OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 3, 2025

 'ब्रह्मोस्' निर्माणाय केरलम् अनुज्ञितम्। १८० एकरमितम्।

सशस्त्रसीमाबलाय ४५ एकरमितं, फोरन्सिक् विश्वविद्यालयाय ३२ एकरमितं च।


नवदिल्ली> केरले 'ब्रह्मोस्' नामकाग्निबाणस्य निर्माणाय  भूमिम् दातुं राज्यसर्वकाराय सर्वोच्चन्यायालयस्य अनुज्ञा लब्धा।  तिरुवनंतपुरं जनपदस्थस्य  नेट्टकाल्त्तेरी अपावृतकारागृहस्य  [Open Jail] १८० एकरमितं भूमिं केन्द्रप्रशासनस्य ब्रह्मोस् निर्माणसंस्थायै दातुं न्याया. विक्रमनाथस्य आध्यक्षे वर्तमानेन नीतिपीठेन आदिष्टम्। केरलसर्वकारस्य अर्थनायामासीत् नीतिपीठस्य अनुज्ञा। 

  Brahmos Airospace Trivandrum Ltd (BATL) संस्थायै भूमिदानेन राष्ट्रसुरक्षा, प्रतिरोधाभिवृद्धिः इत्यादीनां साक्षात् योगदानाय शक्यते इति राज्यसर्वकारस्याभिमतं सर्वोच्चन्यायालयेन अङ्गीकृतम्। तथा च सशस्त्रसीमाबलम् इति केन्द्रसायुधारक्षकसेनायै [SSB] ४५ एकरमितं, Central Forensic sciences University इत्यस्मै ३२ एकरमितं च भूमिम् अनुमोदितुं राज्यसर्वकारस्य अपेक्षा च न्यायालयेन अङ्गीकृतम्।