OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, March 9, 2024

 सुधामूर्तिः राज्यसभासदस्या अभवत्। 


नवदिल्ली> 'इन्फोसिस् फौण्टेषन्' इत्यस्य अध्यक्षा तथा विख्याता लेखिका च सुधामूर्तिः राज्यसभासदस्यरूपेण राष्ट्रपतिना द्रौपदी मुर्मुणा नामनिर्दिष्टा।ह्यः वनितादिने आसीत् सुधामूर्तेः नूतनः नियुक्तिः। 

कन्नटम् आङ्गलभाषयोः ४० अधिकानां ग्रन्थानां कर्त्री सुधामूर्तिः इन्फोसिस् फौण्टेषन्' इत्यस्य सहस्थापकस्य एन् आर् नारायणमूर्तेः सहधर्मिणी, ब्रिटनस्य प्रधानमन्त्रिणः ऋषि सुनकस्य पत्नीमाता च भवति। स्वास्थ्य-शैक्षिकमण्डलेषु तस्याः योगदानं पुरस्कृत्य २००६ तमे वर्षे राष्ट्रस्य पद्मश्रीपुरस्कारेण गतवर्षे पद्मभूषणपुरस्कारेण च सा समादृता।