OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 5, 2023

 सिक्किमराज्ये आकस्मिकप्रलयः - दशाधिकाः मृताः। 

२२ सैनिकान् अभिव्याप्य ६९ जनाः अप्रत्यक्षाः। 

गाङ्टोक्> उत्तरसिकिमस्य लोनाकतटाकसमीपे सञ्जाते मेघविस्फोटने आकस्मिक प्रलये च महान्नाशः अजायत। तीस्तानदीतटे दुरापन्ने जलोपप्लवे १० जनाः मृत्युमुपगताः। मृतानां संख्या वर्धिष्यते इत्याशङ्का वर्तते। महति प्रवाहे २२ सैनिकान् अभिव्याप्य ६९ जनाः अप्रत्यक्षाः अभवन्। 

  षट् सेतवः विशीर्णाः इत्यतः सिकिमराज्यं प्रायेण पृथक्कृतमभवत्। राज्ये दुरापन्नः प्रकृतिक्षोभः महद्दुरन्तमिति कृत्वा केन्द्रसर्वकारेण विज्ञापनं कृतम्।