OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, December 4, 2025

 रष्या-भारतशिखरमेलनं

व्लादिमिर् पुतिनः अद्य भारतं प्राप्नोति। 


नवदिल्ली> राष्याराष्ट्रपतिः व्लादिमिर् पुतिनः दिनद्वयात्मकसन्दर्शनार्थं गुरुवासरे भारतं प्राप्स्यति। उभयोरपि राष्ट्रयोः २३ तमं शिखरमेलनं शुक्रवासरे दिल्ल्यां हैदराबाद हौस् इत्यत्र सम्पत्स्यते। भारतं प्रति ट्रम्पस्य शुल्कयुद्धे अनुवर्तमाने सम्मेलनस्य प्राधान्यं कल्पते।

  व्यापार-वाणिज्यमण्डलेषु सहयोगः उभयपक्षचर्चायाः मुख्यविषयो भविष्यति। भारतात् मत्स्यविभवानां तथा आलुक-मातुलुङ्गानां च निर्याताय विपणीमारब्धुं निर्णयः अस्मिन् मेलने प्रतीक्षते। अनेन सह भारत-रूस् सैनिकसन्धेः रूसीयसंसदः अङ्गीकारः लब्धः इति सैनिकक्षेत्रे च नूतनसहयोगः भविष्यति।