OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 30, 2018

संस्कृतस्य प्रभावः आमुखपटले (फेसबुक) मध्ये अपि दृश्यते।
प्रथमवारं फेसबुक मध्ये बाल प्रतिभा सम्मान लघु-चलचित्र-प्रतियोगितायाः प्रारम्भः
        वर्तमान समये अनेकाः जनाः संस्कृत सम्भाषणं उत्साहेन कुर्वन्ति सम्पूर्ण जनसञ्चामाध्यमं मध्ये संस्कृतं संस्कृतं सर्वत्र संस्कृतम् इति लक्ष्यं संस्कृतज्ञः कृतवन्तः।आमुखपटलोपरि (फेसबुक) बहवः संस्कृतज्ञः प्रतिदिनं नूतन कार्यं कृत्वा संस्कृतस्य प्रचारं प्रसारं च कुर्वन्ति। प्रथमम् आदरणीय संस्कृतसमर्पितं संस्कृतसेवकः जगदानन्द झा (लखनऊ) महोदयेन, डा. चन्द्रकान्त दत्त शुक्ल: (वाराणसी) महोदयेन च फेसबुक मध्ये संस्कृतं (लाइव) जीवंतप्रतियोगितायाः प्रारम्भं कृतः प्रथमवारं कालिदास जयन्ती उपलक्ष्ये अनेकाः जनाः तत्र प्रतिभागं कृतवन्तः। अनन्तरं प्रो. मदन मोहन झा (नवदेहली) महोदयेन फेसबुक मध्ये संस्कृत (लाइव) व्याख्यानम् इति कार्यक्रम:  कृतवान् इदानीमपि अस्मिन् कार्यक्रम: प्रचलन् अस्ति । यदा द्वितीयवारं जगदीश डाभी (गुजरात) महोदयेन संस्कृत जनभाषा भवेत् फेसबुक समूहे संस्कृतं ज्ञानर्धकं (लाइव) जीवंत-प्रश्नोत्तरी प्रतियोगिता प्रत्येक-रविवासरे रात्रौ नव वादनतः दश-वादन पर्यन्तम् आरब्धाः। इदानीमपि अस्मिन् प्रतियोगिता प्रचलन् अस्ति । यदा तृतीयवारम् अमित ओली (उत्तराखंड) महोदयेन संस्कृतं बाल-प्रतिभा सम्मान नाम्नी प्रतियोगितायाः चर्चा कृत्वा नूतन प्रतियोगितायाः प्रारम्भः कृतः।
         संस्कृत कार्यार्थे वाराणसीत: डा. चन्द्रकान्त दत्त शुक्लमहोदयस्य मार्गदर्शनानुसारं संस्कृतं बाल-प्रतिभा सम्मान नाम्नी प्रतियोगितायाः आयोजनम् अमित: ओली, जगदीश: डाभी, डा. संध्या ठाकुर: (कानपुर) च कृतवन्त: । अस्मिन् संस्कृत बाल प्रतिभा सम्मान प्रतियोगिताया: आयोजनं युवा दिवश स्वामी विवेकानन्द महोदयस्य १५४ पुण्यतिथि:, लोहणी
पर्वम्, मकर संक्ररान्तिपर्वं, २६ जनवरीतम गणतंत्रपर्वं च इव पर्वोपलक्ष्ये कृतवन्त: । अस्य बाल-प्रतिभा सम्मानस्य केचन् नियमाः अपि सन्ति । यथा अस्यां प्रतियोगितायां जनवरी १ त: १३ तावत् ०३ वर्षतः १४ वर्ष पर्यन्तं ३ निमेषतः ५, निमेष पर्यन्तं मौलिक-स्वलघुचलचित्राणि आमंत्रितं कृतवान् । यथा संस्कृतं श्लोकपाठं, गीतम्, लघु-व्याख्यानं च । १४ जनवरी तमेदिवसे प्राप्तं चलचित्राणि आमुखपटलस्य ''विश्वसंस्कृतकुटुम्बकम्" VISHWA SANSKRIT KUTUMBAKAM" इति समूहोपरि स्थापितवान्। अनन्तरं २६ जनवरी अर्थात् गणतंत्रदिवसे एक पञ्च सदस्यीय निर्णायक-मण्डलस्य गठनं कृतवान् । प्रो. मदनमोहन झा, डा.राजेन्द्र त्रिपाठी (रसराज), श्री जगदानन्द झा, डा. अरविन्द तिवारी, डा. नवलता
च द्वारा नियमानुसारं परिणामं घोषितं जातम् । अस्यां प्रतियोगितायां
प्रथम-स्थानं गृहीतवता कर्नाटकत: पुष्पा, द्वितीया उत्तराखण्डत: अनन्या तिवाडी़, तृतीया उत्तरप्रदेशत: भूमिका भारद्वाज, चतुर्थ-स्थाने
छत्तीसगढत: नंदिनी पटेलः, पंचम-स्थाने पुणेत: स्वामिनी निलेश गाण्डे, षष्ठ-स्थाने पुणेत: स्वराली श्रीरंग कुलकर्णी च आसन् ।
     यदा अस्य प्रतियोगिताया: पुरुस्कार: प्रयोजका: अपि सन्ति । तेषां---
     प्रथम-स्थानस्य कृते चातुर्वेद संस्कृतं प्रचार-प्रसारश्च संस्थानस्य वाराणसीतः आदरणीय डा. चन्द्रकान्त दत्त शुक्ल वाराणसीपक्षत: पुरस्कार: ₹ ११००, द्वितीय-स्थानस्य कृते अनूप कुमार जोशी - जयपुरपक्षत: पुरस्कार: ₹ ५५१, तृतीय-स्थानस्य कृते नारायण दत्त मठपालपक्षत: पुरस्कार: ₹ ५५१, चतुर्थ-स्थानस्य कृते नीता राम भारद्वाज - हिमाचल प्रदेशपक्षत: पुरस्कार: ₹ २५२, पंचम-स्थानस्य कृते डॉ. राजेश त्रिपाठी - वाराणसीपक्षत: पुरस्कार: ₹ २००, अंतिम षष्ठ-स्थानस्य कृते नीलमणी शास्त्री - जयपुरपक्षत: पुरस्कार: ₹ १५१ च आसन् ।
         अस्य प्रतियोगिताया: आयोजका: अमित: ओली, जगदीश: डाभी, डॉ. संध्या ठाकुर: च आसन्