OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, December 5, 2025

 श्रीलङ्कायां भारतेन 'बेय्लिसेतुः' निर्मीयते। 

कोलम्बो> डिट् वा चक्रवातस्य दुष्प्रभावात् जातेन प्रलयेन महान्तं विनाशं दुरापन्ने श्रीलङ्काराष्ट्रे बेय्लिसेतुं निर्मातुं भारतं सन्नद्धमभवत्।  सेतुनिर्माणाय उपकरणानि ५०० जलशुद्धीकरणसंविधानानि च वायुसेनायाः विमाने श्रीलङ्कामानीतानि। सेतुनिर्माणे कुशलाः तन्त्रविदः,  दुरन्ताधीनानां साहाय्यार्थं वैद्यानभिव्याप्य २२ अङ्गोपेतः संघश्च श्रीलङ्कां प्राप्ताः। 

  ओपरेषन् सागरबन्धुः इत्यस्य अंशतया एव भारतस्य साह्यम्। गतसप्ताहे दुरापन्ने प्रलये अद्यावधि ४७९ जनाः मृत्युवशं गताः। ३५० जनाः अप्रत्यक्षाः जाताः च। बहवः जनपदाः पृथक्कृताः वर्तन्ते।