OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 7, 2023

 विश्वस्मिन्  अध्यापकानां संख्यासु चतुर्णां कोटीनाम्  ऊन्नत्वमस्ति इति युनेस्को संस्थायाः गणना।

     विश्वस्मिन् सर्वत्र सर्वेषां छात्राणां शिक्षादानाय पर्याप्तानाम् अध्यापकानां संख्यासु ४.४ कोटीनाम् ऊनत्वं दृश्यते इति युनस्को संस्थायाः गणना सूचयति। २०२२ तमे संवत्सरे प्राथमिकविद्यालयात् ९% अध्यापकाः अध्यापनवृत्तिं परित्यक्तवन्तः इति प्रतिवेदनमस्ति। २०१५ तमे संवत्सरे एतत् मानम् ४.५%. आसीत्। आविश्वम् अध्यापकानाम् ऊनत्वविषये त्रिषु भागेषु एकः भागः  उपसहारा -आफ्रीक्केषु (sub Saharan Africal) भवति। २०३० तमे संवत्सराभ्यन्तरे 'सर्वेषां प्राथमिकशिक्षा ' इति लक्ष्यप्राप्तये  १.५% अध्यापकानाम् आवश्यकता अस्ति।