OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 16, 2023

 विश्व-अध्यापकपुरस्कारः वैष्णविबालिकायाः अध्यापिकायै सुनितायै।

   अङ्गीकारः सर्वे वाञ्चन्ति। किन्तु स्वस्व समीपवर्तिनः सकाशात् अङ्गीकारः न लभ्यते चेत् अन्यत् सर्वं निष्फलम् इति प्रतीयते। इदानीं केरलेषु विद्यमानेषु सर्वकारीय-प्राथमिकविद्यालयात् भवति एषा वार्ता। अलप्पुष़ जनपदे दक्षिण-एवूर् प्रदेशे विद्यमानात् सर्वकारीय प्राथमिकविद्यालयात् भवति इयं सन्तोषपूर्णा एषा वार्ता। अत्रत्या अध्यापिका सुनिता एस् प्रभुः स्थानान्तरं लब्ध्वा पेरुम्बलं देशस्थं विद्यालयं प्रति गतवती आसीत्। तस्याः गमनावसरे विद्यालये चतुर्थकक्ष्यायां वैष्णवी नामिका बालिका अनुपस्थिता आसीत्। अनन्तरदिने विद्यालयमागता सा बालिका तस्याः प्रियाध्यापिका ततः गतवती इति ज्ञात्वा दुःखिता अभवत्। सा तस्याः प्रियात् प्रियतराम् अध्यापिकां प्रति लेखं लिखितवती। तस्याः लेखः फेस् बुक्क् आदि प्रचरणमाध्यमेषु इदानीं प्रचलति। बालिकायाः लेखस्य अनूदितरूपं पश्यामः।


  मम प्रियतरायै सुनिताध्यापिकायै !

अध्यापिके ! मे भवत्यां स्नेहाधिक्यम् अस्ति। भवत्याः गमनकाले विद्यालयम् आगन्तुम् अशक्ता  आसम्। अस्माकं विद्यालये बहवः शिक्षकाः सन्ति, किन्तु त्वयि मम स्नेहः अपरिमेयः एव। यदा भवती मां पाठयितुम् आरब्धवती तदा मयि परिवर्तनम् आरब्धम्।  मे इदानीम् English मलयाळम् EVS आदयः पठितुं शक्यते। शिक्षिके! I Love you. चुम्बनम्। भवतीम् अत्यधिकतया स्निह्यामि। भवतीम् अहं कदापि न विस्मरिष्यामि। 


   इति प्रियतरा वैष्णवी ॥