महात्मगांधिनः प्रपौत्रस्य अमरीकास्थितस्य भूभागस्य पुनर्प्राप्तिः
![]() |
| कनु गान्धी - (चित्रम् टी ओ ऐ) |
सूरत्> गुजरातराज्यस्य सूरतनगरस्य निवासी परिमलदेशायीवर्यस्य विंशतिमासानां विधिक्रीडायाः साफल्येन महात्मगांधिनः प्रपौत्रस्य स्वर्गतस्य कनुगांधिनः तस्य पत्न्याः शिवागांधिनः च स्वामित्वे विद्यमानस्य वर्जीनिया (अमरीका) राज्यस्थितस्य ३० एकर् परिमितस्य भूभागस्य अनाधिकारक्रमणं दूरीकर्तुम् अमरीकीयायाः न्यायालयः आदेशं दत्तवान्। १९८७ तमे वर्षे क्रीतः एषः भूभागः गान्धिदम्पतीभ्यां संस्थापिताय धर्मार्थन्यासाय (Charitable Trust) समर्पितः आसीत्, यस्य प्रबन्धक-न्यासी परिमलदेशायीवर्यः अस्ति।
१५ वर्षाणां प्रतिकूलाधिकारं (Adverse possession) स्वीकृत्य भूमेः स्वामित्वं दातुं ग्रेगोरी-ब्लैक्-नामकेन अमरीकीयनागरिकेन कृताः वादाः न्यायालयीयप्रमाणैः निरस्ताः। अक्टोबर् २१ दिनाङ्कस्य आदेशानुसारं वारेन्-कौण्टी-सर्किट्-न्यायालयस्य न्यायाधीशेन डारिल् एल्. फङ्क् वर्येण, भूमौ कृतानि अनधिकृतनिर्माणानि ३० दिनाभ्यन्तरे स्वकीयेन व्ययेन निष्कासयितुं, भूभागस्य आधिपत्यं न्यासाय समर्पयितुं च ग्रेगोरी-ब्लैक् इत्याख्यः निर्दिष्टः।
