OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 29, 2023

 'वन्दे साधारण्' पट्टिकायानमागच्छति। 

मितव्ययेन अतिशीघ्रयात्रा लक्ष्यः।

चेन्नै> सामान्यजनानां मितव्ययेन दूरस्थानं प्रति अतिशीघ्रयात्रां सफलीकर्तुं 'वन्दे साधारण्' इति कृतनामधेयानि अतिशीघ्ररेल् यानानि भारते आरभ्यन्ते। अस्याः श्रेण्याः प्रथमयानस्य यात्रा नवम्बरमासे मुम्बैतः दिल्लीं प्रति विधास्यति। 

  प्रथमसोपाने पञ्च वन्दे साधारण् यानानि एव सेवां करिष्यन्ति। मुम्बै - दिल्ली मार्गं विना एरणाकुलं - गुवाहाटी, पट्ना - नवदिल्ली, हैदराबाद - नवदिल्ली, हौरा - नवदिल्ली इत्येतानि सेवामार्गाश्च निश्चितानि।