OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, December 5, 2025

केरलेषु संस्कृतदिनाचरणं सम्पन्नम्।

  कालटी> केरलसर्वकारस्य राज्यस्तरीयं संस्कृदिनाचरणं अद्य सम्पूर्णम् अभवत्।  कलटी श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य परिसरे आसीत् मेलनम्। कार्यक्रमस्य अध्यक्षः शैक्षिकविभागस्य उपनिर्देशकः श्री. षिबु आर् आसीत्। कार्यक्रमस्य उद्घाटनं संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफ. गीताकुमारी अकरोत्।  संस्कृतभाषायां विद्यमानां वैज्ञानिकतां ज्ञात्वा एव विदेशीयाः संस्कृतभाषाध्ययनाय  समागताः सन्ति इति महाभागया उक्तम्।