OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, February 1, 2018

 शिक्षादानेन दीर्घकालिका सन्तुष्टि: भवति - डॉ. के. साम्बशिवमुर्ति:
वार्ताहरः- दापक् शास्त्री

          नवदिल्ली>जगद्गुरूरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालय: तथा शंखनादफाउन्डेशन इत्यनयो: तत्वावधाने २७-०१-२०१८ तमे दिनाङ्के विश्वविद्यालयस्य परिसरे रामानन्दसभागारे "भिक्षा न शिक्षा ददातु" इति विषये एका संगोष्ठी समायोजिता। संगोष्ठया: अध्यक्ष: विश्वविद्यालयस्य कुलपतिः डॉ. विनोदशास्त्रीमहोदय: आसीत्। कुलपतिमहोदयेन आशीर्वादप्रदाय उक्तम् यत् प्राचीन भारते शास्त्रेषु वेदेषु शिक्षा सन्दर्भे वर्णितानां विशेषविषयाणां प्रतिपादनं कृतम्। कार्यक्रमस्य सारस्वतातिथि: विश्वविद्यालयस्य कुलसचिव: डॉ. के. साम्बशिवमुर्ति: महोदय: आसीत्। महोदयेन स्वभाषणे सम्बोधितं यत् अन्नदानं तु  महादानं वर्तते  अन्नदानात् श्रेयस्कर: तु विद्यादानं वर्तते  यतो हि अन्नात् क्षणिका तृप्ति: भवति किन्तु शिक्षादानेन दीर्घकालिका सन्तुष्टि: भवति अन्यानपिशिक्षितुं शक्नोति। तथा अशिक्षितजनानां शिक्षा दानं भवेत् शिक्षितजनानां अपि संस्कारप्रदानं भवेत् इति उद्बोधयत्। राजस्थान बालायोगस्य अध्यक्षा मनन चतुर्वेदी बालयोगेन आयोजितानां कार्यक्रमाणां एवं सर्वकारीय परियोजनानां परिचयं दत्वा परिचयं  तासां सफलतायै सर्वान् सहयोगं प्रदानाय अनुरोधं कृतवती। क्रमेSस्मिन्  शंखनाद फाउन्डेशनस्य अध्यक्ष: श्रीवेदप्रकाश महोदयेन फाउन्डेशन विषये विस्तृतं परिचयम् उपस्थापितम्। भूमिका महोदया संगोष्ठया: आयोजनस्य उद्देश्य: कार्य-योजनायाश्च विषये प्रस्तावना प्रस्तुतवती।  संगोष्ठयामस्यां विश्वविद्यालयस्य सर्वेशिक्षका: पी.एच्.डी षाण्मासिक पाठ्यक्रमस्य शोधार्थिन: सर्वे: विभागीयच्छात्राश्च समुपस्थिता: आसन्। सभायाः संचालनं शुभममिश्रमहोदयेन कृतम्।
केन्द्र आर्थिकसमाकल्पना अद्य।
             नवदिल्ली > अद्य प्रातः ११ वादने धनमन्त्रिणा अरुण्जैट्ली महाभागेन केन्द्र अर्थिकसमाकल्पना विधानसभायां अवतारयिष्यते। पण्य-सेवनकरस्य आयोजनानन्तरं अवतार्यमाणः प्रथमः आर्थिक-समाकल्पना भवति इयम्। २०१९ तमे वर्षे आयोक्ष्यमाणात् लोकसभानिर्वाचनात् प्राक् अवतार्यमाणा आर्थिक-समाकल्पना इति कारणतया अस्याः प्राधान्यं अधिकं वर्तते। पञ्चमोऽयं सन्दर्भः यस्मिन् जय् ट्ली महाभागेन आर्थिकसमाकल्पना अवतार्यते। करस्य श्रेणिक्रमे समाश्वासः प्रतीक्ष्यते आर्थिकविचक्षणैः। प्रत्यक्षकरनियमस्य परिष्करणाय गते नवंबर् मासे वरिष्ठाधिकारिणः संयोजनेन टाक्स् फोर्स् नाम आयोगः रूपीकृतः आसीत् । आयोगस्य करसमाश्वासनिर्देशाः परिगणयिष्यते  इत्यपि श्रूयते।

Wednesday, January 31, 2018

Sanskrit News | Episode 75
अद्य चन्द्रप्रभावः
152 संवत्सरानन्तरमेव अयं संभवति।
            द्विपञ्चाशतधिक एकशतं संवत्सरानन्तरं सम्भव्यमानं चान्द्रविस्मयं दृष्टुम् उत्सुकाः भुत्वा वाननिरीक्षकाः वैज्ञानिकाः तथा समस्तलोकाः।  चन्द्रस्य मुखत्रयं विविधवर्णयुक्तैः अद्य द्रष्टुं शक्यते। इदम् अद्य न दृश्यते चेत्  अस्मिन् जन्मनि दृष्टुं न शाक्यते। दृश्यमिदं दृष्टवन्तः कोऽपि इदानीं सजीवं नास्ति खलु?।
           ब्लू मूण्,  सूप्पर् मूण् ,  ब्लड् मूण्  इति प्रथिताः चान्द्रदृश्यव्यत्ययानि युगपदेव सायंसन्ध्यायाम् आकाशरङ्गे जनान् तोषयिष्यन्ति। 5.18 वादनतः  8.43  वादन पर्यन्तं भवति असुलभदृश्यानाम्  अनुभवः।  चन्द्रस्य वर्णः कपिशः भविष्यति, आकारः प्रतिशतं सप्त इति क्रमेण,  प्रभापूरः प्रतिशतं त्रिंशत् इति क्रमेण च वर्धिष्येते। इतःपूर्वं षट्षष्ठ्यधिक अष्टादशशततमे (1866) मार्च् मासे आसीत्  इदं दृश्यविस्मयम्। 
महात्मागान्धिने राष्ट्रस्य प्रणामः
          नवदिल्ली> महात्मागांधिनः ७० तम बलिदानदिनस्य स्मृतिषु राजघट् समाधिस्थाने राष्ट्रनेतारः पुष्पार्चनमकुर्वन्। समाधिस्थाने आयोजिते समूहप्रार्थनायामपि राष्ट्रपति रामनाथकोविन्दः उपराष्ट्रपतिः वेङ्कय्यनायिडुः प्रधानान्त्री नरेद्रमोदिप्रमुखाः भागं स्वीकृतवन्तः। 'राष्ट्रस्य कृते जीवत्यागं कृतवत्भ्यः बलिदानिभ्यः पुरतः नम्रशिरस्को भवामि' इति ट्विट्टर् माध्यमे नारेद्रमोदिना आलिखितम्।  कोण्ग्रस् अध्यक्षः राहुल् गान्धी भूतपूर्व प्रधानमन्त्री मन्मोहन सिंह प्रमुखाः नेतारः च भागभाजः आसन्।
यमन् देशे कार् यानविस्फोटेन १५ सैनिकाः हताः।
            एदन्> येमन् देशस्थ षाब् वा प्रविश्यायां प्रवृत्ते कार्यान विस्फोटनेन पञ्चदश (१५ ) सैनिकाः हताः। सैनिककाः कार्यानस्य निरीक्षणं कुर्वाणः आसीत्। यू ए ई राष्ट्रस्य  साहाय्येन कृतस्य यमन्‌सैनिकानां विशेषनिरीक्षणद्वारे एव विस्फोटः जातः।

Tuesday, January 30, 2018

निर्वाचनानि युगपद् करणीयानि - राष्ट्रपतिः।
               नवदिल्ली> निरन्तरनिर्वाचनानि अभिवृद्धये बाधा भवति अतः युगपदेव निर्वाचनप्रक्रियाः भवितव्याः। एतदर्थं चिन्तनीयं इति राष्ट्रपतिना रामनाथकोविन्देन उक्तम्। विधानसभायाः संयुक्तमेलने भाषमाणः आसीत् सः।  निरन्तरं राष्ट्रस्य विविध भागेषु निर्वाचनप्रक्रियां कर्तुं अधिकः मनुष्यप्रयत्नः आवश्यकः। निर्वाचनस्य नीतिः पालनीया इत्यनेन राष्ट्रस्य विकासप्रक्रिया स्थगिता भवन्ति इति राष्ट्राभिवृद्धेः बाधारूपेण राष्ट्रपतिना संसूचितम्।
वनसंरक्षणाय विशेषसेना
       कुमली > जङ्गिल् टास्क् फोर्स् इति वनसंरक्षण सेना सज्जा अभवत्। वनपालन विभागात् चयिताः एक विंशति (२१) कुशलाः तेषां अभ्यासं पूर्तीकृत्य विशेषसैनिकरूपेण तेषां दायित्वं स्वीकुर्वन्ति। मरयूर् चन्द्रनवने तथा पेरियार् व्याघ्रसङ्केते च एतेषां कर्मभूमित्वेन निश्चितम्। अत्याधुनिक गोलिकाशस्त्रमपि तेषाम् उपयोगाय सन्ति। चन्दनद्रुमतस्करान् तथा वन्यपशुहन्तारमपि निवारयितुं शक्यते अनेन नूतनसामग्र्या।
साम्पतिकोपकक्षा, भारतेन सह चर्चायै सन्नद्धः इति चीनः।
बैजिङ् > पाक्‌ अधीनकाश्मीरेण गम्यमानः भारत चीनराष्ट्रयोः साम्पत्तिकोपकक्षामधिकृत्य भारतेन सः अभिमत-प्रकाशनाय सन्नद्धः इति चीनेन उच्यते। उभययोः राष्ट्रयोः अभिलाषान् परिगणय्य समस्यापरिहारः भवति इति  चीनस्य वैदेशकर्यप्रवक्ता हुव चुनैङ् अवदत्। चैन-पाकिस्थान् साम्पतिकोपकक्षा एका साम्पतिक सहकारितायाः योजना भवति। योजनेयं तृतीयं उद्दिश्य न इत्यपि तेन भणितम्।
संस्कृतस्य प्रभावः आमुखपटले (फेसबुक) मध्ये अपि दृश्यते।
प्रथमवारं फेसबुक मध्ये बाल प्रतिभा सम्मान लघु-चलचित्र-प्रतियोगितायाः प्रारम्भः
        वर्तमान समये अनेकाः जनाः संस्कृत सम्भाषणं उत्साहेन कुर्वन्ति सम्पूर्ण जनसञ्चामाध्यमं मध्ये संस्कृतं संस्कृतं सर्वत्र संस्कृतम् इति लक्ष्यं संस्कृतज्ञः कृतवन्तः।आमुखपटलोपरि (फेसबुक) बहवः संस्कृतज्ञः प्रतिदिनं नूतन कार्यं कृत्वा संस्कृतस्य प्रचारं प्रसारं च कुर्वन्ति। प्रथमम् आदरणीय संस्कृतसमर्पितं संस्कृतसेवकः जगदानन्द झा (लखनऊ) महोदयेन, डा. चन्द्रकान्त दत्त शुक्ल: (वाराणसी) महोदयेन च फेसबुक मध्ये संस्कृतं (लाइव) जीवंतप्रतियोगितायाः प्रारम्भं कृतः प्रथमवारं कालिदास जयन्ती उपलक्ष्ये अनेकाः जनाः तत्र प्रतिभागं कृतवन्तः। अनन्तरं प्रो. मदन मोहन झा (नवदेहली) महोदयेन फेसबुक मध्ये संस्कृत (लाइव) व्याख्यानम् इति कार्यक्रम:  कृतवान् इदानीमपि अस्मिन् कार्यक्रम: प्रचलन् अस्ति । यदा द्वितीयवारं जगदीश डाभी (गुजरात) महोदयेन संस्कृत जनभाषा भवेत् फेसबुक समूहे संस्कृतं ज्ञानर्धकं (लाइव) जीवंत-प्रश्नोत्तरी प्रतियोगिता प्रत्येक-रविवासरे रात्रौ नव वादनतः दश-वादन पर्यन्तम् आरब्धाः। इदानीमपि अस्मिन् प्रतियोगिता प्रचलन् अस्ति । यदा तृतीयवारम् अमित ओली (उत्तराखंड) महोदयेन संस्कृतं बाल-प्रतिभा सम्मान नाम्नी प्रतियोगितायाः चर्चा कृत्वा नूतन प्रतियोगितायाः प्रारम्भः कृतः।
         संस्कृत कार्यार्थे वाराणसीत: डा. चन्द्रकान्त दत्त शुक्लमहोदयस्य मार्गदर्शनानुसारं संस्कृतं बाल-प्रतिभा सम्मान नाम्नी प्रतियोगितायाः आयोजनम् अमित: ओली, जगदीश: डाभी, डा. संध्या ठाकुर: (कानपुर) च कृतवन्त: । अस्मिन् संस्कृत बाल प्रतिभा सम्मान प्रतियोगिताया: आयोजनं युवा दिवश स्वामी विवेकानन्द महोदयस्य १५४ पुण्यतिथि:, लोहणी