केरलेषु संस्कृतदिनाचरणं सम्पन्नम्।
कालटी> केरलसर्वकारस्य राज्यस्तरीयं संस्कृदिनाचरणं अद्य सम्पूर्णम् अभवत्। कलटी श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य परिसरे आसीत् मेलनम्। कार्यक्रमस्य अध्यक्षः शैक्षिकविभागस्य उपनिर्देशकः श्री. षिबु आर् आसीत्। कार्यक्रमस्य उद्घाटनं संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफ. गीताकुमारी अकरोत्। संस्कृतभाषायां विद्यमानां वैज्ञानिकतां ज्ञात्वा एव विदेशीयाः संस्कृतभाषाध्ययनाय समागताः सन्ति इति महाभागया उक्तम्।
