OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, March 16, 2024

 पत्रिकापारायणप्रोत्साहनाय केरल सामान्यशैक्षिकविभागस्य परियोजना।

विशिष्टाङ्कदानं परिगण्यते। 

पत्रिकाणां सम्पादकप्रतिनिधिभिः सह चर्चा कृता।

 अनन्तपुरी> विद्यालयछात्राणां दिनपत्रिकापारायणं प्रोत्साहयितुं केरलस्य सामान्यशैक्षिकविभागेन नूतनी परियोजना आविष्क्रियते। सामान्यपरीक्षासु विशिष्टाङ्कदानमपि परिगण्यते। तदर्थं प्रवर्तनानि आविष्कृत्य प्रवृत्तिपथमानेतुं विद्यालयस्तरे वाचनोत्सवं समायोजितुमपि उद्दिश्यते। गतदिने केरलस्य दिनपत्रिकाणां सम्पादकप्रतिनिधिभिः सह कृतायाः चर्चायाः अनन्तरं शिक्षामन्त्री वि शिवन्कुट्टिः स्पष्टीकृतवान् यत् पत्रिकावाचनप्रोत्साहनाय अध्यापकानां रक्षाकर्तॄणां च भागभागित्वं कथमिति तेषां कृते प्रकाश्यमाने हस्तपुस्तके निर्दिक्ष्यति।