जनसंख्यागणनस्य द्वितीयचरणं जनुवरिमासे।
नव दिल्ली> केरलमभिव्याप्य राज्येषु जनसंख्यागणनस्य द्वितीयचरणं जनुवरि २५ तमदिनाङ्के आरप्स्यते। फेब्रुवरि २८ तमे दिनाङ्के समाप्स्यते। प्रतिगृहं सदस्यानां संख्या, एकैकस्य सदस्यस्य व्यक्तिगतवृत्तान्तैः सह सामाजिकार्थिकसूचनाः अपि संगृहिष्यन्ते। आहत्य ४० प्रश्नाः समाधेयाः भविष्यन्ति। जातिगणनमपि अस्मिन् चरणे सम्पत्स्यते।
पूर्णतया डिजिटल् रूपेण भवति वृत्तान्तसंग्रहणम्। जनुवरि दशमदिनाङ्कतः २४ पर्यन्तं आत्मना एव वृत्तान्तसमर्पणाय [Self Enumeration] सुविधा अस्ति।