प्रधानमन्त्रिणः कार्यालयसमुच्चयस्य नाम परिष्कृतम्।
नवदिल्ली> प्रधानमन्त्रिणः कार्यालयान्तर्भूतस्य भवनसमुच्चयस्य 'सेवातीर्थ' इति नूतनं नाम विधत्तम्। सेन्ट्रल् विस्ता अभियोजनायां निर्माणं पूर्तीकृतस्य भवनसमुच्चयस्य Executive Enclave इति नाम आसीत्। एतन्नाम एव परिष्कृतम्।
एषः नामधेयपरिष्कारः न केवलं प्रशासनपरं किन्तु सांस्कृतिकं धार्मिकं चास्तीति अधिकारिभिरुक्तम्। राज्येषु राज्यपालानां भवनं लोकभवनमिति नाम्ना परिष्कर्तुं निर्णयमासीत्।