत्य ७२ षट्काणि, ६३ चतुष्काणि च तस्य ताडनीतः जातानि। Orange Cap इत्येतत् अतिरिच्य super striker, emerging player, topest sixer , श्रेष्ठः क्रीडकः इत्येते पुरस्काराः अपि तेन लब्धाः।