पुतिनः भारतं सम्प्राप्तवान्।
![]() |
| व्लादिमिर् पुतिनः नरेन्द्र मोदी च। |
नवदिल्ली> २३ तमे भारत-रूसयोः सांवत्सरीयोच्चमेलने भागं गृहीतुं रूसराष्ट्रपतिः व्लादिमीर पुतिनः भारतं सम्प्राप्तवान्। गुरुवासरे सायं ६.३५ वादने दिल्ल्यां पालं विमाननिलयं सम्प्राप्तं पुतिनं भारतप्रधानमन्त्री नरेन्द्रमोदी साक्षात् गत्वा स्वीकृतवान्। २०२१ तमस्यानन्तरं पुतिनस्य प्रथमं भारतसन्दर्शनं भवत्येतत्।
कञ्चित् विदेशनेतारं विमाननिलयं गत्वा स्वीकृतवान् इति प्रधानमन्त्रिणः नयतन्त्रप्रक्रमः अस्मिन् सन्दर्शनविषये भारतेन प्रदत्तं प्राधान्यं सूचयति। पुतिनेन सह रूसीयवाणिज्यमण्डलस्य बृहत्संघोSपि आगतः अस्ति।
