OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, January 5, 2026

 मडुरो ब्रूक्लिन् कारागृहे। 

निगडबद्धः निकोलास् मडुरो।

न्यूयोर्क्> डोनाल्ड ट्रम्पस्य निर्देशानुसारं यू एस् सैनिकैः निगृहीतः वेनस्वेलराष्ट्रपतिः निकोलास् मडुरो तस्य पत्न्या सह  न्यूयॉर्कस्थे ब्रूक् लिन् इत्यत्र  कुप्रसिद्धे 'मेट्रोपोलिटन् डिटन्षन् सेन्टर्' [Metropolitan Detention Center- MDC] नामके कारागृहे बद्धः। यू एस् राष्ट्रे बृहत्तमः 'फेडरल् कारागारो' भवत्ययम्। 

  १६०० संख्याकाः अपराधिनः अत्र न्यायवादं मार्गमाणाः सन्ति। उन्मादकवस्तुविपणनं, भीकरवादः इत्यादिषु अपराधेषु निगृहीतेषु तेषु कुप्रसिद्धाः अन्ताराष्ट्रियापराधिनः अपि वर्तन्ते। उन्मादकवस्तुविपणनमधिकृत्य नैके अपराधाः मडुरोवर्यस्य उपरि आरोप्य एव तस्य कारागारबन्धनम्। हस्तनिगडेन बद्धस्य मडुरोवर्यस्य वीडियोदृश्यानि बहिरागतानि। अधिकारिणः प्रति 'नववत्सराशंसाः' उक्त्वा एव तस्य कारागृहगमनम्।

Sunday, January 4, 2026

 

सार्थकयोगशाला-योगासनक्रीडाकादम्या: भव्यम् उद्घाटनम् ।

कण्वनगरी अधुना योगकारणात् सार्थकतामवाप्नोत् - ऋतुखण्डूरी (विधानसभाध्यक्षा)

योगक्षेत्रे राकेशकण्डवालस्य विद्यते महायोगदानम्  

-कुलदीपमैन्दोला

कोटद्वारम्> सार्थकयोगशालायोगासनक्रीडाकादम्याः विधिवतं भव्यं च उद्घाटनं माननीयाविधानसभाध्यक्षया श्रीमती-ऋतुखण्डूरी-भूषणमहाभागया करकमलैः सम्पन्नम्। अस्मिन् शुभावसरे राजनीतिक्षेत्रात् आरभ्य शिक्षाजगत्, शिक्षकसंघाः, क्रीडा–योगक्षेत्रे सम्बद्धाः च अनेके गणमान्यजनाः उपस्थिताः आसन्।

उद्घाटनसमारोहस्य अवसरे प्रसिद्धयोगप्रेमिभिः सह प्रायः द्विशतपञ्चाशत् (२५०) जनानां गरिमामयी उपस्थितिः कार्यक्रमं दिव्यं भव्यं च अकरोत्। अस्मिन् अवसरे  राजगौरव:,  नमनभटनागर: (जिलापरामर्शक:), मम युवाभारत – युवा-कल्याण-क्रीडा-मन्त्रालयः, भारतसरकारः), गुरुकुलमहाविद्यालय-कण्वाश्रमस्य पूज्यः स्वामीजी, श्री मनमोहननौटियालमहाभागः (प्रधानाचार्यः), आधुनिकभीमवैदिकगुरुकुलः, कण्वाश्रमः), अन्ताराष्ट्रिय पादकन्दुक-प्रशिक्षक: श्री सुनीलरावतमहाभागः तथा "डिस्कवर-उत्तराखण्ड 24 न्यूज "  इत्यस्य मुख्यसम्पादक: श्री अम्बेशपन्तमहाभागः

 २० मावोवादिनः आत्मसमर्पिताः। 

हैदराबादः> तेलङ्कानराज्ये २० मावोवादिनः कमान्डर् पदीयः देव इति कथ्यमानः बद्से सुक्का इत्यस्य नेतृत्वे आरक्षकाणां पुरतः  आत्मसमर्पिणं कृतवन्तः। हतः मावोवादिनेता माधवी हिद्मा इत्यस्य अनुचरः अस्ति बद्से।

 छत्तीसगढे १४ मावोवादिनः प्रतिद्वन्द्वे व्यापादिताः। 

सुग्मा> छत्तीसगढे सुग्मा, बीजपुरं जनपदद्वये सुरक्षासेनया सह आपन्ने विभिन्नयोः प्रतिद्वन्द्वयोः १४ मावोवादिनः हताः। हतेषु मङ्तु, हंग मड्कः इत्यादयः नैतारोSपि अन्तर्भवन्ति। महदायुधसंग्रहः अपि अधिगतः। जनपदद्वयस्य वनान्तरेषु इदानीमपि मार्गणमनुवर्तते।

 पानजले मालिन्यम्। 

मध्यप्रदेशे दश जनाः मृताः।

उपसहस्रं जनाः रोगबाधिताः; ३२ जनाः तीव्रपरिचर्याविभागे।

इन्दोर्> मध्यप्रदेशस्थे इन्दोरे मालिन्यमिश्रितं पानजलं पीत्वा दश जनाः मृत्युमुपगताः। नगरसभया नालिकाद्वारा  वितरणं कृते पानजले शौचालयमालिन्यं मिश्रीभूतमिति स्वास्थ्यविभागेन दृढीकृतम्। 

 सप्ताहाभ्यन्तरे उपसहस्रं जनाः अतिसार-वमनादिभिः पीडिताः आसन्। तेषु दश मृताः। ३२ रोगिणः तीव्रपरिचर्यायां वर्तन्ते।

 वेनस्वेलाम् अमेरिकायाः अधिनिवेशः।

राष्ट्रपतिः पत्न्या सह अपहृतः। 

राजधानीनगरमभिव्याप्य सप्त स्थानेषु अमेरिकायाः आक्रमणम्।

राष्ट्रपतिः मरुडोवर्यः भटैरावृतः वर्तते। 

कारक्कास्> दक्षिणामेरिकाभूखण्डे आसकलं युद्धभीतिम् उत्पाद्य अमेरिका वेनस्वेलाम् आक्रामत्। राष्ट्रमतिक्रम्य राष्ट्रपतिं निक्कोलास् मडुरोनामकं तस्य पत्नी सीलिया फ्लोरिस् नामिकां च अपहृत्य यू एस् सेना राष्ट्रान्तरम् अगमयत्। तौ राष्ट्रभ्रष्टौ अभवतामिति यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेनैव 'ट्रूत् सोष्यल्' द्वारा उक्तम्। 

  वेनस्वेलायां वर्तमानानाम् उन्मादकसंघानां यू एस् प्रति  उन्मादकवस्तूनामायाताय साहाय्यं करोति इत्यारोप्य आसीत् अमेरिकायाः सैनिकप्रक्रमः। शनिवासरे प्रत्युषसि द्विवादने [प्रादेशिकसमयः]  कारकास्नगरमभिव्याप्य वेनस्वेलायाः सप्त स्थानेषु यू एस् युद्धविमानानि बोम्बवर्षम् अकरोत्। षट् युद्धमहानौकाः वेनस्वेलां लक्ष्यीकृत्य विन्यस्ताः सन्ति। १५,००० यू एस् भटाः अपि सन्नद्धाः सन्ति।

Saturday, January 3, 2026

 इराने बहुजनप्रक्षोभः - बहवः मृताः। 

अमेरिकायाः उपरोधेन जातः  आर्थिकक्लेशः हेतुः। 

टेहरानः> नाणकवृद्धिः, इरानीयमुद्रा रियाल् इत्यस्य मूल्यशोषणम् इत्यादिभिः  जातस्य आर्थिकसङ्कटस्य हेतोः इरानराष्ट्रे आरब्धः बहुजनप्रक्षोभः अतिशक्तेन व्याप्यते। सुरक्षासेनया सह प्रतिद्वन्द्वे बहवः जनाः मृताः।  मृतानां संख्या सप्त इति सूच्यते। षट् दिनेभ्यः पूर्वमारब्धे प्रक्षोभे युवकाः छात्राश्च भागं कुर्वन्तः सन्ति। 

  अधुना रियालस्य मूल्यम् एकेन डोलरेण सह १४ लक्षं रियाल् अस्ति। रियालस्य मूल्यशोषणमानं गतवर्षमपेक्षया ५२% अधिकमस्ति। 

  राष्ट्रे वर्तमानायाः अरक्षितावस्थायाः बहूनि कारणानि सूच्यन्ते।

१. अमेरिकादि राष्ट्राणामुपरोधः। 

    २. इरान-इस्रयेलयोः युद्धम्। 

     ३. अमेरिकायाः आक्रमणम्।

     ३. रियालस्य मूल्यशोषणम्। 

      ४. वस्तूनां मूल्यवर्धनं; आर्थिकक्लेशः।

 न्यूयोर्क् नगराधिपरूपेण सोहरान् मंदानी शपथमकरोत्। 

नगरस्य चरित्रे प्रथमतया इस्लामः, भारतीयवंशजश्च नगरपतिः। 

सोहरान् मंदानी शपथवाचनं करोति। 

न्यूयोर्क्> यू एस् राष्ट्रस्य बृहत्तमनगरस्य न्यूयोर्कस्य नगराध्यक्षरूपेण [Mayor] डेमोक्राटिक् दलनेता सोहरान् मंदानी शपथवचनं कृत्वा पदं स्वीचकार। नगरचरित्रे प्रप्रथममेव कश्चन इस्लामधर्मीयः भारतीयवंशजश्च अधिकारं प्राप्नोति। 

  मान्हटन् इत्यत्र प्रशस्ते Old city hall station नामके स्थाने सम्पन्ने कार्यक्रमे खुर् आन् ग्रन्थं संस्पृश्य आसीत् तस्य शपथवाचनम्। न्यूयोर्कस्य अटोर्णी जनरल् पदीयः लटिटा जयिंसः शपथवाचनमकारयत्। तत्रत्यं पारम्पर्यमनुसृत्य द्विवारं प्रतिज्ञामकरोत्। 

  मंदानेः पितरौ भारते जन्म लब्ध्वा वासं कृतवन्तौ आस्ताम्। माता तु चलच्चित्रनिदेशिका मीरा नायरः पिता महमूद मंदानी कोलम्बिया विश्वविद्यालये अध्यापकः च स्तः। २०१८ तमे वर्षे सोहरानः अमेरिकानागरिकत्वं लब्धवान्।

 स्विट्सर्लान्टे नववत्सरोत्सवे 

अग्निबाधा - ४० मरणानि। 

क्रान्स् मोण्टाना> स्विट्सर्लान्टराष्ट्रे कस्यांश्चित् आडम्बरमद्यशालायां नववत्सरोत्सवकार्यक्रमस्य मध्ये दुरापन्नायाम् अग्निबाधायां ४० जनाः दग्धाः। शताधिकाः दाहव्रणिताः। अग्न्यधिष्ठितानां विनोदकार्यक्रमाणां मध्ये आसीत् अग्निप्रकाण्डः।

 

१२ दिनानाम् आर्द्रामहोत्सवः समारब्धः।

१२ दिनानाम् आर्द्रामहोत्सवः
सुप्रसिद्धं तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटियिष्यते। प्रति संवत्सरम् आद्रा नक्षत्रात् १२ दिनानि एव भवन्ति पार्वतीमन्दिरस्य समुद्घाटनम् इत्यस्ति अत्रत्‍याः विशेषता| केरले एरणाकुलं जनपदे आलुवादेशस्य प्रान्ते पूर्णानद्याः तीरे भवति मन्दिरमिदम्। पार्वती परमेश्वरौ अत्र विपरीमुखौ भूत्वा वर्तेते। गृहस्थाश्रमं प्रवेष्टुं तत्पराः युवत्यः युवानश्च स्वस्य अभीष्टस्य सफलतायै अत्र आगत्य जगदम्बायाः पार्वत्याः पुरतः कैशेयं तालिः च समर्प्यते चेत् एकसंवत्सराभ्यन्तरेण विवाहः भविष्यति इत्यस्त्ति विश्वासः। राज्यान्तरादपि जनाः आगच्छन्तिl www.thiruvairanikkulamtemple.org


Friday, January 2, 2026

All India Residential Training Programme for Sanskrit Teachers

केन्द्रिय-संस्कृतविश्वविद्यालयस्य आवासीयसंस्कृतशिक्षकप्रशिक्षणवर्गः, २०२६


केन्द्रीयसंस्कृतविश्वविद्यालयेन संस्कृतभाषाशिक्षणाय कुशलभाषाशिक्षकाणां निर्माणार्थम् अखिलभारतस्तरीयम् एकविंशतिदिवसीयम् आवासीयशिक्षकप्रशिक्षणम् आयोक्ष्यते।

प्रशिक्षणस्य उद्देश्यानि-

  • कुशलसंस्कृतभाषाशिक्षकाणां निर्माणम् ।
  • संस्कृतमाध्यमेन संस्कृतभाषाध्यापनकौशलवृद्धिः ।
  • सरलमानकसंस्कृतेन पाठयितुं नैपुण्यसम्पादनम् ।
  • आधुनिकपद्धत्या संस्कृतभाषाध्यापनाय प्रशिक्षणम् ।
  • संस्कृतशिक्षणे नवाचाराणां प्रयोगः ।

शैक्षिकार्हता- कस्मिन्नपि विषये स्नातकोत्तीर्णता/स्नातकोत्तरोत्तीर्णता ।

अपेक्षितार्हता- संस्कृतभाषावगमने भाषणे पठने लेखने च पटुत्वम् ।

वयोमितिः - अधिकाधिकं 35 वर्षाणि (01.06.2026 दिनाङ्कपर्यन्तम्)

आवेदनम् -

गुगलफार्ममाध्यमेन आवेदनपत्रं पूरणीयम्। आवेदनपत्रस्य Link अधः वर्तते। ईमेलमाध्यमेन पत्रालयमाध्यमेन वा प्रेषितम् आवेदनपत्रं नैव अङ्गीकरिष्यते ।

आवेदनतिथिः - 01.01.2026 दिनाङ्कतः 05.02.2026 दिनाङ्के यावत् ।

लिखितपरीक्षा- Online माध्यमेन लिखितपरीक्षा स्वीकरिष्यते। लिखितपरीक्षायां क-खण्डे 60 अङ्कानां बहुविकल्पात्मकप्रश्नाः ख-खण्डे 40 अङ्गानां च प्रबन्धात्मकप्रश्नाः भविष्यन्ति। परीक्षां लेखितुं साधैंकहोरात्मकः कालः दास्यते। परीक्षार्थिना निश्चितसमयाभ्यन्तरे परीक्षापत्रं समर्पणीयम्। ख-खण्डस्य उत्तराणि हस्तलिखितानि स्युः, टङ्कितानि उत्तरपत्राणि नैव अङ्गीकरिष्यन्ते। द्वयोः खण्डयोः उत्तरम् अनिवार्यतया लेखनीयम्। एकस्मिन्नपि खण्डे उत्तरं न लिख्यते चेत् अनुत्तीर्णता भविष्यति। केनचित् कारणेन उत्तरपत्रं न समर्पितं चेत् विश्वविद्यालयः तदर्थम् उत्तरदायी न भविष्यति। लिखितपरीक्षा 01.03.2026 तमे दिनाङ्के आयोजयिष्यते। आवेदकेभ्यः परीक्षाविषये विवरणम् ईमेलमाध्यमेन पूर्वमेव सूचयिष्यते ।

प्रश्नपत्रस्वरूपम् - शब्दरूपाणि, धातुरूपाणि, सर्वनामानि, संख्या, कृदन्ताः, पूरणप्रत्ययाः, अव्ययानि, कारकम्, वाच्यम्, सन्धिः, समासः, प्रबन्धलेखनम् इत्यादिविषयकाः प्रश्नाः भवेयुः ।

मौखिकपरीक्षा- लिखितपरीक्षायाम् अन्यूनं 50% अङ्कान् प्राप्तवद्भयः एव मौखिकपरीक्षार्थम् अवसरः दास्यते। मौखिकपरीक्षायां संस्कृतसम्भाषणक्षमतायाः अध्यापनकौशलस्य च परीक्षणं करिष्यते। मौखिकपरीक्षा मार्चमासस्य तृतीयसप्ताहे/चतुर्थसप्ताहे सम्भाव्यते। एतद्विषये अधिकं विवरणम् ईमेलमाध्यमेन प्रेषयिष्यते ।

प्रशिक्षणम्- मौखिकपरीक्षायाम् अन्यूनं 50% अङ्कान् प्राप्तवद्भयः एव प्रशिक्षणं दास्यते। प्रशिक्षणमिदम् आवासीयं भविष्यति। प्रशिक्षणवर्गम् आगन्तुं गमनागमनव्ययः प्रशिक्षार्थिभिः स्वयं निर्वाढव्यः भवेत्। प्रतिभागिभ्यः आवास भोजनव्यवस्था विश्वविद्यालयपरतया प्रशिक्षणस्थाने एव करिष्यते। प्रशिक्षार्थिभिः विश्वविद्यालयेन आयोजविष्यमाणे एकविंशतिदिवसीये प्रशिक्षणवर्गे पूर्णतया उपस्थितैः भाव्यम्, प्रशिक्षणवर्गस्य सर्वे नियमाः च दृढतया पालनीयाः। मध्येप्रशिक्षणं बहिर्गमनं सर्वथा निषिद्धम्। प्रशिक्षणस्थानं भारते यत्र कुत्रापि भवेत्। प्रशिक्षणावधेः स्थानस्य च विषये यथाकालं सूचना ईमेलमाध्यमेन प्रेषयिष्यते। प्रशिक्षणोत्तरपरीक्षाम् उत्तीर्णवत्सु केषाञ्चन वरीयताक्रमेण विश्वविद्यालयस्य अपेक्षानुगुणं संस्कृताध्ययनकेन्द्रेषु अध्यापनावसरः भवितुम् अर्हति।

आवेदनस्य सूत्रम्- https://forms.gle/vorkq1qMpmqtN7rM9

सम्पर्कसूत्रम् - 011-35010261 (प्रातः सार्धनववादनतः सायं षड्वादनपर्यन्तम्) pathatusamskritam@gmail.com

 शबरिमला सुवर्णचौर्यम् सि बि ऐ अन्वेषणम् आवश्यकमिति भारतीय बुद्धिमत्ता संस्था।

 पत्तनंतिट्टा> शबरिमला श्रीस्थानालयद्वारस्य, द्वारचतुष्कोणस्य द्वारपालकशिल्पस्य च सुवर्णास्तरण-चौर्यमधिकृत्य प्रकरणं विशदान्वेषणाय सि बि ऐ संस्थायै समर्पयितुं केन्द्र-बुद्धिमत्तासंस्थया निर्दिष्टम्। राज्यान्तर - राष्ट्रान्तरबन्धः प्रकरणे अस्मिन् अस्ति इत्यतः यथार्थवस्तुतां बहिरानेतुं सि बि ऐ अन्वेषणम् आवश्यकमिति केन्द्र बुद्धिमत्ता संस्थया प्रोक्तम् ।

 हादिहत्याप्रकरणे अपराधी दुबाय् राष्ट्रे।

धाक्का> बङ्गलादेशे युवजनप्रक्षोभस्य अन्तरे व्यापादितः युवनेता उस्मान् षरीफ हादी इत्यस्य हत्याप्रकरणे अपराधी इति सन्दिह्यमानः फैसल् करीम मसूदः दुबाय् राष्ट्रे। प्रकरणे आत्मनः भागभाक्त्वं नास्तीति विवृण्वन् तस्य वीडियोसन्देशः  दुबायतः बहिरागतः। हादेः घातकानां भारतम् अभयस्थानरूपेण वर्तते इति बङ्गलादेशस्य आरोपे जाते वृत्तान्तोSयं प्राधान्यमर्हति। 

  'अहं फैसल् करीम मसूदः। हादेः हत्यायां मम कोSपि सम्बन्धः नास्ति। गूढचिन्तनस्य परिणामेन अवास्तिवकतया कृतमारोपणं भवत्येतत्। तस्य हेतोः अहं दुबायं पलायितवान्' - वीडियोसन्देशे तेन कथ्यते। हत्यायाः पृष्ठतः किमपि तीव्रराजनैतिकसंघटनमिति सः आरोपयति।

 शयनानुकूलितं वन्देभारतरेल् यानं सज्जम्। 

गुवीहाटी-कोल्कोत्तापथे प्रथमयानसेवा। 


नवदिल्ली> राष्ट्रस्य प्रथमं शयनानुकूलितं वन्देभारत एक्स्प्रस् रेल् यानं गुवीहाटीतः कोल्कोत्तापर्यन्तं  विलम्बं विना सेवाम् आरप्स्यते। अचिरेण निर्वाचनाय सज्जमानयोः असम-पश्चिमवंगराज्ययोः राजधानीनगरबन्धिता अस्ति  रेल् यानसेवा इत्येतत् वैशिष्ट्यमस्ति। प्रधानमन्त्री नरेन्द्रमोदी उद्घाटनं करिष्यतीति रेल् यानमन्त्री अश्विनी वैष्णवः प्रोक्तवान्। 

  दीर्घदूरयात्रायै अनुयुक्तमस्ति शयनानुकूलितयानस्यास्य कक्षानिर्माणम्। यात्रिकेभ्यः आधुनिकसुविधाः  व्यवस्थीकृताः। यानसंघट्टननिवारणाय कवचसंविधानमप्यस्ति। अस्य वर्षस्य अन्त्ये १२ शयनानुकूलितवन्देभारतरेल् यानानि अपि सेवामारप्स्यन्ते इति रेल्यानाधिकारिभिरुक्तम्।

 सौमन सेन‌ः केरलस्य उच्चन्यायालयस्य मुख्यन्यायाधिपः । 


नवदिल्ली> केरलस्य उच्चन्यायालयस्य मुख्यन्यायाधिपरूपेण न्याया. सौमन सेन‌ः नियुक्तः। इदानीं सः मेघालयस्य मुख्यन्यायाधिपः अस्ति। जनुवरि नवमदिनाङ्के सेवानिवृत्तो भविष्यमाणस्य मुख्यन्यायाधिपस्य नितिन् जांदार् वर्यस्य स्थाने अस्ति तस्य नियुक्तिः।

Thursday, January 1, 2026

 गासायां ३७ सन्नद्धसंघटनानां निरोधः। 

जरुसलेमः> गासायां प्रवर्तमानानां ३७ सन्नद्धसंघटनानां [एन् जि ओ] गुरुवासरतः निरोधः विधास्यतीति इस्रयेलेन निगदितम्। निरोधः न करणीयः चेत् संघटनेषु प्रवर्तमानानां पालस्तानीयानां विशदांशाः देयाः इति स्पष्टीकृतम्। इस्रयेलस्य अयं निर्णयः गासायां साहाय्यवितरणे प्रतिसन्धिं जनयिष्यतीति यूरोपीयसख्येन पूर्वसूचना दत्ता।

 भीकरकेन्द्राणि विनष्टानीति पहल्गामसूत्रधारः।

नवदिल्ली> ओपरेषन् सिन्दूरनामके भारतसेनाप्रक्रमे पाकिस्थाने वर्तितानि भीकरकेन्द्राणि विनष्टानीति लष्कर् ई तोय्बा संघटनस्य वरिष्ठः कमान्डर् पदीयः सैफुल्ला कसूरी उक्तवान्। 'सिन्दूर'स्यानन्तरं प्रथममेव विषयेSस्मिन् कस्यचन लष्कर् ई तोय्बा नेतुः एतादृशप्रस्तुतिः। भारतीयसुरक्षाधिकृतैः पूर्वमेव अधिगतं यत् कसूरीनामक एव पहलगाम् आक्रमणस्य सूत्रधारः। लष्करे तोय्बायाः स्थापकस्य हाफीस् सयीदस्य विश्वस्तः अनुयायी अस्ति कसूरी। 

  भीकरकेन्द्राणि विशीर्णानीति तेन अङ्गीक्रियते अपि भारतं विरुध्य प्रकोपनपराः प्रस्तावाः अपि तेन क्रियन्ते। काश्मीरविषयात् निवर्तनं न चिन्तितमित्यपि तस्य वीडियोसन्देशे स्पष्टीक्रियते।

 आविश्वं नूतनवर्षोदयः। 

शुभाशयनिर्भरं २०२६ तमं स्वीकृत्य लोकः। 

कोच्चीनगरे सम्पन्नस्य नववत्सरोत्सवस्य दृश्यम्। 

कोच्ची> प्रतीक्षां प्रत्याशां च निवेश्य विश्वस्मिन् सर्वत्र नूतनवर्षं प्रसूतम्। अत्यधिकाह्लादेन आविश्वं जनाः २०२६ तमं वर्षं स्वागतं चक्रुः। 

  विश्वस्मिन् प्रथमतया पसफिकसमुद्रस्थे किरिबातद्वीपराष्ट्रे आसीत् नववर्षप्रसूतिः। तदनन्तरं न्यूसिलान्टे च। लोके सर्वत्र गान-नृत्त-वर्णस्फोटकादिभिः विविधैः कार्यक्रमैः जनाः नववर्षं स्वीकृतवन्तः।