OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, December 6, 2025

 भारत-दक्षिणाफ्रिका 

अन्तिमम् एकदिनम् अद्य। 

विशाखपत्तनं> भारत-दक्षिणाफ्रिकयोः अन्तिमा तृतीया च एकदिनक्रिकट् प्रतिस्पर्धा अद्य मध्याह्ने १. ३० वादने आरप्स्यते। यो दलः विजयं प्राप्स्यति तस्मै परम्परां प्राप्तुमर्हति। 

  अतीते स्पर्धाद्वये अपि विनष्टोत्क्षेपनिर्णयः भारतीयदलः एकस्यां विजयं अन्यस्यां पराजयमपि रोचते स्म।

 व्योमयात्रायां प्रतिसन्धिः। 

इन्डिगोसंस्थायाः उपसहस्रं विमानानि निरस्तानि। 

इन्डिगोप्रतिसन्धौ आशङ्काकुलाः यात्रिकाः। 

नवदिल्ली> अतीते दिनद्वये इन्डिगोसंस्थायाः विमानसेवा  अव्यवस्थीकृता जाता। द्वित्राणि दिनान्यपि एषः क्रमभङ्गः अनुवर्तिष्यते इति सूच्यते। 

  वैमानिकानां सेवानिष्कर्षे विधत्तेन परिवर्तनेन जातः वैमानिकदौर्लभ्य एव प्रतिसन्धेः कारणम्। सहस्रशः यात्रिकाः दिनद्वयेन क्लेशमनुभवन्ति। 

  यात्राप्रतिसन्धौ विपक्षदलीयसदस्याः संसदः अन्तः बहिश्च प्रतिषेधः विधत्तः। विषये गृहमन्त्रिणः अमित शाहस्य व्यवहारे जाते डि जि सि ए इत्यनेन समस्यापरिहाराय प्रक्रमः आरब्धः। शनिवासरादारभ्य प्रतिसन्धेः लाघवं भविष्यतीति इन्डिगो संस्थायाः सि ई ओ पदीयः पीटर् एल्बेर्स् इत्यनेन प्रस्तुतम्।

Friday, December 5, 2025

केरलेषु संस्कृतदिनाचरणं सम्पन्नम्।

  कालटी> केरलसर्वकारस्य राज्यस्तरीयं संस्कृदिनाचरणं अद्य सम्पूर्णम् अभवत्।  कलटी श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य परिसरे आसीत् मेलनम्। कार्यक्रमस्य अध्यक्षः शैक्षिकविभागस्य उपनिर्देशकः श्री. षिबु आर् आसीत्। कार्यक्रमस्य उद्घाटनं संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफ. गीताकुमारी अकरोत्।  संस्कृतभाषायां विद्यमानां वैज्ञानिकतां ज्ञात्वा एव विदेशीयाः संस्कृतभाषाध्ययनाय  समागताः सन्ति इति महाभागया उक्तम्। 

 चिकित्सार्थं खालिदा सिया लण्टनं नीयते। 


धाक्का> धाक्कास्थे आतुरालये अतिक्लिष्टावस्थायां परिचरणे वर्तमाना बङ्गलादेशस्य भूतपूर्वप्रधानमन्त्री बी एन् पी दलस्य अध्यक्षा च खालिदा सिया श्रेष्ठचिकित्सार्थं लण्टनं नेष्यते। खालिदायाः  परिचरणं कुर्वतः  वैद्यसंघस्यायं निर्णयः। अद्य रात्रौ खत्तरस्य 'रोयल् एयर् आम्बुलन्स्' द्वारा भवेत् तस्याः गमनम्।

 श्रीलङ्कायां भारतेन 'बेय्लिसेतुः' निर्मीयते। 

कोलम्बो> डिट् वा चक्रवातस्य दुष्प्रभावात् जातेन प्रलयेन महान्तं विनाशं दुरापन्ने श्रीलङ्काराष्ट्रे बेय्लिसेतुं निर्मातुं भारतं सन्नद्धमभवत्।  सेतुनिर्माणाय उपकरणानि ५०० जलशुद्धीकरणसंविधानानि च वायुसेनायाः विमाने श्रीलङ्कामानीतानि। सेतुनिर्माणे कुशलाः तन्त्रविदः,  दुरन्ताधीनानां साहाय्यार्थं वैद्यानभिव्याप्य २२ अङ्गोपेतः संघश्च श्रीलङ्कां प्राप्ताः। 

  ओपरेषन् सागरबन्धुः इत्यस्य अंशतया एव भारतस्य साह्यम्। गतसप्ताहे दुरापन्ने प्रलये अद्यावधि ४७९ जनाः मृत्युवशं गताः। ३५० जनाः अप्रत्यक्षाः जाताः च। बहवः जनपदाः पृथक्कृताः वर्तन्ते।

 पुतिनः भारतं सम्प्राप्तवान्।

व्लादिमिर्  पुतिनः नरेन्द्र मोदी च। 

नवदिल्ली> २३ तमे भारत-रूसयोः सांवत्सरीयोच्चमेलने भागं गृहीतुं रूसराष्ट्रपतिः व्लादिमीर पुतिनः भारतं सम्प्राप्तवान्। गुरुवासरे सायं ६.३५ वादने  दिल्ल्यां पालं विमाननिलयं सम्प्राप्तं पुतिनं भारतप्रधानमन्त्री नरेन्द्रमोदी साक्षात् गत्वा स्वीकृतवान्। २०२१ तमस्यानन्तरं पुतिनस्य प्रथमं भारतसन्दर्शनं भवत्येतत्।

  कञ्चित् विदेशनेतारं विमाननिलयं गत्वा  स्वीकृतवान् इति प्रधानमन्त्रिणः नयतन्त्रप्रक्रमः अस्मै सन्दर्शनाय  भारतेन प्रदत्तं प्राधान्यं सूचयति। पुतिनेन सह रूसीयवाणिज्यमण्डलस्य बृहत्संघोSपि आगतः अस्ति।

Thursday, December 4, 2025

 कोह्लिनः ऋतुराजस्य च शतकं विफलम्। 

द्वितीये एकदिने दक्षिणाफ्रिकायाः विजयः। 

रायपुरं> विराट कोह्लिनः (१०२) ऋतुराज गेय्कवादस्य (१०५) च शतकाभ्यां भारताय महान् प्राप्ताङ्कः उपलब्ध अपि दक्षिणाफ्रिकां विरुध्य द्वितीये एकदिनप्रतिद्वन्द्वे भारतं पराजयं रुरोच। भारतीयकन्दुकक्षेपकान् प्रहृत्य परवशीकृत्य दक्षिणाफ्रिका द्वारकचतुष्टयस्य विजयमग्रहीत्। 

  प्रथमे चरणे भारतेन ५० क्षेपणचक्रेषु पञ्च द्वारकाणां विनष्टे ३५८ धावनाङ्काः प्राप्ताः। प्रत्युत्तरेण दक्षिणाफ्रिका ४९.२ क्षेपणचक्रेषु षट् द्वारकाणां विनष्टे ३६२ धावनाङ्काः प्राप्ताः। दक्षिणाफ्रिकायाः पक्षतः प्रारम्भकः एय्डन् मार्क्रमः ११० धावनाङ्कान् सम्प्राप्य विजयस्य आधारशिलां रोपितवान्। ततः ब्रीट्स् के [६८ धावनाङ्काः ६४ कन्दुकैः], ब्रेविस् [५४ /३४], नायकः तेम्बा बवुमः [ ४६ ] च दक्षिणाफ्रिकां विजयमनयन्। 

  प्रथमे एकदिने भारतं विजयं प्राप्नोति स्म। अनेन स्पर्धात्रयात्मिका एकदिनपरम्परा इदानीं समस्थितिं भजते। अन्तिमा स्पर्धा शनिवासरे सम्पत्स्यते।

 रष्या-भारतशिखरमेलनं

व्लादिमिर् पुतिनः अद्य भारतं प्राप्नोति। 


नवदिल्ली> राष्याराष्ट्रपतिः व्लादिमिर् पुतिनः दिनद्वयात्मकसन्दर्शनार्थं गुरुवासरे भारतं प्राप्स्यति। उभयोरपि राष्ट्रयोः २३ तमं शिखरमेलनं शुक्रवासरे दिल्ल्यां हैदराबाद हौस् इत्यत्र सम्पत्स्यते। भारतं प्रति ट्रम्पस्य शुल्कयुद्धे अनुवर्तमाने सम्मेलनस्य प्राधान्यं कल्पते।

  व्यापार-वाणिज्यमण्डलेषु सहयोगः उभयपक्षचर्चायाः मुख्यविषयो भविष्यति। भारतात् मत्स्यविभवानां तथा आलुक-मातुलुङ्गानां च निर्याताय विपणीमारब्धुं निर्णयः अस्मिन् मेलने प्रतीक्षते। अनेन सह भारत-रूस् सैनिकसन्धेः रूसीयसंसदः अङ्गीकारः लब्धः इति सैनिकक्षेत्रे च नूतनसहयोगः भविष्यति।

 प्रधानमन्त्रिणः कार्यालयसमुच्चयस्य नाम परिष्कृतम्। 

नवदिल्ली> प्रधानमन्त्रिणः कार्यालयान्तर्भूतस्य भवनसमुच्चयस्य 'सेवातीर्थ' इति नूतनं नाम विधत्तम्। सेन्ट्रल् विस्ता अभियोजनायां निर्माणं पूर्तीकृतस्य भवनसमुच्चयस्य Executive Enclave इति  नाम आसीत्। एतन्नाम एव परिष्कृतम्। 

  एषः नामधेयपरिष्कारः न केवलं प्रशासनपरं किन्तु सांस्कृतिकं धार्मिकं चास्तीति अधिकारिभिरुक्तम्। राज्येषु राज्यपालानां भवनं लोकभवनमिति नाम्ना परिष्कर्तुं निर्णयमासीत्।

Wednesday, December 3, 2025

 डिट् वा चक्रवातः - श्रीलङ्कायै भारतस्य साहाय्यम्। 

कोच्ची> डिट् वा चक्रवातस्य दुष्प्रभावेण महान्तं क्लेशमनुभूयमानाय श्रीलङ्कराष्ट्राय भारतस्य उदारसाहाय्यं विधत्तम्। 'ओपरेषन् सागरबन्धुः' इति कृतनामधेयस्य साहाय्यस्य अंशतया ५३ टण् मितानि अवश्यवस्तूनि लङ्कामुपनीतानि। श्रीलङ्कायां लग्नाः २००० भारतीयाः स्वराष्ट्रमानीताः। 

  भारतनौसेनायाः नेतृत्वे दुरिताश्वासप्रवर्तनानि अनुवर्तन्ते। ऐ एन् एस् विक्रान्तः, ऐ एन् एस् उदयगिरिः इत्येतयोः महानौकयोः नेतृत्वे रक्षाप्रवर्तनानि आरब्धानि। महानौकाभ्यां उदग्रयानानि विन्यस्य रक्षाप्रवर्तनानि ऊर्जस्वलेन प्रचलन्ति।

 राष्ट्रपतिः अद्य केरले।


अनन्तपुरी> नौसेनादिनोत्सवे भागं कर्तुं राष्ट्रपतिः द्रौपदी मुर्मू वर्या अद्य सायं केरलं सम्प्राप्नोति। नौसेनादिनोत्सवे मुख्यातिथिः भवति  राष्ट्रपतिः। सेनया सज्जीकृतं चलच्चित्रद्वयं [Telefilm] राष्ट्रपतेः पुरतः प्रदर्शयिष्यते।  ततः लोकभवनं प्राप्यमाणा मुर्मूवर्या गुरुवासरे प्रातः ९. ४५ वादने दिल्लीं प्रतिनिवर्तयिष्यति।

 'ब्रह्मोस्' निर्माणाय केरलम् अनुज्ञितम्। १८० एकरमितम्।

सशस्त्रसीमाबलाय ४५ एकरमितं, फोरन्सिक् विश्वविद्यालयाय ३२ एकरमितं च।


नवदिल्ली> केरले 'ब्रह्मोस्' नामकाग्निबाणस्य निर्माणाय  भूमिम् दातुं राज्यसर्वकाराय सर्वोच्चन्यायालयस्य अनुज्ञा लब्धा।  तिरुवनंतपुरं जनपदस्थस्य  नेट्टकाल्त्तेरी अपावृतकारागृहस्य  [Open Jail] १८० एकरमितं भूमिं केन्द्रप्रशासनस्य ब्रह्मोस् निर्माणसंस्थायै दातुं न्याया. विक्रमनाथस्य आध्यक्षे वर्तमानेन नीतिपीठेन आदिष्टम्। केरलसर्वकारस्य अर्थनायामासीत् नीतिपीठस्य अनुज्ञा। 

  Brahmos Airospace Trivandrum Ltd (BATL) संस्थायै भूमिदानेन राष्ट्रसुरक्षा, प्रतिरोधाभिवृद्धिः इत्यादीनां साक्षात् योगदानाय शक्यते इति राज्यसर्वकारस्याभिमतं सर्वोच्चन्यायालयेन अङ्गीकृतम्। तथा च सशस्त्रसीमाबलम् इति केन्द्रसायुधारक्षकसेनायै [SSB] ४५ एकरमितं, Central Forensic sciences University इत्यस्मै ३२ एकरमितं च भूमिम् अनुमोदितुं राज्यसर्वकारस्य अपेक्षा च न्यायालयेन अङ्गीकृतम्।

Tuesday, December 2, 2025

 जोर्जियराज्ये रासायुधप्रयोगः। 

राज्यविरुद्धसमरान् नियन्त्रितुं जोर्जिय सर्वकारेण रासायुधप्रयोगः कृतः इत्यस्ति प्रतिवेदनम्। द्वितीये विश्वमहायुद्धे उपयुक्तं कामैट् नाम रासवस्तु अत्रापि उपयुक्तम्। यूरोपीयगणे जोर्जिया राज्यस्य प्रवेशनम् उद्दिश्य सर्वकारेण अनवरतं क्रियमाणः प्रयासः  स्थागितः इत्युक्त्वा आसीत्  समरः।

 कायिकभारताय संसदः अभिनन्दनम्। 

नवदिल्ली> इदंप्रथमतया महिलानां विश्वचषकक्रिकटकिरीटं प्राप्तवते भारतदलाय, दर्शनपरिमितानां टि - २० क्रिकट् विश्वचषकं प्राप्तवते भारतदलाय च संसदः अभिनन्दनं समर्पितम्। लोकसभाध्यक्षः ओं बिर्लवर्यः तदर्थं अभिनन्दनपत्रं प्रस्तुतवान्। 

  सोमवासरे प्रभाते सभायाः उपवेशने प्रथमं दिवंगतानां भूतपूर्वसदस्यानां कृते उपचारः समर्पितः। तेभ्यः आदरं संसूच्य  निमेषं यावत् मौनाचरणं कृतम्। तदनन्तरमासीत् कायिकभारताय अभिनन्दनं   संवृत्तम्।

 संसदः शीतकालमेलनं समारब्धम्। 


नवदिल्ली> भारतसंसदः शीतकालमेलनं सोमवासरे आरब्धम्। मतदान्यावल्याः तीव्रपरिष्करणं - SIR - स्थगयितव्यम् इति विपक्षीयदलानां कोलाहले प्रथमदिनं प्रक्षुब्धमभवत्। प्रत्युत, राज्यसभाध्यक्षरूपेण प्रथमतया सभां प्रति समागतवन्तं उपराष्ट्रपतिं सि पी राधाकृष्णमभिनन्द्य राज्यसभायां चर्चा संवृत्ता।

 डिट्वा तमिलनाटे च।

अष्ट मरणानि। 

चेन्नै> डिट्वा चक्रवातस्य दुष्प्रभावेण तमिलनाटे अपि कष्टनष्टानि जातानि। चक्रवाते तीव्रन्यूनमर्दरूपेण चैन्नैनगरस्य ३० कि मी दूरे स्थिते चेन्नै, चेङ्कल् पेट्, काञ्चीपुरं, तिरुवल्लुवरजनपदेषु अतिवृष्टिः अभवत्। वृष्टिदुष्प्रभावे अष्ट जनाः मृत्युमुपगताः। उपर्युक्तेषु जनपदेषु पर्यावरणनिरीक्षणविभागेन 'ओरञ्ज'जागरूकता उद्घोषिता आसीत्। 

Monday, December 1, 2025

 सम्बलपुरविश्वविद्यालये संस्कृतवभागे गीता-महोत्सवः

   भगवतः श्रीकृष्णस्य मुखनिसृतवाणी भगवद्गीता इति प्रसिद्धा। सा गीता मनुष्याणां नानाविधप्रश्नानां समाधानं प्रदास्यति, अतः सा ज्ञानरूपिणी। गीता मनुष्यं कर्तव्यपालनाय, समत्वबुद्ध्याः संवर्धनाय, आत्मज्ञानस्य प्राप्तये च प्रेरयति। भारतीयवाङ्मये गीता अत्यन्तं महत्त्वपूर्णं स्थानं मन्यते। प्रतिवर्षं मार्गशिर-मासस्यैकादश्यां दिने गीताजयन्ती इति उत्सवः परिपाल्यन्ते। अद्य प्रथमवारं सम्बलपुरविश्वविद्यालये गीता-महोत्सवः सम्यक् उल्लसित रूपेण परिपालयति। गीता-ग्रन्थस्य पूजनं कृत्वा पी.जी.सी. अध्यक्षः प्राध्यापकः तुषारकान्तिदासः संस्कृतस्नातकोत्तर-विभागस्य आयोजना-कार्यक्रमस्य उद्घाटनं कृतवान्। विभागस्य संयोजकः डा. गोपीनाथबाग् गीता-जयन्ती-सम्बन्ध-मञ्च परचालनां प्रस्तुतवान्।


 ईस्कॉन-बुर्लायाः संन्यासी प्रवक्ता च सान्दीपनीमुनिदासः गीता-विषये विस्तीर्णां चर्चां कृतवान्। तत्र छात्रछात्रेषु गीता-सामान्यज्ञान-प्रतियोगिता तथा श्लोक-आवृत्ति-प्रतियोगिता अपि आयोजितं आसीत्।सामान्यज्ञानः-प्रतियोगितायां सङ्घमित्रा षडङ्गी प्रथमस्थानं प्राप्तवती, अङ्किता साहू द्वितीयम्, सन्ध्यास्मिता प्रधानः तृतीयस्थानम् अलभत। श्लोक-आवृत्ति-प्रतियोगितायामपि सङ्घमित्रा प्रथमम्, अङ्किता द्वितीयम्, निराक्षी भोई तृतीयस्थानम् च प्राप्तवती। अस्मिन् अवसरे आयोजित सभायाम् ओडिया-विभागाध्यक्षः डा. नाकुहांसदा, डा. शुकमुनिमेहरः, डा. भरद्वाजसाहुः, डा. अनुपमशर्माः, डा. सुनीतिदेवता, डा. प्रियांकाप्रधान,डा. बन्दितानायक, डा. सविताबाला नायक, अध्यापिका ज्योतिर्मयीमहारणा, अध्यापिका ज्योतिरेखात्रिपाठी, श्रीसुविमलमहान्ति, डा. चन्द्रकान्तमहानन्दः च उपस्थिताः आसन्। कार्यक्रमपरिचालनायां रञ्जनकुमारमाझी, बलरामकटाः, चाम्पाईमूर्मुः, मानसमोहनहेम्ब्रं, रविशङ्करबारीकः च सहयोगं कृतवन्तः। कार्यक्रमान्ते अध्यापिका डा. नीहारिका प्रधानः सर्वेभ्यः धन्यवादम् अर्पितवती ॥

 दिल्ली भीकराक्रमणम् 

'इमामः' अन्यः च निगृहीतौ। 

नवदिल्ली> दिल्ली रक्तदुर्ग भीकराक्रमणप्रकरणे आत्मघातिः उमर नबी इत्येनेन सम्बन्धः सन्दिह्यमानः आराधनालयपुरोहितः - इमामः -इतरः च एन् ऐ ए संस्थया निगृहीतौ। उत्तराखण्डस्थे हल्द्वानी इत्यस्मात् बिलाली आराधनालयस्य पुरोहितः मुहम्मद आसिफः, वैद्युतिकः  - electrician - नासर् कमाल नामकश्च निगृहीतौ। एतौ आत्मघातिना उमर नबिना सह दूरवाणीसम्बन्धं कृतवन्तौ इति सूच्यते।