OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, March 2, 2024

 आणवयोजनायै उपयुज्यमानानि वस्तूनि महानौकाद्वारा चीनतः पाकिस्थानं प्रति। 

   मुम्बै> आणवयोजनायै उपयुज्यमानानि वस्तूनि निभृता महानौका मुम्बै सागरतीरे भारतस्य सुरक्षासेनया प्रतिरुद्धा। चीनतः पाकिस्थानं प्रति गतवती आसीत् इयं पण्यनौका। पाकिस्थानेन तेषाम् आणवयोजनायै वस्तूनि अनयन्ति इति संशयेन मुम्बेः नवाषेव महानौकानिस्थाने भारतस्य सुरक्षासेनया प्रतिरुद्धा। जनुवरीमासस्य २३ दिनाङ्के आसीत् घटना। किन्तु अद्य एव वार्तेयं प्रतिवेदिता। इट्टलीस्थया कर्मसंस्थया निर्मितं सङ्गणकीयं साख्यकीय-नियन्त्रणयन्त्रम् (computer numerical control mechine) आसीत् विद्यमानेषु प्रमुखवस्तु। आणवयोजनायै उपयुज्यमाननि वस्तुनि भवन्ति महानौकायाम् इति सुरक्षासेनया प्रत्यभिज्ञातम्।