कोह्लिनः ऋतुराजस्य च शतकं विफलम्।
द्वितीये एकदिने दक्षिणाफ्रिकायाः विजयः।
रायपुरं> विराट कोह्लिनः (१०२) ऋतुराज गेय्कवादस्य (१०५) च शतकाभ्यां भारताय महान् प्राप्ताङ्कः उपलब्ध अपि दक्षिणाफ्रिकां विरुध्य द्वितीये एकदिनप्रतिद्वन्द्वे भारतं पराजयं रुरोच। भारतीयकन्दुकक्षेपकान् प्रहृत्य परवशीकृत्य दक्षिणाफ्रिका द्वारकचतुष्टयस्य विजयमग्रहीत्।
प्रथमे चरणे भारतेन ५० क्षेपणचक्रेषु पञ्च द्वारकाणां विनष्टे ३५८ धावनाङ्काः प्राप्ताः। प्रत्युत्तरेण दक्षिणाफ्रिका ४९.२ क्षेपणचक्रेषु षट् द्वारकाणां विनष्टे ३६२ धावनाङ्काः प्राप्ताः। दक्षिणाफ्रिकायाः पक्षतः प्रारम्भकः एय्डन् मार्क्रमः ११० धावनाङ्कान् सम्प्राप्य विजयस्य आधारशिलां रोपितवान्। ततः ब्रीट्स् के [६८ धावनाङ्काः ६४ कन्दुकैः], ब्रेविस् [५४ /३४], नायकः तेम्बा बवुमः [ ४६ ] च दक्षिणाफ्रिकां विजयमनयन्।
प्रथमे एकदिने भारतं विजयं प्राप्नोति स्म। अनेन स्पर्धात्रयात्मिका एकदिनपरम्परा इदानीं समस्थितिं भजते। अन्तिमा स्पर्धा शनिवासरे सम्पत्स्यते।