आविश्वं नूतनवर्षोदयः।
शुभाशयनिर्भरं २०२६ तमं स्वीकृत्य लोकः। .jpeg)
कोच्चीनगरे सम्पन्नस्य नववत्सरोत्सवस्य दृश्यम्।
कोच्ची> प्रतीक्षां प्रत्याशां च निवेश्य विश्वस्मिन् सर्वत्र नूतनवर्षं प्रसूतम्। अत्यधिकाह्लादेन आविश्वं जनाः २०२६ तमं वर्षं स्वागतं चक्रुः।
विश्वस्मिन् प्रथमतया पसफिकसमुद्रस्थे किरिबातद्वीपराष्ट्रे आसीत् नववर्षप्रसूतिः। तदनन्तरं न्यूसिलान्टे च। लोके सर्वत्र गान-नृत्त-वर्णस्फोटकादिभिः विविधैः कार्यक्रमैः जनाः नववर्षं स्वीकृतवन्तः।