OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 6, 2025

 व्योमयात्रायां प्रतिसन्धिः। 

इन्डिगोसंस्थायाः उपसहस्रं विमानानि निरस्तानि। 

इन्डिगोप्रतिसन्धौ आशङ्काकुलाः यात्रिकाः। 

नवदिल्ली> अतीते दिनद्वये इन्डिगोसंस्थायाः विमानसेवा  अव्यवस्थीकृता जाता। द्वित्राणि दिनान्यपि एषः क्रमभङ्गः अनुवर्तिष्यते इति सूच्यते। 

  वैमानिकानां सेवानिष्कर्षे विधत्तेन परिवर्तनेन जातः वैमानिकदौर्लभ्य एव प्रतिसन्धेः कारणम्। सहस्रशः यात्रिकाः दिनद्वयेन क्लेशमनुभवन्ति। 

  यात्राप्रतिसन्धौ विपक्षदलीयसदस्याः संसदः अन्तः बहिश्च प्रतिषेधः विधत्तः। विषये गृहमन्त्रिणः अमित शाहस्य व्यवहारे जाते डि जि सि ए इत्यनेन समस्यापरिहाराय प्रक्रमः आरब्धः। शनिवासरादारभ्य प्रतिसन्धेः लाघवं भविष्यतीति इन्डिगो संस्थायाः सि ई ओ पदीयः पीटर् एल्बेर्स् इत्यनेन प्रस्तुतम्।