OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, December 1, 2025

 एस् ऐ आर् प्रक्रिया - कालपरिधिः दीर्घिता। 

नवदिल्ली> नवसु राज्येषु त्रिषु केन्द्रप्रशासनप्रदेशेषु च आरब्धायाः मतदान्यावल्याः तीव्रपरिष्करणप्रक्रियायाः - SIR  - कालपरिधिः निर्वाचनायोगेन सप्ताहं यावत् दीर्घिता। मन्दगत्या एव राज्येषु SIR प्रक्रिया प्रचाल्यते इत्यत एवायं निर्णयः। किन्तु लक्षद्वीपेन इयं प्रक्रिया १००% पूर्तीकृता। गोवा, राजस्थानं, पश्चिमवंगः, मध्यप्रदेशः, पुतुच्चेरी इत्येतेषु राज्येषु ९० प्रतिशतात्परं पूर्तीकृता। इतरेषु राज्येषु ८०% एव पूर्तीकृता। 

  नूतननिर्णयमनुसृत्य परिसंख्यानपत्रिका [Enumeration form] डिसम्बर् ११तमःपर्यन्तं दातुं शक्यते। पूर्वं डिसम्बर् चतुर्थदिनाङ्कपर्यन्तम्  आसीत्। संक्षिप्तमतदान्यावल्याः प्रकाश्यमानदिनं डिसम्बर् ९ इत्येतत् १६ इति परिवर्तितम्। अन्तिमा आवलिः फेब्रुवरी १४तमे दिनाङ्के प्रकाशयिष्यते।