केरलस्य प्रादेशिकसर्वकारनिर्वाचनम्।
प्रथमसोपानाय सघोषप्रचरणं श्वः समाप्यते।
अनन्तपुरी> केरले प्रादेशिकानां स्वयंशासनसंस्थानां कृते सदस्यनिर्वाचनप्रचारणं शक्तिमता प्रचलति। राज्यप्रशाशकाः वामपक्षदलीयाः [LDF] विपक्षिकाः ऐक्यजनाधिपत्यदलीयाः [UDF] च समासमं प्रचारणे प्रगच्छन्ति। भा ज पा दलीयाश्च आत्मविश्वासेन तेषां शक्तिप्रकाशनाय कठिनप्रयत्नं कुर्वन्ति च।
कुजवासरे गुरुवासरे च चरणद्वयेन निर्वाचनं सम्पत्स्यते। कुजवासरे निर्वाचनं सम्पद्यमानेषु तिरुवनन्तपुरं, कोल्लं, पत्तनंतिट्टा, आलप्पुष़ा, इटुक्की, कोट्टयम्, एरणाकुलम् इत्येतेषु ७ जनपदेषु सघोषप्रचरणं श्वः समाप्यते। इतरेषु ७ जनपदेषु कुजवासरस्य षट्वादनपर्यन्तं सघोषप्रचरणाय कालः विद्यते।