OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 19, 2023

 गासायां आतुरालयं प्रति बोम्बवर्षः - ५०० अधिकाः हताः।

अल् हग्ली> मध्यगासायां अल् हग्ली अरब आतुरालयं प्रति कुजवासरे दुरापन्नन बोम्बवर्षेण पञ्चशताधिकाः जनाः मृत्युवशं गताः। शतशः व्रणिताश्च। इस्रलयेन एव बोम्बवर्षः कृत इति अरबराष्ट्रैः आरोपितम्। किन्तु इस्रलयेन एतत् निषेधितम्। 

  केनचन इस्लामिकभीकरसंघटनेन विक्षिप्तानि बोम्बशस्त्राणि लक्ष्यभ्रंशं भूत्वा आतुरालयं पतितानीति इस्रलयेन प्रोक्तम्। ह्यः इस्रलयेलं सम्प्राप्तः अमेरिकायाः राष्ट्रपतिः जो बैडनश्च बोम्बस्फोटनविषये इस्रयेलानुकूलपक्षमेव स्वीकृतवान्।