अवरजानां होक्की विश्वचषकः।
भारतं पूर्वान्त्यचक्रे। 
पूर्वान्त्यचक्रं प्रविष्टस्य भारतदलस्य आह्लादः।
चेन्नै> अवरजानां होक्की विश्वचषके [Junior Hokkey Worldcup] भारतं बल्जियं पराजित्य पूर्वान्त्यचक्रं प्राविशत्। अत्यन्तोत्साहयुक्ते प्रतिद्वन्द्वे दलद्वयमपि निश्चितसमये लक्ष्यद्वयं सम्पाद्य समस्थितिमभजत। ततः त्वरितलक्ष्यवेधने [Penalty Shoot out] ४ - ३ इति क्रमेण भारतं विजयतीरं प्राप्नोत्। रविवासरस्य पूर्वान्त्यस्पर्धायां जर्मनी अस्ति प्रतिद्वन्द्वी।